________________
१९७६
• एकाशातनायां सर्वाशातनाप्रसङ्गहेतूहनम् • द्वात्रिंशिका-२९/९ तेषु ज्ञानादयो गुणा अन्योन्यमनुविद्धाः । यदेव ह्येकस्य शुद्धं ज्ञानं तदेवाऽपरस्याऽपि । इत्थं च हीलनाविषयीभूतज्ञानादिसम्बन्धस्य सर्वत्राऽविशेषादेकहीलने सर्वहीलनाऽऽपत्तेर्दारुणविपाकत्वमवधार्य न कस्याऽपि हीलना कार्येति भावः ।।९।। (उत्त.बृ.पृष्ठ-५७८) इति ध्येयम् । व्यवहारत एकस्यैव कस्यचिदर्हदादेः हीलनेऽपि हीलनाविषयीभूत ज्ञानादिसम्बन्धस्य सर्वत्र अर्हदादिषु त्रयोदशसु स्थानेषु अविशेषात् = तुल्यत्वात् एकहीलने सर्वहीलनाऽऽपत्तेः एकस्य तीर्थकरस्याऽऽशातनायां सर्वतीर्थकराऽऽशातनावत् अर्हत्सिद्धकुलाचार्यादीनां सर्वेषामाशातनाऽऽपत्तेः । तदुक्तं साक्षेप-परिहारं ओघनिर्युक्तौ → भरहेरवयविदेहे पन्नरस वि कम्मभूमिगा साहू । एक्कंमि हीलियंमि सव्वे ते हीलिया हुंति ।। भरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साहू । एक्कंमि पूइयंमी सव्वे ते पूइया हुंति ।। अह को पुणाइ नियमो एक्कंमि वि हीलियंमि। ते सव्वे होति अवमाणिया पूइए य संपूइया सव्वे ।। नाणं व दंसणं वा तवो य तह संजमो य साहुगुणा । एक्के सव्वेसु वि हीलिएसु ते हीलिया हुंति ।। एमेव पूइयंमि वि एक्कंमि वि पूइया जइगुणा उ। थोवं बहूं निवेसं इइ नच्चा पूयए मइमं ।।
6 (ओ.नि.५२६-५३०) इति भावनीयम् । निश्चयनयमतमेतत् । एतेन → एगम्मि पूइयम्मी सव्वे ते पूइया हुंति - (गु.त.वि.१/१७) इति गुरुतत्त्वविनिश्चयवचनमपि व्याख्यातम्, 'निश्चयतस्तु एकस्मिन्नपि गुरौ पूजिते सर्वे ते गुरवः पूजिता भवन्ति, सर्वत्राऽपि ज्ञानादिगुणसाम्यात्' (गु.त.वि.१/१७ वृ.) इति तवृत्ती व्याख्यानात् ।
इदञ्चात्रावधेयम्- आशातना → गुरुं पडुच्च विणयकरणे जं फलं तमायं सादेतीति आसादणा - (नि.चू.उ.१०/सूत्र-४) इति निशीथचूर्ध्या दर्शिता, दशाश्रुतस्कन्धनिर्युक्तौ → आसायणाओ दुविहा मिच्छा पडिवज्जणा य लाभे अ । लाभे छक्कं तं पुण इट्ठमणिटुं दुहेक्केक्कं ।। - (द.श्रु.नि.३/ १५) इत्यादिना विभक्ता । निशीथभाष्ये च सा → दव्वे खेत्ते काले भावे आसायणा मुणेयव्वा । एएसिं णाणत्तं वोच्छामि अहाणुपुव्वीए ।। दव्वे आहारादिसु खेत्ते गमणादिएसु णायव्वा । कालम्मि विवच्चासे मिच्छा पडिवज्जणा भावे ।। - (नि.भा.२६४१/४२) इत्येवमुपवर्णिता चातुर्विध्येन । सा च समग्राऽपि संयमाऽर्थिना वर्जनीया । तदुक्तं दशाश्रुतस्कन्धनिर्युक्तौ → सो गुरुमासायंतो दंसण-णाण-चरणेसु सयमेव । सीयति कत्तो आराहणा से तो ताणि वज्जेज्जा ।। - (द.श्रु.नि.२४) इति । → हीलना न च कर्तव्या प्राणान्तेऽपि च धर्मिणाम् + (कृ.गी.२१०) इति कृष्णगीतावचनमप्यनुयोज्यम् । वक्ष्यमाणरीत्या (२९/१०-११ पृ.१९७७-१९८०) आशातनाया दारुणविपाकत्वं = रौद्रपरिणामत्वं अवधार्य = निश्चित्य न कस्याऽपि આશાતના થાય છે. કારણ કે અરિહંત વગેરે તેર સ્થાનોમાં જ્ઞાનાદિ ગુણો પરસ્પર એકબીજાની સાથે સંકળાયેલા છે. જે શુદ્ધ જ્ઞાન અરિહંત વગેરે એકમાં છે તે જ શુદ્ધ જ્ઞાન સિદ્ધ વગેરે અન્ય પદોમાં પણ છે. આ રીતે આશાતનાનો = હીલનાનો વિષય બનનાર જ્ઞાનાદિ ગુણનો સંબંધ તો અરિહંત વગેરે તમામ સ્થાનોમાં સમાન જ છે. તેથી એકની હીલના કરવાથી તમામની હલના થાય છે. આથી આશાતનાનું ફળ ભયંકર હોય છે - એમ ખ્યાલમાં રાખીને એકની પણ હીલના = આશાતના ન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org