________________
१९४६
• शुभयोगापेक्षया प्रमत्तसंयतस्याऽनारम्भिता • द्वात्रिंशिका-२८/२९ शुभं योगं प्रतीत्याऽस्याम'नारम्भित्वमागमे । व्यवस्थितमितश्चांऽशात् स्वभावसमवस्थितिः।।२९।।
शुभमिति । शुभं योगं प्रतीत्याऽस्यां सद्दीक्षायां आगमे प्रज्ञप्त्यादिरूपे अनारम्भित्वं व्यवस्थितं, "तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च णो आयारंभा" (भग.१/१/१७) इत्यादिवचनात् । य जथा पढमो छट्ठो जथा सजोगिकेवलीणं । सत्तमो जथा पढमो । - (आ.नि.चू.२ पृ.८१,८२) इत्येवं ध्यानस्य सप्त विकल्पा दर्शिताः । अधिकं तु युक्त्यादिकं अध्यात्ममतपरीक्षावृत्तितः समवसेयम् (अ.म.प.गा. ७/८/९) ।।२८/२८।।
शुभयोगप्रवृत्तानां प्रमत्तसंयतानामपि शुद्धोपयोगमागमेन समर्थयति- 'शुभमिति । शुभं = उपयुक्ततया प्रतिलेखन-प्रमार्जन-कायोत्सर्ग-भिक्षाऽटनादिलक्षणं योगं = कायादिव्यापारं प्रतीत्य सद्दीक्षायां प्रज्ञप्त्यादिरूपे आगमे अनारम्भित्वं व्यवस्थितम् ।
व्याख्याप्रज्ञप्तौ सम्पूर्णोऽधिकृतार्थोपयोगी पाठ एवम् → तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च नो आयारंभा, नो परारंभा, नो तदुभयारंभा, अणारंभा । असुभं जोगं पडुच्च आयारंभा वि, परारंभा वि, तदुभयारंभा वि, नो अणारंभा - (व्या.प्र.१/१/१७) इति । श्रीअभयदेवसूरीयवृत्ती तदर्थलेशस्त्वेवम् → प्रमत्तसंयतस्य शुभोऽशुभश्च योगः स्यात्, संयतत्वात्, प्रमादपरत्वाच्च । इत्यत आह- ‘सुहं जोगं पडुच्च'त्ति । शुभयोगः = उपयुक्ततया प्रत्युपेक्षणादिकरणम् । अशुभयोगस्तु तदेवाऽनुपयुक्ततया करणम् । शुभाशुभयोगौ आत्माऽनारम्भाद्यात्मारम्भादिकारणम् । हिंसाद्यविरतिनिवृत्तानां कथञ्चिदात्माद्यारम्भकत्वेऽप्यनारम्भकत्वं शुभयोगं प्रतीत्य, 'जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ।।' (ओ.नि.७५९/पिण्डनियुक्ति-६७१) इति ओघनियुक्तिवचनात् - (व्या. प्र. १११७ वृत्ति) इति ।
न च → जो होइ अप्पमत्तो अहिंसओ, हिंसओ इयरी - (ओ.नि. ७५४) इत्येवं ओघनिर्युक्तौ एव प्रमत्तस्य हिंसकत्वं कण्ठत उक्तमिति कथं नाऽनयोर्विरोधः? इति शङ्कनीयम्, तत्राऽप्रमत्तपदेन यतनायुक्तस्योक्तत्वात्, इह तु प्रमत्तस्याऽपि यतनायुक्तत्वे शुभयोगप्रवर्तने प्रशस्तपरिणामसम्भवेनाहिंसकत्वस्य विवक्षितत्वादिति न दोषः । तदुक्तं विशेषावश्यकभाष्ये → असुभो जो परिणामो सा हिंसा - (वि.आ.भा.१७६६) इति। → हिंसादो उ विरमणं, वहपरिणामो य होइ हिंसा उ ।। - (मू.आ. ८०१) इति मूलाराधनावचनमप्यत्र विभावनीयम् ।
હ શુભ યોગને આશ્રયીને અનારંભિતા છે ગાથાર્થ :- ભાવદીક્ષામાં શુભ યોગને આશ્રયીને આગમમાં અનારંભિતા વ્યવસ્થાપિત કરાયેલ છે. તથા આ અંશની અપેક્ષાએ સ્વભાવસમવસ્થાન સંગત છે. (૨૮/૨૯).
ટીકાર્થઃ-શુભ યોગને આશ્રયીને ભાવદીક્ષામાં અનારંભિતાની વ્યવસ્થા ભગવતીસૂત્ર વગેરે આગમમાં કરાયેલી છે. કારણ કે ભગવતીસૂત્રમાં લખેલ છે કે – “જે તે પ્રમત્તસંયત છે તે શુભ યોગને આશ્રયીને मात्मारंभी, ५२।२ली, भयमानी नथी. भाटे अनारंभी = मउिंस छ.' 6
१. हस्तादर्श '...मनरं' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org