________________
• शुद्धोपयोगरूपा दीक्षा • द्वात्रिंशिका-२८/२५ शुद्धोपयोगरूपेयमित्थं च व्यवतिष्ठते । व्यवहारेऽपि नैवाऽस्या व्युच्छेदो वासनात्मना ।।२५।।
शुद्धेति । इत्थं च ममत्वाऽरत्यानन्दाद्यनाक्रान्तसच्चिदानन्दमयशुद्धात्मस्वभावाऽऽचरणरूपत्वे इयं तस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाऽऽह- 'सव्वमि'त्यादि, सर्वं हास्यं तदास्पदं वा परित्यज्य आङ् = मर्यादयेन्द्रियनिरोधादिकया लीनः = आलीनो गुप्तो मनोवाक्कायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्च = आलीनगुप्तः स एवम्भूतः परिः = समन्ताद् व्रजेत् = संयमानुष्ठानविधायी भवेद् ( (आ.वृ. १/३/३/११७) इति ।
बौद्धानां धम्मपदे ग्रन्थे → हित्वा रतिञ्च अरतिञ्च सीतिभूतं निरुपधिं । सब्बलोकाभिभुं वीरं तमहं ब्रूमि ब्राह्मणं ।। 6 (ध.प.ब्राह्मणवर्ग-३६) इति यदुक्तं तदप्यत्रानुसन्धेयं यथागमं सर्वदर्शनमर्मवेदिभिः मध्यस्थैः । सूत्रकृताङ्गसूत्रे अपि → अरतिं रतिं च अभिभूय भिक्खू, तणाइफासं तह सीतफासं। उण्डं च दंसं च हियासएज्जा, सुब्भिं च दुब्भिं च तितिक्खएज्जा ।। 6 (सू.कृ.१।१०।१४) इत्युक्तम् ।
रत्यरतिनिराकरणत उपसर्गादिषु सत्स्वपि तेषामात्माऽऽनन्दाऽनुभव एवाऽवशिष्यते । इदमेवाऽभिप्रेत्य प्रवचनसारे → जो णिहदमोहगंठी राग-पदोसे खवीय सामण्णे । होज्जं समसुहदुक्खो सो सोक्खं अक्खयं लहदि ।। - (प्र.सा. २/१०३) इत्युक्तम् । अत एव तत्राऽभिनवसदसत्क्रियाविकल्पादिकमपि न सम्भवति । तदुक्तं अध्यात्मसारे → अवकाशो निषिद्धोऽस्मिन्नरत्यानन्दयोरपि । ध्यानाऽवष्टम्भतः क्वाऽस्तु तत्त्रियाणां विकल्पनम् ।। - (अ.सा. १५/१०) इति ।
एतेन परिषहोपसर्गाद्यवसरे तु दीक्षितानां दुःखाऽनुभवोऽनाविल एवेत्यपि निरस्तम्, आत्मन्येवोपयोगस्थैर्ये परिषहादेरेवाऽविज्ञानात् । इत्थमेव निर्जरा निजानन्दाऽनुभूतिश्चोत्कृष्यते । तदुक्तं इष्टोपदेशे → परिषहाद्यविज्ञानादास्रवस्य निरोधिनी । जायतेऽध्यात्मयोगेन कर्मणामाशु निर्जरा ।। 6 (इष्टो.१४) इति । समरादित्यकथादिग्रन्थावलोकनादिदं दृढतरमवधेयम् । प्रकृते च → निर्जितमद-मदनानां मनो-वाक्-कायविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ।। - (प्र.र.२३८) इति प्रशमरतिवचनमपि स्मर्तव्यम् । तदुक्तं भक्तपरिज्ञाप्रकीर्णके अपि → सव्वगंथविमुक्को सीईभूओ पसंतचित्तो अ । जं पावइ मुत्तिसुहं न चक्कवट्टी वि तं लहइ ।। - (भ.प.प्र,१३४) इति ।।२८/२४ ।।
વિશેષાર્થ :- આચારાંગસૂત્રના પ્રથમ શ્રુતસ્કંધના ૩ જા અધ્યયનના ત્રીજા ઉદેશામાં ભાવસાધુનું જે સ્વરૂપ બતાવેલ છે તેનું અહીં અવતરણ ગ્રંથકારશ્રીએ કરેલ છે. અંધકાર = અરતિ. તારાની કાંતિ = मानंह-ति. सूर्य = भावीक्षा. A = साधु. शुलध्यान अथवा धर्मध्यानमा माक्साधुनी अंतरंग ચિત્તવૃત્તિ લીન હોવાથી અરતિ-રતિને અવકાશ રહેતો નથી - આવો આ શ્લોકનો સંક્ષિપ્ત ભાવાર્થ मायासंग सूत्र भु४५ ४९॥य छे. (२८/२४)
જ વ્યવહારદશામાં પણ ચારિત્ર અબાધિત હ ગાથાર્થ :- આ રીતે આ દીક્ષા શુદ્ધ ઉપયોગસ્વરૂપ સિદ્ધ થાય છે. વ્યવહાર સમયે પણ સંસ્કારરૂપે दीक्षानो छे६ यतो नथी. (२८/२५)
ટીકાર્થ - મમતા, અરતિ કે આનંદથી શુદ્ધ આત્મસ્વરૂપ ઘેરાતું નથી. શુદ્ધ આત્માનો સ્વભાવ તો
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org