________________
१९६८
• सप्तधा औपचारिकविनयविवरणम् . द्वात्रिंशिका-२९/६ मानसश्चेति । मानसश्च = उपचारो द्विधा शुद्धप्रवृत्त्या = धर्मध्यानादिप्रवृत्त्या, असन्निरोधतः = आर्तध्यानादिप्रतिषेधात् ।
अवसरप्राप्तं प्रतिरूपयोगयोजनचरमभेदं निरूपयति - 'मानस' इति । तदुक्तं व्यवहारसूत्रपीठिकायां → माणसिओ पुण विणओ दुविहो उ समासओ मुणीयव्यो । अकुसलमणोनिरोहो कुसलमणउदीरणं चेव ।। - (व्य.सू.पी.७७) इति । 'अकुशलस्य = आर्तध्यानाधुपगतस्य मनसो निरोधः, कुशलस्य च धर्मध्यानाधुत्थितस्य मनस उदीरणं मानसिको विनय' इति तद्वृत्तिलेशः ।
साम्प्रतमौपचारिकः प्रतिरूपयोगयोजनविनयचतुर्थभेदो निरूप्यते । स च सप्तधा । तथाहि (१) अभ्यासवर्ती, गुरुपादपीठिकाप्रत्यासन्नवर्तीति भावः, गुरुसमीपे ज्ञानादिरूपपारमार्थिकरत्नलाभार्थी सन् नेत्र-वक्त्रगताकार-चेष्टाभ्यां तत्समीहितं कर्तुमुत्सहते। (२) छन्दोऽनुवर्तिता = गुर्वभिप्रायाऽऽराधकत्वं आहारोपधि-वसतिगोचरकाल-स्वभावाऽनुमतत्वविज्ञानेन। (३) इहपरलोकाद्याशंसापरिहारेण 'सङ्ग्रहमुपग्रहं वा में करिष्यति, भवक्षयहेतुरयं मे गुरुः' इति बुद्ध्या मोक्षाङ्गकार्यनिमित्तं क्रियमाणः कार्यहेतुको विनयः । (४) प्रतिकृतिविनयः, 'ज्ञान-दर्शन-चारित्रलाभैर्मामनुपकारिणमप्युपकुर्वन्ति गुरवोऽमी, तस्मादवश्यमेतेषु मया विनयः कर्तव्य' इति धिया कृते कार्ये क्रियमाणः, विनेयविशेषाऽपेक्षयाऽस्याऽप्यदोषत्वात् । (५) आर्तगवेषणं, द्रव्याद्यापत्सु आर्तस्याऽनार्तस्य वा दुर्लभद्रव्यसम्पादनम् । (६) कालज्ञता, यस्मिन् काले देशे च गुर्वादीनामनुकूलो य आहारादिः तं तदा तत्रोपनयति, विनयहेतुत्वात् काल-देशज्ञानं विनयतयोपचर्यते । (७) सानुलोमं, सर्वेषु गुरूपदेशेषु अनुलोमं प्रवर्तत इति । तदुक्तं व्यवहारसूत्रपीठिकायाम् → 'अब्भासवत्ति छंदोणुवत्तिया कज्ज- पडिकित्ती चेव । अत्तगवेसण कालण्णुया य सव्वाणुलोमं च ।। गुरुणो य लाभकंखी अब्भासे वट्टते सया । साहू आगार इंगिएहिं संदिट्ठो वत्ति काऊणं ।। कालसहावाऽणुमया आहारुवहीउवस्सया चेव । नाउं ववहरइ तहा छंदं अणुवत्तमाणो उ ।। इह-परलोकाऽऽसंसविमुक्कं कामं वयंति विणयं तु । मोक्खाहिगारिएसु अविरुद्धो सो दुपक्खे वि।। एमेव य अणियाणं यावच्चं तु होइ कायव्वं । कयपडिकित्ती वि जुज्जइ, न कुणइ सव्वत्थ न जइवि ।। दव्वावईमाइसुं अत्तमणत्तेव गवेसणं कुणइ । आहारादिपयाणं छंदमि ऊ छट्ठउ विणउ ।। सामायारिपरूवणनिद्देसे चेव बहुविहे गुरुणो । एमेय त्ति तहत्ति य सव्वत्थऽणुलोमया एसा ।।
6 (व्य.सू.पीठि-७८-८४) इति । स्वपक्षेऽयं लोकोपचारविनय इत्युच्यते ।
यद्वा प्रतिरूपविनयस्येमे चत्वारो भेदाः (१) अनुलोमवचनसहितत्वं, यत्किमपि कार्यमादिष्टः तत्सर्वमनुलोमवचनपूर्वकं करोति, नान्यथा । (२) प्रतिरूपकायक्रिया, यथापरिपाट्या शरीरविश्रामणम् । (३) संस्पर्शनविषयः यथा गुर्वादेः सुखासिको यो जायते तथा मृदुसंस्पर्शनविषयः । (४) सर्वानुलोमता, व्यवहारविरुद्धेऽपि स्वप्राणव्यपरोपणकारिण्यपि वा समादेशे यथोपदेशमेव सर्वकार्यसम्पादनमिति । तदुक्तं व्यवहारसूत्रपीठिकायाम् → चउहा वा पडिरूवो तत्थेगऽणुलोमवयणसहियत्तं । पडिरूवकायकिरिया फासण-सव्वाणुलोमं च ।।(१)
ટીકાર્થ:- માનસ પ્રતિરૂપયોગસ્વરૂપ ઉપચારવિનય બે પ્રકારે છે. (૧) ધર્મધ્યાનાદિ શુદ્ધ પ્રવૃત્તિ કરવાથી. તથા (૨) આર્તધ્યાનાદિ ખોટી વૃત્તિ છોડવાથી. પોતાના સિવાયની મોટી વ્યક્તિને અનુસરવાથી/ઝૂકવાથી પ્રાયઃ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org