________________
१९६६ • षड्विधकुवचननिर्देशः .
द्वात्रिंशिका-२९/५ मितं = स्तोकाऽक्षरं ब्रुवतो द्वितीयः । अपरुषं = चाऽनिष्ठुरं ब्रुवतस्तृतीयः । अनुविचिन्त्य = स्वालोच्य च ब्रुवतः चतुर्थ इति ।।५।। विद्यते ।। - (म.भा.आदिपर्व ७४/१०५) इति महाभारतवचनमपि व्याख्यातम् ।
तथा → बहुयं मा य आलवे 6 (उत्त. १/१०) इति उत्तराध्ययनसूत्रमनुसृत्य स्तोकाऽक्षरं ब्रुवतो द्वितीय इति। तदुक्तं सूत्रकृताङ्गे अपि → नाऽतिवेलं वदेज्जा 6 (सूत्रकृ.१/१४/२५) इति । तदुक्तं पञ्चकल्पभाष्ये अपि → जं पि य भासन्ति जति तं पि य कज्जम्मि थोव जयणाए 6 (पं.क.भा. ११५७) इति ।
तथा → नो य णं फरुसं वए - (द.वै. ५।२।२९) इति दशवैकालिकसूत्रं → नो वयणं फरुसं वदेज्जा 6 (आचा. २११।१।६) इति च आचाराङ्गसूत्रं पूर्वोक्तं(पृ.१८६४) चेतसिकृत्य आहअपरुष = अनिष्ठुरं = अनुद्वेजकं = स्नेहोपेतं ब्रुवतः तृतीय इति । तदुक्तं निशीथभाष्ये → नेहरहितं तु फरुसं 6 (नि.भा.२६०८) इति ।
प्रकृतेऽनिष्ठुरं चोपलक्षणमलिक-हिलितादीनाम्, तादृशवाण्या अवक्तव्यत्वात् । तदुक्तं स्थानाङ्गसूत्रे → इमाई छ अवतणाई वदित्तते तं जहा- (१) अलियवयणे, (२) हीलियवयणे, (३) खिसितवयणे (४) फरुसवयणे (५) गारत्थियवयणे, (६) विउसवितं वा पुणो उदीरित्तते - (स्था.सू.६ ।६.५२७) इति ।
अनिष्ठुरवचनप्रयोगः परेषां वाङ्मयतपस्त्वेन सम्मतः । तदुक्तं संन्यासगीतायां → अनुद्वेजकसत्येष्टप्रियवाक्यप्रयोगतः । स्वाध्यायाऽभ्यसनाच्चेह संसिध्येद् वाङ्मयं तपः ।। 6 (सं.गी.३/९९) इति । सम्मतञ्चेदमस्माकमपि, विनयस्याऽभ्यन्तरतपस्त्वेनाऽभ्युपगमादित्यवधेयम् ।
स्वालोच्य च ब्रुवतः चतुर्थ इति । → अणुचिंतिय वियागरे - (सू.कृ. १।९।२५) इति सूत्रकृताङ्गसूत्रवचनं, → समिक्खिय संजएण कालम्मि य वत्तव्यं 6 (प्र.व्या. २७।२४) इति प्रश्नव्याकरणवचनं, → पुव्विं बुद्धीइ पेहित्ता पच्छा वयमुयाहरे - (द.वै.नि. २९२) इति दशवैकालिकनियुक्तिवचनं, → अणुवीइभासी से णिग्गंथे - (आचा. २।३।१५।२) इति आचाराङ्गवचनमपि च वाग्विनयचतुर्थभेदस्वरूपं दर्शयन्ति। इत्थं भाषमाणः सत्प्रशंसामुपलभते ।
तदुक्तं दशवैकालिकसूत्रे → मिअं अदुटुं अणुवीइ भासए, सयाण मज्झे लहइ पसंसणं 6 (द.वै.सू. ७५५) इति । तदुक्तं दशवैकालिकनियुक्ती → 'हिअ-मिअ-अफरुसवाई अणुवीईभासि वाइओ विणओ - (द.वै.नि.९/३२२) इति । अगस्त्यसिंहसूरिकृता व्याख्याऽत्रैवम् → (१) जं आयरियादि अपच्छभोजणादिनिवारणं करेंति एतं इहलोगहितं, सीतंतस्स चोयणा परलोगहितं । (२) तं चेव परिमितमणुच्चसदं च मितं । (३) तं चेव सामपुव्वं 'वरं सि मया णिद्धेण भणितो, ण परेण' રીતે આવે તેવું હિતકારી વચન બોલનાર વ્યક્તિને પ્રથમ વાચિક ઉપચારવિનય થાય છે. પરિમિત અક્ષર-પદ-વાક્ય બોલનાર માણસને બીજા પ્રકારનો વાચિક ઉપચારવિનય થાય છે.
નિષ્ફરતા વિના બોલતા જીવને ત્રીજા ભેદવાળો વાચિક પ્રતિરૂપયોગસ્વરૂપ ઉપચારવિનય થાય છે. તથા સારી રીતે વિચારીને બોલનારને ચોથા પ્રકારનો વાચિક ચિતયોગાત્મક ઉપચારવિનય થાય છે. (૨૯/૫)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org