________________
१९२८
• साध्वाहारोपभोगमीमांसा • द्वात्रिंशिका-२८/२० धुपदर्शितजिनाज्ञया गुर्वाज्ञयैव च, 'गृहि-देहोपकाराय' (अ.प्र.५/३) इति अष्टकप्रकरणोक्तरीत्या → सदा सर्वन्ददः श्रीमान् चारित्र्यपि ददाति यत् । अनुत्तरं महापुण्यं भिक्षादिग्रहणादिना ।। - (ब्र.सि.२२५) इति ब्रह्मसिद्धान्तसमुच्चयोक्तपद्धत्या, → मोत्तूण झाणजोयं मुणओ वि जणस्सऽणुग्गहट्ठाए । पिण्डगहणत्थमन्नं जोयन्तरमो पवज्जन्ति ।। - (स.क.भव ९/पृ.८९६) इति समरादित्यकथोक्त्या च गेहिदेहोभयोपकाराय भिक्षाटनादौ अनभिष्वङ्गतया प्रवृत्तेः = असङ्गप्रतिपत्तितः तस्य = भिक्षाटनादेः मोहाऽजन्यत्वात् = देह-गेह-गेहिगोचरस्नेहाऽप्रयुक्तत्वात् न शरीराद्यनुरागमृते तदसङ्गतिः । → बिलमिव पण्णगभूएणं अप्पाणेणं तमाहारं आहारेइ (अंत.द. ६/१४, अनुत्त.पृष्ठ-५) इति अन्तकृद्दशा
ङ्गाऽनुत्तरोपपातिकदशाङ्गसूत्रोपदर्शितरीत्या रागपरिहाराऽवधानपरायणतया ‘अभ्यवहरेदाहारं पुत्रपलवच्च' (प्रश.१३५) इति प्रशमरतिवचनतात्पर्यपरिणमनान्नाऽशनाद्युपभोगेऽपि साधोः सङ्गसम्भवः । प्रत्युत भिक्षाटनादावपि धर्मध्यानमेव, जिनाज्ञासम्पादनात् । एतेन आशंसादोषाऽऽशङ्काऽपि प्रतिक्षिप्ता, मोक्षोद्देशेन → मेहावी अप्पणो गिद्धिमुद्धरे + (सू.कृ.१ ।८।१५) इति सूत्रकृताङ्गसूत्रोक्तनियोगतात्पर्यपरिणमनतः सर्वत्रैवाऽभिष्वङ्गनिवृत्तेः । तदुक्तं पिण्डनियुक्तौ अपि → निव्वाणं खलु कज्जं नाणाइतिगं च कारणं तस्स । निव्वाणकारणाणं च कारणं होइ आहारो ।। जह कारणं तु तंतू पडस्स तेसिं च होंति पम्हाइं । नाणाइतिगस्से आहारो मोक्खनेमिस्स ।।
6 (पिं.नि. ६७/७०) इति । यथा रसवतीसाधनीभूतमङ्गारकादिकं रक्षन्नपि सूदः नाऽङ्गारकादावध्युपपद्यते न वा तं प्रमादेन विनाशयति किन्तु रसवतीनिष्पादने सम्यक् प्रयुङ्क्ते तथा संयमसाधनीभूतं देहादिकं रक्षन्नपि साधुः न देहादावध्युपपद्यते न वा तं यथाकथञ्चित्प्रमादेन विनाशयति किन्तु तपःसंयमस्फातिकृते जिनाज्ञानुसारेणोपयुङ्क्ते । यथा रसवतीप्रयोजनेनाऽङ्गारकोपयोगेऽपि सूदस्य न तन्ममता प्रसरति किन्तु रसवतीममता तदविनाभाविधनममता वा तथा तपःसंयमपालनोद्देशेन भिक्षाटनादिना देहाधुपयोगेऽपि साधोर्न तन्ममता प्रसरति किन्तु तपःसंयमगोचरा तल्लभ्यमोक्षगोचरा वा ममता विस्तरति । अत एव मोक्ष-तपः-संयमादिप्रयोजनतो विविधाऽभिग्रहपूर्वमसङ्गतया भिक्षाटनादिना देहाधुपष्टम्भेऽपि न कर्मबन्धः सम्पद्यते किन्तु कर्मनिर्जरैवोपयुक्तस्य साधोः । निष्कारणं भिक्षाऽनटनादिना चारित्रसाधनीभूतदेहविनाशे तु प्रत्युत पापकर्मबन्धप्रसङ्गात्, → नवि छुहाए सरिसा वियणा भुंजेज्ज तप्पसमणट्ठा । छाओ वेयावच्चं ण तरइ काउं अओ भुंजे ।। इरिअं नवि सोहेई पेहाईअं च संजमं काउं । थामो वा परिहायइ गुणणुप्पेहासु अ असत्तो ।।
6 (पिं.नि. ६६३/६६४) इति पिण्डनियुक्तिदर्शितजिनाज्ञाविराधनाप्रसङ्गाच्च । केवलं संयमदेहनिर्वाहार्थं सूत्रोक्तरीत्या भिक्षामटतो नैव कोऽपि दोषः, तदुक्तं उत्तराध्ययनसूत्रे → न रसट्ठाए भुंजेज्जा जवणट्ठाए महामुणी + (उत्त.३५/१७) इति । प्रकृते च → अक्खो वंजण-वणाणुलेवणभूयं संजमजा
વિશેષાર્થ :- ભાવસાધુને શરીરાદિનો અનુરાગ ન હોય તો ભિક્ષાટન વગેરે કઈ રીતે સંભવે? આ પ્રશ્નનો જવાબ એ છે કે સાધુ શરીરથી પોતાને ભિન્ન સમજે છે. પોતાના શરીરને શાસનની મૂડી સમજી તેની સાર સંભાળ અનાસક્ત ભાવે કરે છે. સંયમની સાધનામાં શરીર સહાયક પણ છે. પોતાનું
Jain Education International
For Private & Personal Use Only
--- oww.tainelibrary.org