________________
• समयसारसिद्धान्तापाकरणम् •
१९४७
इतश्चांऽशात् स्वभावसमवस्थितिः अनारम्भित्वस्य चरणगुणस्वभावत्वात् । ज्ञानाद्यप्रकर्षेऽपि ' ज्ञानवत्पारतन्त्र्ययोग्यतया तदुपपत्तेरप्रमादेन विशुद्धत्वाच्चेति ।। २९ ।।
इतश्चांऽशात् अनारम्भकत्वांशमाश्रित्य षष्ठादिगुणस्थानवर्तिनामपि स्वभावसमवस्थितिः शुद्धोपयोगात्मिका सम्भवति, अनारम्भित्वस्य = आत्मान्याऽनारम्भकत्वस्य चरणगुणस्वभावत्वात् = संयमप्रत्ययिकगुणस्थानस्वभावत्वात्, 'जा जयमाणस्स..' इत्यादिसूत्रतः तत्सिद्धेः । न च भवत्वेवमनारम्भित्वाऽनुविद्धशुद्धोपयोगो भिक्षाटनादौ गीतार्थानाम्, अगीतार्थानां तु तदसम्भव एव तत्त्वज्ञानाद्यपकर्षादिति वाच्यम्, अगीतार्थानां ज्ञानाद्यप्रकर्षेऽपि = गीतार्थापेक्षया तत्त्वज्ञानाद्यपकर्षेऽपि ज्ञानवत्पारतन्त्र्ययोग्यतया = शुद्धोपयोगशालि-स्वभावसमवस्थित-भावगीतार्थाऽऽज्ञावशवर्तित्वयोगेन तदुपपत्तेः स्वभावसमवस्थितिसङ्गतेः ।
एतेन शुद्धोपयोगलक्षणं स्वभावसमवस्थानलक्षणं वा चारित्रं व्यवहारदशावर्तिनामगीतार्थानां वा न सम्भवतीति प्रत्याख्यातम्, स्वाश्रयपरतन्त्रत्वसम्बन्धेन प्रकृष्टतत्त्वज्ञानविशिष्टतयाऽगीतार्थानामपि तादृशक्षयोपशमलाभेन तथाविधचारित्रसम्भवे बाधकाऽभावात् । न च स्वाश्रयसम्बन्धेनैव शुद्धात्मतत्त्वसंज्ञानादेः तथात्वं लाघवादिति शङ्कनीयम्, तथापि अप्रमादेन = शक्त्यनिगूहनेन गीतार्थाऽऽज्ञासम्पादनपरतया गीतार्थनिश्रितानामगीतार्थानामपि विशुद्धत्वात् ।
=
यदपि पडिकमणं पडिसरणं परिहारो धारणा णियत्ती य | जिंदा गरहा सोही अट्ठविहो होइ विसकुंभो ।। अप्पडिकमणमप्पडिसरणं अप्परिहारो अधारणा चेव । अणियत्ती य अणिंदाऽगरहाऽसोही अमयकुंभो ।। ← ( स.सा. ३०६ / ३०७ ) इत्यादिना समयसारे प्रतिक्रमण - प्रतिचरणादीनां प्राग्दशायाममृतकुम्भत्वमुत्तरदशायां च विषकुम्भत्वमिति दर्शितम् तदसत् शम-दमादीनामिव प्रतिक्रमणादिक्रियाया उत्तरदशायां योगिनो लक्षणत्वेन विषकुम्भत्वाऽयोगात्, प्रत्युत स्थिराऽमृतकुम्भत्वस्यैव सिद्धेः । न चाऽव्यभिचारिलक्षणत्वाऽभावान्नैवं स्वकालेऽव्यभिचारित्वात् पर्यन्ते तु शुद्धधर्मसन्यासोत्पत्तौ क्षायोपशमिकानां शम-दमादीनामपि नाशोपगमात् । तस्मात् पूर्वोत्तरभूमिकयोर्वचनाऽसङ्गाऽनुष्ठानतयैव क्रियाभेदो यथाऽस्मत्साम्प्रदायिकैर्लक्षितस्तथा श्रेयान् न तु परोक्ताऽमृत-विषकुम्भदृष्टान्तेन ।
ननु पूर्वमिव सदृष्टिद्वात्रिंशिकायां (द्वाद्वा.२४/२८-२९, भाग-६, पृ.१६८९-१६९२ ) परायां दृष्टौ भुक्तभोजनाऽभावन्यायेनाऽऽचाराऽभावाऽभिधानाद् विरोधः प्रसज्येत इति चेत् ? मैवम्, परायां दृष्टौ समाधिकाले आरूढाऽऽरोहणाऽभावन्यायेन क्रियाया अनुपयोगाऽभिधानं तु शमादेरिवाऽभिनवग्रहणाऽपेक्षया, न तु
Jain Education International
=
આ અનારંભ અંશની અપેક્ષાએ વ્યવહા૨વર્તી મહાત્માઓ સ્વભાવમાં રહેલા છે - આવું સિદ્ધ થાય છે. કારણ કે અનારંભદશા ચારિત્રગુણનો સ્વભાવ છે. જ્ઞાનાદિનો પ્રકર્ષ ન હોવા છતાં પણ અગીતાર્થ મહાત્મામાં જ્ઞાનીની પરતંત્રતા સ્વરૂપ યોગ્યતા હોવાના કારણે જ્ઞાનાદિનો પ્રકર્ષ સંગત થઈ શકે છે. માટે આત્મજ્ઞાની ગીતાર્થ મહાત્મામાં રહેલો શુદ્ધોપયોગ = સ્વભાવસમવસ્થાન તેને સમર્પિત અગીતાર્થમાં સ્વાશ્રયપારતન્ત્યસંબંધથી રહી જશે. તથા પોતાની શક્તિ ન છૂપાવવા સ્વરૂપ અપ્રમાદના કારણે ગીતાર્થસમર્પિત અગીતાર્થ પણ વિશુદ્ધ જ છે. (૨૮/૨૯)
१. मुद्रितप्रतौ ' प्रकर्षोऽपि ...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org