________________
१९२२
• आपीडक - प्रपीडक - निष्पीडकमीमांसा •
=
द्वात्रिंशिका - २८/१५ प्रकर्षेण तदुत्तरं विकृष्टेन तपसा निश्चयेन च 'अन्त्येऽनशनादिरूपेण पीडयेत् ।।१५।। कासन-निर्विकृतिकादिलक्षणेन । अनेन दीक्षितस्य आपीडकत्वमुक्तम् । तदुत्तरं = अभिनवाऽध्ययनादिसमाप्तिकालोत्तरं विकृष्टेन षष्टाऽष्टमादिरूपेण स्वदेहं पीडयेत् । अनेन प्रपीडकत्वमस्यावेदितम् । अन्त्ये वयसि वर्तमाने अनशनादिरूपेण निश्चयेन स्वदेहं पीडयेत् । अनेन च निष्पीडकत्वमाविष्कृतम् । तदुक्तं आचाराङ्गे → आवीलए पवीलए निप्पीलए, जहित्ता पुव्वसंजोगं, हिच्या उपसमं, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए ← ( आचा.१/४/४/१३७) इति । श्रीशीलाङ्काचार्यवृत्तिस्त्वेवम् → आङ् ईषदर्थे, ईषत् पीडयेत् अविप्रकृष्टेन तपसा शरीरकं आपीडयेद् । एतच्च प्रथमप्रव्रज्याऽवसरे । तत ऊर्ध्वं अधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत् प्रपीडयेत् । पुनः अध्यापिताऽन्तेवासिवर्गः सङ्क्रामितार्थसारः शरीरं तित्यक्षुः मासार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेत् = निष्पीडयेत् । स्यात् - कर्म्मक्षयार्थं तपः अनुष्ठीयते, स च पूजालाभख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इति । अतः अन्यथा व्याख्यायते - कम्मैव कार्मणशरीरं वा आपीडयेत् प्रपीडयेत् निष्पीडयेत् । अत्र अपि ईषद् अर्थादिका प्रकर्षगतिरवसेया, यदि वा आपीडयेत् कर्म्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु । ततः अपूर्वकरणाऽनिवृत्तिबादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत् । अथवा आपीडनम् उपशमश्रेण्यां प्रपीडनं क्षपकश्रेण्यां, निष्पीडनं तु शैलेश्यवस्थायाम् इति । किं कृत्वा एतत् कुर्यात् इति आह - “जहित्ता" इत्यादि, पूर्वः संयोगः पूर्वसंयोगः = धन-धान्य-हिरण्य- पुत्र- कलत्रादिकृतस्तं त्यक्त्वा, यदि वा पूर्वः = असंयमः अनादिभवाऽभ्यासात् तेन संयोगः पूर्वसंयोगः तं त्यक्त्वा 'आवीलयेत्' इत्यादिसम्बन्धः । किं च ‘हिच्चा’ इत्यादि, “हि गतौ” इति अस्मात् पूर्वकाले क्त्वा ' हित्वा ' = गत्वा, किं तत् ? उपशमं - इन्द्रिय- नोइन्द्रियजयरूपं संयमं वा ‘गत्वा’ = प्रतिपद्य आपीडयेत् इति वर्तते । इदमुक्तं भवति - असंयमं त्यक्त्वा संयमं प्रतिपद्य तपःचरणादिना आत्मानं कर्म्म वा आपीडयेत् प्रपीडयेत् निष्पीडयेत् इति, यतः कर्म्माऽऽपीडनार्थं उपशमप्रतिपत्तिः तत्प्रतिपत्तौ च अविमनस्का इति आह- 'तम्हा' इत्यादि, यस्मात् कर्म्मक्षयासंयमपरित्यागः तत्परित्यागे च अवश्यम्भावी संयमः तत्र च न चित्तवैमनस्यं इति । तस्मात् अविमना विगतं भोगकषायादिषु अरतौ वा मनो यस्य स विमना यो न तथा सः अविमनाः, कः असौ ? वीरः कर्म्मविदारणसमर्थः । अविमनस्कत्वात् च यत् स्यात् तत् आह 'सारए' इत्यादि । सुष्ठु आ = जीवनमर्यादया संयमाऽनुष्ठाने रतः = स्वारतः । पञ्चभिः समितिभिः सहितः ज्ञानादिसमन्वितो वा सहितः सदा = सर्वकालं सकृदारोपितसंयमभारः सन् तत्र यतेत् = यत्नवान् भवेत् ← ( आचा. १/४/४/१३८ वृ.) इति ।।२८/
=
=
=
"
For Private & Personal Use Only
-
=
१५।।
તથા છેલ્લી અવસ્થામાં અનશન વગેરે રૂપે નિશ્ચય તપથી પોતાની કાયાનું દમન કરે.(૨૮/૧૫) विशेषार्थ :- ‘देहदुःखं महाफलं' आ सूत्र भावसाधुना हैयामां वशाई गयेल होय छे. परंतु જ્યાં સુધી શાસ્ત્રાભ્યાસ પૂર્ણ ન થાય, માર્મિક શાસ્ત્રબોધ પ્રાપ્ત ન થાય, સર્વાંગમરહસ્ય ઉપલબ્ધ ન थाय, स्वानुभूतिना क्षेत्रमां तात्त्विक प्रवेश भने प्रगति न थाय त्यां सुधी 'शरीरमाद्यं खलु धर्मसाधनं' १. हस्तादर्शे 'असे' इत्यशुद्धः पाठः ।
Jain Education International
www.jainelibrary.org