________________
•
चतुर्धा विनयविवेचनम् •
१९७५
एकस्याऽऽशातनाऽप्यत्र' सर्वेषामेव तत्त्वतः । अन्योऽन्यमनुविद्धा हि तेषु ज्ञानादयो गुणाः । । ९ ।। एकस्येति । अत्र अर्हदादिपदेषु एकस्याऽपि आशातना तत्त्वतः सर्वेषां (एव) हि
= यतः
श्री वीरभद्रसूरिभिस्तु आराधनापताकायां विणओ पुण पंचविहो निद्दिट्ठो नाण १ २ चरित्ते३ | तवविणओ य चउत्थो ४ चरिमो उवयारिओ५ विणओ ।। काले१ विणए२ बहुमाणे३ उवहाणे ४ तहा अणिन्हवणे५ । वंजण६ अत्थ७ तदुभए८ विणओ नाणस्स अट्ठविहो । । निस्संकिय१ निक्कंखिय२ निव्वितिगिंछा३ अमूढदिट्ठी४ य । उववूह५ थिरीकरणे६ वच्छल्ल७ पभावणे८ अट्ठ ।। इंदिय - कसायपणही गुत्तीओ तिणि पंच समिईओ । एसो चरित्तविणओ समासओ होइ नायव्वो ।। भत्ती तवाहिसुं तवे य, सेसेसु हिलणच्चाओ । जह विरियमुज्जमो वि य, तवविणओ एस नायव्वो ।। काइय वाइय माणस्सिओ य तिविहोवयारिओ विणओ । सो पुण सव्वो दुविहो - पच्चक्खो १ चेव पारोक्खो २ ।।
← (आ.प.८८-९३) इत्येवं विनयप्रकारोपप्रकारा विनिर्दिष्टा इति ध्येयम् ।
तत्त्वार्थभाष्ये उमास्वातिवाचकास्तु विनयः चतुर्भेदः । तद्यथा - (१) ज्ञानविनयः, (२) दर्शनविनयः, (३) चारित्रविनयः, (४) उपचारविनय इति । तत्र ज्ञानविनयः पञ्चविधो मतिज्ञानादिः । दर्शनविनयस्त्वेकविध एव सम्यग्दर्शनविनयः । चारित्रविनयः पञ्चविधः सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः-सम्यग्दर्शन -ज्ञान- चारित्रादिगुणाधिकेषु अभ्युत्थानाऽऽसनप्रदान-वन्दनाऽनुगमनादिः । विनीयते (कर्म) तेन तस्मिन् वा विनयः ← (त.सू. ९/२३ भा.) इत्येवं प्राहुः ।
यद्वा आचार-श्रुत-विक्षेपण-दोषपरिघातविषयकतया विनयस्य चतुर्विधत्वमभिमतमवगन्तव्यम् । आचारविनयस्तु संयम-तपो-गणैकाकिविहारसामाचारीविषयतया चतुर्विधः । सूत्राऽर्थ-हित-सम्पूर्णवाचनारूपेण श्रुतविनयोऽपि चतुर्धा । सम्यक्त्वग्राहकत्व - प्रवाजन स्थिरीकरण-स्वाचारयोगक्षेमवृद्धिभेदेन विक्षेपणविनयोऽपि चतुष्प्रकारः । परकीयक्रोध-विषयादिकाङ्क्षा-स्वकीयक्रोधादिनिर्घातनरूपेण दोषपरिघातविनयोऽपि चतुर्भेदः । तदुक्तं प्रवचनसारोद्धारे गुरुगुणषट्त्रिंशिकाप्रदर्शनावसरे ' आयारे सुयविणए विक्खिवणे चेव होइ बोधव्वा । दोसस्स परिघाए विणए चउहेस पडिवत्ती ।। ← ( प्र सारो. ५४६ ) इति । अधिकन्तु अग्रे (पृ.१९९९) वक्ष्यामः। धर्मरत्नप्रकरणबृहद्वृत्तौ देवेन्द्रसूरिभिरपि प्रकृतचतुर्विधविनयस्वरूपमित्थमेवाऽवर्णि व्यवहारभाष्यानुसारेण भावसाधुसप्तमलिङ्गनिरूपणावसरे ( दृश्यतां धर्मरत्न. गा. १२६-वृत्ति. पृष्ठ- २९०) इत्यवधेयम् ।।२९ / ८ ।।
एकाऽऽशातनायामखिलाऽऽशातनामाविष्करोति- 'एकस्ये 'ति । आशातनास्वरूपं आवश्यकचूर्णी → आसायणा णामं नाणादिआयस्स सातणा ← ( आ. चू. भाग-२ पृ. २१२ ) इति दर्शितम् । तदुक्तं उत्त राध्ययनबृहद्वृत्तौ शान्तिसूरिभिरपि सम्यक्त्वादिलाभं शातयति - विनाशयति इति आशातना ← * એક્ની આશાતનામાં તમામની આશાતના ક
ગાથાર્થ :- અહીં એકની પણ આશાતના કરવાથી પરમાર્થથી બધાયની આશાતના થાય છે. કારણ કે અરિહંત વગેરેમાં જ્ઞાનાદિ ગુણો પરસ્પર એકબીજાથી સંકળાયેલા છે. (૨૯/૯)
ટીકાર્થ :- અરિહંત વગેરે. ૧૩ પદોમાંથી એક પણ પદની આશાતના કરવાથી પરમાર્થથી બધાયની
१. हस्तादर्शे '...तनाप्यस्मिन्' इत्यशुद्धः पाठः 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org