________________
• चतुर्विधविनयविचारः •
द्वात्रिंशिका - २९/२
ज्ञान-दर्शन-चारित्र- तपोभिरुपचारत: । अयं च पञ्चधा भिन्नो' दर्शितो मुनिपुङ्गवैः ।।२।। ज्ञानेति । ज्ञानादीनां विनयत्वं पूर्वकर्मविनयनादुत्तरकर्माऽबन्धाच्च द्रष्टव्यम् ||२|| अपि विनयः शासने मूलं विनीतः संयतो भवेत् । विनयाद् विप्रमुक्तस्य कुतो धर्मः कुतस्तपः ? ।। ← (कु.मा.कथा-३- पृ.३३ ) इत्युक्तमित्यवधेयम् ।।२९ / १।।
विनयस्तावत् पञ्चधा लोकोपचाराऽर्थ-काम-भय- मोक्षविनयभेदेन तदुक्तं दशवैकालिकनिर्युक्तौ लोगोवयारविणओ अत्थनिमित्तं च कामहेउं च । भयविणय मुक्खविणओ विणओ खलु पंचहा होइ । । अभुट्ठाणं अंजलि आसणदाणं अतिहिपूआ अ । लोगोवयारविणओ देवयपूआ अ विहवेणं ।। अब्भासवित्ति-छंदाणुवत्तणं देस-कालदाणं च । अब्भुट्ठाणं अंजलि आसणदाणं च अत्थकए || एमेव कामविणओ भए अ नेअव्वमाणुपुव्वीए ।। ← (द.वै.नि. ९/३१०-३१३) इति । तदुक्तं मूलाचारे वट्टकेराचार्येण अपि →
१९६२
लोगाणुवित्तिविणओ अत्थणिमित्ते य कामतंते य । भयविणओ य चउत्थो पंचमओ मोक्खविणओ य ।। अभुट्ठाणं अंजलियासणदाणं च अतिहिपूजा य । लोगाणुवित्तिविणओ देवदपूया सविभवेण ।। भासावित्ति छंदाणुवत्तणं देसकालदाणं च । लोगाणुवित्तिविणओ अंजलिकरणं च अत्थकदे ।। एमेव कामतं भयविणओ चेव आणुपुव्वीए । पंचमओ खलु विणओ परूवणा तस्सिमा होदि ।। ← (मूला. ५८०-३) इति । ग्रन्थकारस्तु परमोपादेयत्वात् सद्दीक्षाव्याप्तत्वाच्च मोक्षविनयमेव सप्रभेदमाचष्टे । 'ज्ञाने 'ति । यद्यपि व्यवहारसूत्रपीठिकायां पडिरूवग्गहणेणं विणओ खलु सूइओ चउविगप्पो । नाणे दंसणे चरणे पडिरूवं चउत्थओ होइ ।। ← (व्य.सू.भा.पी. ६२ ) इत्येवं विनयचातुर्विध्यमुक्तम् (तत्त्वार्थभाष्येऽपि (९ / २३ ) विनयः चतुर्धा दर्शितः तथापि दशवेकालिकनिर्युक्तौ दंसण-नाण-चरित्ते तवे अ तह ओवयारिए चेव । एसो अ मोक्खविणओ पंचविहो होइ नायव्वो । । ← (द.वै.नि. ९/३१४ ) इत्येवं पञ्चधोक्तः इति तदनुसारेण पञ्चधात्वोक्तिस्सङ्गच्छत एव । व्यवहारसूत्रपीठिकादौ तु तपोविनयस्य चारित्रविनयेऽन्तर्भावविवक्षेति नोक्तविभागव्याघातापातः । ज्ञानादीनां विनयत्वं पूर्वकर्मविनयनात् = सत्तागतज्ञानावरणादिकर्माऽपनयनात्, उत्तरकर्माऽबन्धाच्च = अभिनवकर्मोपचयाऽकरणाच्च । तदुक्तं दशवैकालिकनिर्युक्तौ दव्वाण सव्वभावा उवइट्ठा जे जहा जिणवरेहिं । ते तह सद्दिहइ नरो दंसणविणओ हवइ तम्हा ।। नाणं सिक्ख नाणं गुणेइ नाणेण कुणइ किच्चाई । णाणी नवं न बंधइ णाणविणीओ हवइ तम्हा । । अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमन्नं च न बंधइ चरित्तविणओ हवइ तम्हा ।। વિશેષાર્થ :- વિનય શબ્દ ‘વિ’ ઉપસર્ગવાળા ‘ની’ ધાતુથી બનેલ છે. તેનો અર્થ થાય છે દૂર કરવું. કર્મોને દૂર કરે તેવી ક્રિયા વિનય. આ અર્થ શબ્દ વ્યુત્પત્તિના જાણકારોને માન્ય છે.(૨૯/૧) ઃ વિનયના પાંચ પ્રકાર
=
गाथार्थ :- ज्ञान, दर्शन, यारित्र, तप अने उपयारथी खा विनय पांय लेहवानी छे - खेवं श्रेष्ठ भुनिखोखे भजावेस छे. (२८/२)
ટીકાર્થ :- જ્ઞાન, દર્શન
વગેરેને વિનય કહેવાનું કારણ એ છે કે તેઓ જૂના કર્મોને દૂર કરે અટકાવે છે - એમ સમજવું. (૨૯/૨)
છે તથા નવા કર્મોને બંધાતા
१. हस्तादर्शे 'भिन्ना' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org