________________
• निन्दा-प्रशंसा-मानापमानादिषु निर्ग्रन्थस्य समता • ३२०) इति। → समः शत्रौ च मित्रे च स वै मुक्तः महीपते ! - (म.भा.शांति१८/३१) इति महाभारतवचनं, → समः स्यात् सर्वभूतेषु - (ना.सं.१/३४) इति नारदसंहितावचनं, → समलोष्टाश्मकाञ्चनः - (नार.परि.३/३४, म.भा.वनपर्व २६१/४६) इति च नारदपरिव्राजकोपनिषद्-महाभारतयोर्वचनमप्यत्र न विस्मर्तव्यम् । सारसमुच्चये अपि → समतां सर्वभूतेषु यः करोति सुमानसः। ममत्वभावनिर्मुक्तो यात्यसौ पदमव्ययम् ।। - (सा.स.२१४) इत्येवं मुनिस्वरूपमुपदर्शितम् । वैराग्यकल्पलतायामपि → लाभेऽप्यलाभेऽपि सुखे दुःखे च चये जीवितव्ये मरणे च तुल्याः। रत्याऽप्यरत्याप्यनिरस्तभावाः समाधिसिद्धा मुनयः त एव ।। - (वै.क.ल.१।१४४) इत्येवं मुनिस्वरूपमदर्शि । धवलायां अपि → सत्तु-मित्त-मणि-पाहाण-सुवण्ण-मट्टियासु राग-देसाऽभावो समणाणं 6 (ष.खं.ध.८/३-४१/१) इत्येवं श्रमणस्वरूपमावेदितम् ।
बोधप्राभृते अपि → सत्तू-मित्ते य समा पसंस-णिद्दाऽलद्धि-लद्धिसमा । तण-कणए समभावा पव्वज्जा एरिसा भणिया ।। (बो.प्रा.४७) इत्युक्तम् । यथोक्तं उत्तराध्ययनसूत्रे अपि → समया सव्वभूएसु सत्तुमित्तेसु वा जगे 6 (उत्त.१९/२६) इति, तथा → निम्ममो निरहंकारो निस्संगो चत्तगारवो । समो य सव्वभूएसु तसेसु थावरेसु य ।। लाभालाभे सुहे दुक्खे जीविए मरणे तहा । समो निंदा-पसंसासु समो माणावमाणाओ ।। अणिस्सिओ इहलोए, परलोए अणिस्सिओ । वासीचन्दणकप्पो अ असणे अणसणे तहा ।।
6 (उत्त.१९/८९-९०-९२) इति च । प्रवचनसारे अपि → समणो समसुह-दुक्खो - (प्र.सा. १/२४) इत्युक्तम् । तदुक्तं दशवैकालिकसूत्रे अपि → समसुह-दुक्खसहे य जे स भिक्खू - (द.वै. १०/११) इति । तदुक्तं सोमदेवसूरिभिरपि नीतिवाक्यामृते → सर्वसत्त्वेषु हि समता सर्वाऽऽचरणानां परमाचरणम् + (नी.वा.१/४) इति । प्रकृते → भवे मुक्तौ समा भक्ताः पराभक्तिसमन्विताः 6 (म.गी.२/१०५) इति महावीरगीतावचनमप्यत्र भक्तिनयेनाऽनुयोज्यम् । → आया खलु सामाइयं 6 (आ.नि.७९०) इति आवश्यकनियुक्तिवचनं → आया णे अज्जो ! सामाइए, आया णे अज्जो ! सामाइयस्स अट्ठे - (भ.सू.१/९/२४) इति च भगवतीसूत्रवचनमपि केवलस्याऽऽत्मनः सामायिकत्वं रागादिशून्यत्वमुप-दर्शयति । अन्यत्रापि → यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्तितः ।। ( ) इत्युक्तम् । एतेन → मूर्तिः सर्वभूतानि चात्मनः - (भा.४।७।३०) इति भागवतवचनमपि व्याख्यातम्, सर्वेष्वात्मसु स्वात्मतुल्यताभावनायां सत्यामेव तात्त्विकमुनिभावोपपत्तेः । प्रकृते → यस्य नाऽहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । यः समः सर्वभूतेषु जीवितं तस्य शोभते ।। - (बृ.सं.२/३२) इति बृहत्संन्यासोपनिषद्वचनमपि यथागममनुयोज्यम् ।
प्रकृते च → 'सर्वे जीवाः केवलज्ञानमया' इति भावनारूपेण समतालक्षणं सामायिकम् (१), अथवा परमस्वास्थ्यबलेन युगपत्समस्तशुभाऽशुभसङ्कल्प-विकल्पत्यागरूपसमाधिलक्षणं वा (२), निर्विकारस्वसंवित्तिबलेन राग-द्वेषपरिहाररूपं वा (३), स्वशुद्धात्माऽनुभूतिबलेनाऽऽर्त-रौद्रपरित्यागरूपं वा (४), समस्तसुख-दुःखादिमध्यस्थरूपं च (५) (बृ.द्र.सं.३५ वृत्ति) इति बृहद्रव्यसङ्ग्रहवृत्तौ ब्रह्मदेववचनमप्यत्राऽनुसन्धेयम् । तदुक्तं निशीथभाष्ये अपि → समत त्ति होति चरणं समभावम्मि य हितस्स धम्मो उ - (नि.भा.६१९३) इति । इत्थमेवाऽस्य शुद्धात्मदर्शनयोग्यताया योग-क्षेम-शुद्धि-वृद्ध्यादिकमुपपद्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org