SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ • व्यवहारेऽपि शुद्धदीक्षाऽनुच्छेदः • १९३७ दीक्षा शुद्धोपयोगरूपा व्यवतिष्ठते, कषायलेशस्याप्यशुद्धताऽऽपादकस्याऽभावात् । व्यवहारेऽपि = आहार-विहारादिक्रियाकालेऽपि नैवाऽस्याः शुद्धोपयोगरूपाया दीक्षाया वासनात्मना व्युच्छेदः। __ प्रकृतफलितमाह- 'शुद्धे'ति । शुद्धोपयोगरूपा = रागाद्यनुपहितकेवलनिर्विकल्पाऽसङ्गसाक्षिरूपाऽनावृतचैतन्योपलम्भात्मिका दीक्षा व्यवतिष्ठते, छद्मस्थदशायां सज्वलनकषायोदयस्य सत्त्वेऽपि तादात्म्याऽध्यासानुविद्धस्य स्वामित्वभावपरिपुष्टस्य वा कषायलेशस्य अपि अशुद्धताऽऽपादकस्य = प्रकटाऽसङ्गाऽऽत्मस्वभावाऽशुद्ध्युपधायकस्य शुद्धोपयोगरूपदीक्षायां अभावात् = विरहात्, स्वाऽनुभूतिरसोत्कर्षात् तत्रोदासीनभावात् । तदुक्तं सरस्वतीरहस्योपनिषदि → स्वानुभूतिरसावेशाद् दृश्य-शब्दोपेक्षितुः । निर्विकल्पसमाधिः स्यात् निर्वातस्थितदीपवत् ।। (स.रह.४२) इति । ___यद्यपि → शुद्धैव ज्ञानधारा स्यात् सम्यक्त्वप्राप्त्यनन्तरम् + (अ.सा.१८/१५०) इति अध्यात्मसारवचनात् चतुर्थगुणस्थानकवर्तिनोऽप्युपयोगधारायाः शुद्धत्वमेव तथापि सावद्ययोगधारया सङ्क्लिष्टवेदनधारया च मृदु-मध्यादिभाववैचित्र्यप्रयुक्तस्खलितत्वमपि सम्भवत्येव । अनवरतप्रवृत्ताऽस्खलिताऽसङ्गसाक्षिमात्रशुद्धचैतन्याऽनुभूतिस्तु परममुनीनामेव सम्भवति, अकलङ्कितयोगोपयोगयोमिथोऽनुकूलत्वात् । एतेन भिक्षाटनाऽऽवश्यकादिप्रवृत्तिकाले कथं शुद्धोपयोगरूपाया दीक्षायाः सम्भवः ? इति निरस्तम्, यत आहार-विहारादिक्रियाकालेऽपि = व्युत्थानाऽवसरेऽपि शुद्धाज्ञायोगेन प्रमादपरित्यागात् → क्षीणे रागादिसन्ताने प्रसन्ने चान्तरात्मनि । यः स्वरूपोपलम्भः स्यात् स शुद्धाख्यः प्रकीर्तितः ।। (ज्ञाना. १३/३१) इति ज्ञानार्णवदर्शितायाः यद्वा → मोहक्षोभविहीनो ह्यात्मनः परिणामः शुद्धः, पराऽनुपनीतत्वात् । स एव हि चारित्रशब्दवाच्यः - (मध्यम स्या.रह.भाग-३/पृ.१९६) इति स्याद्वादरहस्यप्रदर्शितायाः शुद्धोपयोगरूपायाः = चिन्मात्रानुभूत्यात्मिकायाः समतृण-मणि-लेष्ठु-काञ्चनत्वपरिणतिरूपायाः दीक्षायाः नैव वासनात्मना = संस्काररूपेण उच्छेदः = नाशः सम्भवति, भावदीक्षितस्य बहिरुदासीनत्वेऽपि केवलं जिनाज्ञयैव प्रवृत्तत्वात् । तदुक्तं पञ्चवस्तुके → जइणो अदूसिअस्सा हेआओ सव्वहा णिअत्तस्स । सुद्धो अ उवादेए अकलंको सव्वहा सो उ ।। (पं.व.११५३) इति । अत एव पूर्वोक्तं(पृ.१४०७) → जो सुत्तो ववहारे, सो जोई जग्गए सकज्जम्मि। जो जग्गदि ववहारे, सो सुत्तो अप्पणो कज्जे ।। (मो.प्रा.३१) इति मोक्षप्राभृतवचनं यद्येकान्तनयतोऽङ्गीक्रियते तदा नैव चारु, स्वात्मकार्येऽतिजागरूकेण तीर्थकृताऽपि छद्मस्थदशायां भिक्षाटनभोजनादिव्यवहारस्य त्वन्मतेऽपि कृतत्वात् । ___ एतेन शैक्षक-ग्लानाद्यर्थं प्रवृत्तौ कथं शुद्धोपयोगसम्भव इति प्रतिक्षिप्तम्, जिनाज्ञया तथाप्रवृत्तावपि निजाऽसङ्गसाक्षिभावमात्रावलम्बनाच्च । तदुक्तं पञ्चवस्तुके → जह उस्सग्गंमि ठिओ खित्तो उदगम्मि केण वि तवस्सी। तव्वहपवित्तकाओ अचलिअभावोऽपवत्तो अ।। एवं चिय मज्झत्थो आणाई कत्थई पयट्टतो । सेहगिलाणादिऽट्ठा अपवत्तो चेव नायव्यो ।। કેવલ સચ્ચિદાનંદમય છે. આવા શુદ્ધ આત્મસ્વભાવનું આચરણ કરવા સ્વરૂપ ભાવદીક્ષા શુદ્ધ ઉપયોગસ્વરૂપ સિદ્ધ થાય છે. કારણ કે અશુદ્ધતા લાવનાર આંશિક પણ કષાય ભાવચારિત્રમાં હોતો નથી. તેથી જ આહાર, વિહાર વગેરે વ્યવહાર પ્રવૃત્તિના સમયે પણ શુદ્ધ ઉપયોગસ્વરૂપ દીક્ષાનો સંસ્કાર-રૂપે ઉચ્છેદ થતો નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy