________________
• तेजोलेश्याविवृद्धिविमर्शः •
१९१७ युज्यते। व्याख्याप्रज्ञप्तिपाठश्चैवम् → जे इमे अज्जत्ताए :समणा निग्गंथा एते णं कस्स तेउलेसं वीतिवयति? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीइवयइ । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतिवयइ । चउमासपरियाए समणे णिग्गंथे गहगण-णक्खत्त-ताराख्वाणं जोतिसियाणं तेउलेसं वीतिवयइ । पंचमासपरियाए समणे णिग्गंथे चंदिम-सूरियाणं जोतिसिंदाणं तेउलेसं वीतिवयइ । छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतिवयइ । सत्तमासपरियाए समणे णिग्गंथे सणंकुमार-माहिंदाणं देवाणं तेउलेसं वीतिवयइ । अट्ठमासपरियाए समणे णिग्गंथे बंभलोग-लंतगाणं देवाणं तेउलेसं वीतिवयइ । नवमासपरियाए समणे णिग्गंथे महासुक्क-सहस्साराणं देवाणं तेउलेसं वीतिवयइ । दसमासपरियाए समणे णिग्गंथे आणय-पाणयआरणाऽच्युयाणं देवाणं तेउलेसं वीतिवयइ । एकारसमासपरियाए समणे णिग्गंथे गेविज्जाणं देवाणं तेउलेस्सं वीतिवयइ । बारसमासपरियाए अणुत्तरोववातियाणं तेउलेस्सं वीतिवयइ। तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झति - (व्या.प्र.१४/९/५३७) इति ।
पञ्चसूत्रेऽपि → स एवंपण्णे एवंभावे एवंपरिणामे अप्पडिवडिए वड्ढमाणे तेउल्लेसाए दुवालसमासिएणं परियाएणं अइक्कमइ सव्वदेवतेउल्लेसं (पं.सू.४/६) इत्येवं वर्षपर्याये सर्वदेवतेजोलेश्याऽतिक्रमणमुक्तम् । एतावता तत्सामर्थ्यविशेषोऽनुमीयते । एतेन → कार्यसामर्थ्याद्धि पुरुषसामर्थ्य कल्प्यते - (कौ.अर्थ.१/८ पृ.१४) इति कौटिलीयार्थशास्त्रवचनमपि व्याख्यातम् । पञ्चवस्तुकेऽपि → भणिअं च परममुणिहिं मासाइ दुवालसप्परियाए । वयमाणणुत्तराणं विइवयई तेउलेसं ति ।। तेण परं से सुक्के सुक्कभिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावइ सव्वुत्तमं ठाणं ।। - (पं.व.२००/२०१) इत्येवमुक्तम् । 'तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं, सा च सुखासिकाहेतुरिति कारणे कार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षिते'ति (व्या.प्र.१४/९/५३७ वृत्ति) व्याख्याप्रज्ञप्तिवृत्तिकारः श्रीअभयदेवसूरिः। → तेजोलेश्या चित्तसुखलाभलक्षणा - (पं.सू.४/६ वृ.) इति पञ्चसूत्रवृत्तौ श्रीहरिभद्रसूरिः।
पञ्चवस्तुकवृत्तौ तु सुखप्रभावलक्षणा तेजोलेश्योपदर्शिता । एतेन सर्वथासुखस्वरूपो मोक्षः कथं दुःखाऽऽसेवनरूपात् संयमानुष्ठानात् सम्पद्येतेति निरस्तम्, → इण्डिं सयंवसिस्स उ निरुवमसुक्खावसाण मुहकडुयं । कल्लाणमोसहं पिव परिणामसुहं न तं दुक्खं ।। - (म.वि.३७६) इति मरणविभक्तिप्रकीर्णकवचनतात्पर्यपरिणमनप्रवणाऽन्तःकरणानां भावमुनीनां सदुपेयमाधुर्याऽनुभूत्या संयमाऽनुष्ठानपालनस्य सुखैकरूपत्वात् । तदुक्तं समरादित्यकथायां → न यावि परमत्थओ दुक्खसेवणारूपं संजमाणुट्ठाणं, परमसुहपरिणामजोगओ विसुद्धलेसाणुभावओ य। एवं च समए पढिज्जइ। अवि य- न वि अस्थि रायरायस्स तं सुहं नेव देवरायस्स । जं सुहमिहेव साहुस्स लोयव्वावाररहियस्स ।। (सं.क.भव.९/ पृ.९४८) । છે – એવું સિદ્ધ થતાં મહિનો વગેરે કાળનો પર્યાય થાય ત્યારે વ્યંતર વગેરેની તેજોલેશ્યાનું સાધુ અતિક્રમણ કરે - એવું ભગવતીસૂત્રમાં બતાવેલ છે તે પણ સંગત થાય છે. કારણ કે તેટલા સમયમાં ગુણશ્રેણિની वृद्धि थाय छे. (२८/११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org