________________
१९३४
• दीक्षितस्याऽऽत्मवत् सर्वभूतेषु वर्तनम् • द्वात्रिंशिका-२८/२३ अत्र चाऽर्थे → आत्मवत् सर्वभूतानि यः पश्यति स पश्यति - (आ.स्मृ.१०/११) इति आपस्तम्ब स्मृतिवचनं, → शत्रौ मित्रे समा बुद्धिरिष्टानिष्टेषु कर्मसु । भावितात्मा सदाकाङ्क्षी, ब्रह्मदर्शनभाग् भवेत् ।। - (आ.द.गी.४३) इति च आत्मदर्शनगीतावचनमपि सङ्गच्छते। एतेन → दरिद्र-धनिनोः पुण्य-पापयोश्शत्रु-मित्रयोः । शीतोष्णयोस्समो योऽस्ति स स्वसिद्धो नरोत्तमः ।। - (रा.गी.१६/२७) इति रामगीतावचनमपि व्याख्यातम् ।
___ इत्थञ्च समो हि प्रतिक्षणमपूर्ज्ञान-दर्शनपर्यायैर्निरुपमसुखहेतुभिरधः कृतचिन्तामणि-कल्पद्रुमोपमैयुज्यते (आ.नि.भाग-४/पृ. ८३१) इति हारिभद्रीयावश्यकवृत्तिवचनमप्यत्र स्मर्तव्यम् । तदुक्तं प्रवचनसारेऽपि → समसत्तुबंधुवग्गो समसुहदुक्खो पसंस-णिंदसमो । समलोट्टकंचणो पुण जीविय-मरणे समो समणो ।।
(प्र.सा.३/४१) इति । आथर्वणीयायां आश्रमोपनिषदि अपि परमहंससंन्यासिनिरूपणावसरे → सर्वंसहाः सर्वसमाः समलोष्टाश्मकाञ्चनाः - (आश्र.४) इत्यादि यदुक्तं तदप्यत्राऽनुयोज्यं यथागमम् । → समचरिया समणो ति वुच्चति - (ध.प.२६/६) इति धम्म-पदवचनमप्यत्राऽनुस्मर्तव्यम् ।
सर्वत्र समतां प्रति निष्पिपासतायाः प्रयोजकत्वमवसेयम् । → नाम्नेयं निष्पिपासता, लाभालाभे सुखे दुःखे समभावं तनोत्यसौ ८ (वै.क.ल.५/१३७४-७५) इति वैराग्यकल्पलतावचनप्रामाण्यात् । इदञ्च व्यवहारनयतोऽवसेयम् ।
निश्चयनयतस्तु आत्मनैवाऽऽत्माऽवबोधादस्य सर्वत्र समत्वमवगन्तव्यम्, → विआणिआ अप्पगमप्पएणं जो रागदोसेहिं समो स पुज्जो -- (द.वै.९।३।११) इति दशवैकालिकसूत्रोक्तिप्रामाण्यात् । ममत्वपरित्यागेनैवाऽस्य समस्य परिदृष्टमोक्षमार्गत्वमवसेयम् । तदुक्तं आचाराङ्गसूत्रे → से हु दिढे पहे मुणी जस्स णत्थि ममाइयं (आचा.१२।६) इति । तदुक्तं वाल्मीकिरामायणे अपि → धन्याः खलु महात्मानो मुनयः सत्यसम्मताः। जितात्मानो महाभागा येषां न स्तः प्रियाऽप्रिये ।। - (वा.रा.२६।४०) इति ।
___ अत एव तस्याऽभिनवकर्मबन्धो न सम्भवति । तदुक्तं दशवकालिके → सव्वभूयऽप्पभूयस्स सम्मं भूयाइं पासओ । पिहिआसवस्स दंतस्स पावं कम्मं न बंधई ।। - (द.वै. ४।३२) इति । यथोक्तं पञ्चास्तिकाये अपि → ण सवदि सुहं असुहं समसुहदुक्खस्स भिक्खुस्स - (पं.का. १४२) इति । नयविशेषाऽभिप्रायेण स मुक्त एव । तदुक्तं बृहत्कल्पभाष्ये → सव्वारंभपरिग्गहणिक्खेवो सव्वभूतसमया य । एक्कग्गमण-समाही णया अह एत्तियो मोक्खो ।। - (बृ.क.भा. ४५८५) इति भावनीयं गम्भीरधिया ।
भाव्यं च तत्परिणमनपरतया केवलपरमपदाकाङ्क्षिभिः → राग-द्वेषविमुक्तात्मा समलोष्टाश्मकाञ्चनः । प्राणिहिंसानिवृत्तश्च मौनी स्यात् सर्वनिस्स्पृहः ।। - (ना.परि.३/३४, सं.गी.६/१०६) इति नारदपरिव्राजकोपनिषत्-संन्यासगीतावचनं, → राग-द्वेषवियुक्तात्मा समलोष्टाऽश्मकाञ्चनः । प्राणहिंसानिवृत्तश्च मुनिः स्यात् सर्वनिस्पृहः ।। (रा.गी.१५/४१, कू.पु.उपरि.२८/१७) इति रामगीताकूर्मपुराणवचनं, → समो दुःखे सुखे पूर्ण आशा-नैराश्ययोः समः । समजीवित-मृत्युः सन्नेवमेव लयं व्रज ।। (अ.गी.५/४) इति अष्टावक्रगीतावचनं, → सुखे दुःखे तथाऽमर्षे हर्षे भीतौ समो भवेत् + (ग.गी.१/४२) इति गणेशगीतावचनं, → समः शत्रौ च मित्रे च तथा मानाऽपमानयोः । शीतोष्ण-सुख-दुःखेषु समः सङ्गविवर्जितः ।। - (भ.गी.१२/१८) → यः समः सर्वभूतेषु विरागी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org