________________
शुभोपयोगस्य संवरोपकारिता •
द्वात्रिंशिका - २८/२६
तदुपकारकत्वस्य चोभयत्राऽविशेषात्, तत्सन्निहितोपकारकत्वस्य च शुद्धोपयोगमात्राऽविश्रान्तत्वात् । 'आपेक्षिकस्य च तस्य शुभोपयोगेऽप्यबाधाद्,
१९४०
•
एसा पसत्थभूता समणाणं वा पुणो घरत्थाणं । चरिया परेत्ति भणिदा तया एव परं लहदि सोक्खं ।। छदुमत्थविहिदवत्थुसु वय-नियम-ज्झयण झाण-दाणरदो । ण लहदि अपुणब्भावं भावं सादप्पगं लहदि । । ← (प्र. सार. ३/४५-४९, ५३, ५४,५६ ) इति । सादप्पगं = सातात्मकं, शिष्टं स्पष्टम् । एकान्तेन एवं विभागकरणमनेकान्तवादिनामयुक्तम्, श्रमणानां गमनागमनादिप्रवृत्तेरपि रत्नत्रययोग-क्षेमशुद्धि-वृद्ध्याद्युद्देशत एव सम्भवात्, तथैव विधानात् । तदुक्तं निशीथभाष्ये णाणट्ठ- दंसणट्ठा चरित्तट्ठा एवमादि गंतव्वं ← (नि.भा. १९६९) इति प्रकृतग्रन्थकृदाशयः । न च शुद्धोपयोगस्य सर्वसंवरोपकारकत्वात्तदुपादानं शैलेशीप्राक्कालीनस्याऽपि युक्तमिति वाच्यम्, तदुपकारकत्वस्य च = सर्वसंवरसहकारित्वस्य उभयत्र शुभ-शुद्धोपयोगयोः अविशेषात्, शुभोपयोगस्य पुण्यबन्धनिमित्तत्वेऽपि प्रागुक्त ( द्वा. द्वा. १/१७ भाग-१ पृ.३८) निशीथभाष्यचूर्णि (३३३४) दर्शितधान्यपल्यदृष्टान्तेन सर्वसंवरोपकारकत्वोपपत्तेः ।
न च चारित्रकालीनस्य शुभोपयोगस्याऽतिव्यवहितत्वेन न तदुपकारकत्वमिति वाच्यम्, तत्सन्निहितोपकारकत्वस्य च = सर्वसंवराऽऽसन्नोपकारित्वस्य हि शुद्धोपयोगमात्राऽविश्रान्तत्वात् = शुद्धोपयोगत्वावच्छिन्नाऽव्याप्तत्वात् । सर्वसंवरव्यवहितेष्वपि सप्तमादिगुणस्थानकेषु शुद्धोपयोगस्य सत्त्वात्, पीठ-फलकवसतिप्रभृतिप्रत्यर्पण-समवसरणदेशना-केवलिसमुद्घाताऽऽयोज्यकरण-योगनिरोधादौ शुभसंयमव्यापारेऽपि शैलेशीचरमसमयसन्निहितत्वस्योपलब्धेश्च । ततश्च भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायापातः ।
एतेन शुद्धोपयोगे आपेक्षिकस्य सर्वसंवरसन्निहितोपकारकत्वस्य सत्त्वात्प्रधाना मोक्षहेतुतेत्यपि कल्पना निरस्ता, आपेक्षिकस्य च = अपेक्षाविशेषसहकृतस्य तस्य सर्वसंवरसन्निहितत्वस्य सर्वसंवरसन्निहितोपकारकत्वस्य वा शुभोपयोगेऽपि अबाधात्, अप्रमत्तयतीनामन्तर्मुहूर्त्ताऽनन्तरं षष्ठगुणस्थानाऽवाप्तौ प्रवर्तमाने
=
तदु । भेहिगंजर विद्वानो खेम उहे } 'शैलेशीनी पूर्वे ने शुद्ध उपयोग छे ते शैलेशीना यरभ સમય પ્રત્યે ઉપકારી હોવાથી મોક્ષકારણ કહી શકાશે' તો આ દલીલ તો શુદ્ધ ઉપયોગની જેમ શુભ ઉપયોગમાં પણ સમાન રીતે લાગુ પડશે. કારણ કે શુભ ઉપયોગ પણ શુદ્ધ ઉપયોગની જેમ શૈલેશીના ચરમ સમય પ્રત્યે ઉપકારક તો છે જ. તેથી શુદ્ઘ ઉપયોગ અને શુભ ઉપયોગ-બન્નેને મોક્ષ પ્રત્યે સમાન રીતે મુખ્ય હેતુ માનવા જોઈએ.
तत्स. । 'शैलेशी २एशना यरभ समय प्रत्ये नकउनो उपहार शुद्ध उपयोग होवाथी तेमां मोक्षनी મુખ્ય કારણતા મનાય. પણ શુભ ઉપયોગ તેનાથી દૂર હોવાથી તેને મોક્ષનું પ્રધાન કારણ માની ન शाय. ' આ પ્રમાણે જો દિગંબર વિદ્વાન શ્વેતાંબરો સામે દલીલ કરે તો તે પણ વ્યાજબી નથી. કારણ કે શૈલેશીના ચરમ સમય પ્રત્યે નજીકથી ઉપકારીપણું કેવળ શુદ્ધ ઉપયોગમાં જ વિશ્રાન્ત નથી થતું. પણ કેવલી સમુદ્ધાત, આયોજ્યકરણ, યોગનિરોધ વગેરે શુભ ક્રિયાઓમાં પણ રહેલું જ છે. માટે માત્ર ‘શુદ્ધ ઉપયોગ જ મોક્ષનું કારણ છે.’ એવું કહી શકાતું નથી. તથા આપેક્ષિકપણે સર્વસંવરની
१. मुद्रितप्रतौ ' आक्षेपिक...' इत्यशुद्धः पाठः । २ हस्तादर्शे मुद्रितप्रतिषु च ' शुद्धोप...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org