________________
• शुद्ध-शुभोपयोगयोः तुल्यफलजनकता
१९३९ फले न 'तुल्यकक्षत्वं शुभ-शुद्धोपयोगयोः । येषामन्त्यक्षणे तेषां शैलेश्यामेव विश्रमः ।।२६।।
फल इति । येषां वादिनां फले मोक्षलक्षणे शुभ-शुद्धोपयोगयोर्न तुल्यकक्षत्वं साधारण्येन प्रधानहेतुत्वं तेषां शैलेश्यामन्त्यक्षण एव विश्रमः स्यात्, तदैव सर्वसंवरोपपत्तेः । __ प्रकृते दिगम्बरमतापाकरणार्थं यतते- 'फल' इति । येषां वादिनां दिगम्बराणां शुभ-शुद्धोपयोगयोः मोक्षलक्षणे फले = मोक्षं प्रति साधारण्येन = उभयाऽनुगतत्वेन रूपेण प्रधानहेतुत्वं = मुख्यकारणत्वं न तेषां दिगम्बराणां तु शैलेश्यां चतुर्दशगुणस्थानके अन्त्यक्षणे एव विश्रमः = मोक्षकारणताऽभ्युपगमविश्रान्तिः स्यात्, तदैव = शैलेश्यामेव सर्वसंवरोपपत्तेः = कृत्स्नाऽऽश्रवनिरोधसङ्गतेः तदनन्तरमेव मोक्षोदयात् । तदुक्तं धर्मसङ्ग्रहण्यां श्रीहरिभद्रसूरिभिः → सो उभयक्खयहेऊ सेलेसीचरमसमयभावी जो । सेसो पुण णिच्छयओ तस्सेव पसाहगो भणिओ ।। - (ध.संग्र.२६) इति । स = धर्मः धर्माधर्मोभयक्षयहेतुः इति, शिष्टं स्पष्टम् ।
अयमत्राशयः- दिगम्बराः पादप्रसारिकान्यायेन वदन्ति यदुत- परमोपेक्षासंयमं प्रतिपत्तुकामोऽपि तथाविधसामग्रीवैकल्यात्तं प्रतिपत्तुमक्षमः तद्बहिरङ्गसाधनमात्रमापवादिकमुपध्यादिकमातिष्ठते । परं वस्तुधर्मस्तूत्सर्ग एव, न पुनरपवाद इति शुद्धोपयोगान्वितानामनाश्रवत्वेन मोक्षगामित्वं, अर्हद्भक्ति-प्रवचनवात्सल्य-श्रमणप्रतिपत्ति-शिष्ययोगक्षेम-जिनपूजोपदेशादिप्रवृत्तानां शुभोपयोगशालिनां तु श्रमणानां सास्त्रवत्वेन केवलं सातवेदनीयबन्ध-तन्निमित्तकसौख्यभागित्वमेव न मोक्षगामित्वमिति। तदुक्तं प्रवचनसारे → समणा सुद्धवजुत्ता सुहोवजुत्ता य होंति समयंमि । तेसु वि सुद्धवउत्ता अणासवा, सासवा सेसा ।। अरहंतादिसु भत्ती वच्छलदा पवयणाभिजुत्तेसु । विज्जदि जदि सामण्णे सा सुहजुत्ता भवे चरिया।। वंदण-णमंसणेहिं अब्भुट्ठाणाऽणुगमणपडिवत्ती । समणेसु समावणओ ण जिंदिया रायचरियम्मि ।। दंसण-णाणुवदेसो सिस्सग्गहणं च पोसणं तेसिं । चरिया हि सरागाणं जिणिंदपूजोवदेसो य ।। उवकुणदि जो वि णिच्चं चादुव्वण्णस्स समणसंघस्स । कायविराधणरहिदं सो वि सरागप्पधाणो से।। वेज्जावच्चणिमित्तं गिलाण-गुरु-बाल-वुड्ढसमणाणं । लोगिगजणसंभासा ण जिंदिदा वा सुहोवजुदा ।। ઉચ્છેદ થયો નથી. માટે શુભ ઉપયોગનો અનુભવ કરતા ભિક્ષાટનાદિ કરનારા મહામુનિઓ પણ શુદ્ધ ઉપયોગસ્વરૂપ भावहीमान ३५ = भनि अवश्य भेणवे ४ छ - मेम सिद्ध थाय छे. (२८/२५)
ગાથાર્થ - શુદ્ધ ઉપયોગ અને શુભ ઉપયોગ ફલની અપેક્ષાએ જેમના મતે સમાન કક્ષાવાળા नथी तभी तो शैलेशीमा ४ विश्राम ४२वो ५शे. (२८/२६)
ટીકાર્થ :- મોક્ષસ્વરૂપ ફળ પ્રત્યે જે વાદીઓના મતે શુદ્ધ ઉપયોગ અને શુભ ઉપયોગ સમાન રીતે મુખ્ય હેતુ નથી તેઓએ તો મોક્ષની મુખ્ય કારણતાને શૈલેશીમાં છેલ્લા સમયે જ વિશ્રાન્ત થયેલી માનવી પડશે. કારણ કે ૧૪ માં ગુણસ્થાનકના ચરમસમયે જ સર્વ સંવર શાસ્ત્રસંગત થાય છે. (અર્થાત તેઓએ છેલ્લા ગુણસ્થાનકના છેલ્લે સમયને જ મોક્ષનું કારણ માનવું પડશે. તે પૂર્વેની બધી જ ક્ષણો તથા બધી જ સાધના અને પરિણામો મોક્ષ પ્રત્યે અન્યથાસિદ્ધ = અકારણ સાબિત થશે.) १. हस्तादर्श 'कक्षतुल्यत्वं' इति पदव्यत्यासः । २. हस्तादर्श 'सर्वसंचरो...' इत्यशुद्धः पाठः । ३. श्रमापनय इत्यर्थः । ४. शुभोपयुता इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org