________________
• विनयव्युत्पत्तिनिमित्तोपदर्शनम् • ।
१९६१ ॥ अथ विनयद्वात्रिंशिका ॥२९॥ अनन्तरं दीक्षा निरूपिता तस्याश्च विनयगर्भाया एव सफलत्वमिति विनयं निरूपयन्नाहकर्मणां द्राग्विनयनाद्विनयो विदुषां मतः । अपवर्गफलाऽऽढ्यस्य मूलं धर्मतरोरयम् ।।१।।
कर्मणामिति। कर्मणां = ज्ञानावरणीयादीनां द्राक् = शीघ्रं विनयनात्' = अपनयनात् विदुषां विनयो मतः। अयं अपवर्गफलेनाऽऽढ्यस्य (=अपवर्गफलाऽऽन्यस्य) पूर्णस्य धर्मतरोर्मूलम् ।।१।।
नयलता विनयेन हि विद्येव सद्दीक्षाऽपि विराजते । स्वाऽन्यतन्त्राऽनुसारेण सोऽतश्चित्रोऽत्र कथ्यते ।।१।।
अनन्तरं अष्टाविंशतितमद्वात्रिंशिकायां दीक्षा हेतु-स्वरूप-प्रकारादिभिः निरूपिता। तस्याश्च दीक्षाया विनयगर्भाया एव सफलत्वं = सार्थकत्वं इति हेतोः इह विनयं निरूपयन्नाह- 'कर्मणामिति । विनयव्युत्पत्तिमाह- विनयनाद् विनय इति । तदुक्तं आवश्यकनिर्युक्तौ → जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमोक्खाय । तम्हा उ वयंति विओ विणयं ति विलीनसंसारा ।। - (आ.नि.१२१७) इति । धर्मतरोः मोक्षतरोश्च मूलमिति। तदुक्तं ज्ञाताधर्मकथाङ्गे → विणयमूले धम्मे पन्नत्ते (ज्ञा.ध.१/५)। → 'धम्मस्स मूलं विणयं' वदंति धम्मो य मूलं खलु सोग्गईए। सा सोग्गई जत्थ अबाहया ऊ तम्हा निसेव्वो विणयो तदट्ठा ।। - (बृ.क.भा.४४४१) इति बृहत्कल्पभाष्यवचनमप्यत्र स्मर्तव्यम् । चन्द्रकवेध्यकप्रकीर्णके मूलाचारे च → विणओ मोक्खद्दारं 6 (चं.वे.५४, मूला.७/१०६) इत्युक्तमिति पूर्वोक्तं(पृ.१८६६) अत्रानुसन्धेयम् । → कल्याणानां सर्वेषां भाजनं विनयः - (प्र.रति.७४) इति प्रशमरतिवचनमप्यत्र संवदति । धर्मरत्नप्रकरणेऽपि → विणओ सव्वगुणाणं मूलं सन्नाण-दंसणाईणं । मुक्खस्स य ते मूलं तेण विणीओ इह पसत्थो ।। 6 (धर्मरत्न.२५) इति प्रोक्तम् । तदुक्तं दशवैकालिकेऽपि→ मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुवेन्ति साहा । साहप्पसाहा विरुहंति पत्ता तओ से पुष्पं च फलं रसो य ।। एवं धम्मस्स विणओ मूलं परमो से मुक्खो । जेण कित्तिं सुअं सिग्घं नीसेसं चाभिगच्छइ ।।
6 (द.वै.९/२/१-२) इति । तदुक्तं उपदेशमालायां आवश्यकनियुक्तौ विशेषावश्यकभाष्ये च → विणओ सासणे मूलो विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स कओ धम्मो कओ तवो? ।। 6 (उप.मा.४४०, आ.नि.१२३० वि.आ.भा.३४६८) । एतदनुसारेण कुवलयमालायां रत्नप्रभसूरिणा
હ વિનય દ્વાચિંશિક પ્રાશ હ ગ્રંથકારશ્રીએ ૨૮ મી બત્રીસીમાં દીક્ષાનું નિરૂપણ કર્યું. તે દીક્ષા વિનયગર્ભિત હોય તો જ સફળ થાય છે. તેથી વિનયનું નિરૂપણ કરતા મહોપાધ્યાયજી મહારાજ કહે છે કે –
છે ધર્મમૂળ વિનય છે ગાથાર્થ - કર્મોને ઝડપથી દૂર કરવાના લીધે વિનય વિદ્વાનોને માન્ય છે. મોક્ષ સ્વરૂપ ફળથી यी ५॥ धर्भवृक्षतुं भूण विनय छे. (२८/१)
ટકાર્થ :- જ્ઞાનાવરણીય વગેરે કર્મોને ઝડપથી દૂર કરવાના કારણે વિદ્વાનોને વિનય માન્ય છે. મોક્ષસ્વરૂપ ફળથી પૂર્ણ એવા ધર્મવૃક્ષનું મૂળ આ વિનય છે. (૨૯/૧). १. हस्तादर्श 'निरूपये..' इत्यशुद्धः पाठः। २. हस्तादर्श 'विनयात्' इति पाठः। ३. हस्ताद” 'पूर्णताधर्मः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org