________________
• सदनुष्ठानचतुविर्धताख्यापनम् •
१९१३
यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ।। गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद् भक्त्यनुष्ठानम् ।। अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञातं स्यात्प्रीतिभक्तिगतम्।। वचनात्मिका प्रवृत्तिः 'सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ।। यत्त्वभ्यासाऽतिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ।। वचनानुष्ठानमसङ्गानुष्ठानञ्च (यो.दी. १० / २वृ.) । तत्राऽऽद्यस्वरूपमाह यत्रेत्यादि यत्र अनुष्ठाने आदरः = यत्नाऽतिशयः अस्ति, प्रीतिश्च अभिरुचिरूपा हित उदयो यस्याः सा तथा भवति कर्तुः अनुष्ठातुः शेषाणां प्रयोजनानां त्यागेन च तत्काले यच्च करोति तदेकमात्रनिष्ठतया तत्प्रीत्यनुष्ठानं ज्ञेयम् (यो.दी.१०/३वृ.) । द्वितीयमाह गौरवेत्यादि । गौरवं = गुरुत्वं = पूज्यत्वं तस्य विशेषयोगः = अधिकसम्बन्धः ततः बुद्धिमतः विशेषग्राहिधीशालिनः यदनुष्ठानं विशुद्धतरयोगं = परिशुद्धतरव्यापारं क्रियया बाह्यकरणेन इतरतुल्यमपि = प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तत् = एवम्विधं भक्त्यनुष्ठानम् (यो.दी. १०/४वृ.) । कः पुनः प्रीति-भक्त्योः विशेषः ?' उच्यते अत्यन्तेत्यादि । अत्यन्तवल्लभा खलु अत्यन्तप्रियैव पत्नी भार्या तद्वत् पत्नीवत् अत्यन्तेष्टैव हिता च = हितकारिणी इति कृत्वा जननी = माता । तुल्यमपि = सदृशमपि कृत्यं भोजनाSSच्छादनादि अनयोः जननी-पत्न्योः ज्ञातं = उदाहरणं स्यात् प्रीति-भक्तिगतं = प्रीति-भक्तिविषयम् । प्रीत्या पत्न्याः क्रियते भक्त्या मातुरितीयान् विशेष इति भावः । प्रीतित्व-भक्तित्वे क्रिया (नु) गुणमनोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः (यो.दी. १०/५वृ.) । तृतीयमाह वचनेत्यादि । वचनात्मिका = आगमार्थाऽनुस्मरणाऽविनाभाविनी प्रवृत्तिः क्रियारूपा सर्वत्र = सर्वस्मिन् धर्मव्यापारे क्षान्ति-प्रत्युपेक्षादो औचित्ययोगतः देश-काल-पुरुष-व्यवहाराद्यानुकूल्येन या तु भवति इदं = एवंप्रवृत्तिरूपं वचनानुष्ठानं चारिसाधोः नियोगेन = नियमेन भवति, तस्यैव भवदुर्गलङ्घन - षष्ठगुणस्थानाऽवाप्तेस्तत्र च लोकसंज्ञाऽभावात्, नाऽन्यस्य विपर्ययात् । निश्चयनयमतमेतत् । व्यवहारतस्त्वन्यस्याऽपि मार्गानुसारिणो वचने प्रवर्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् (यो.दी. १० / ६वृ.) । तुर्यस्वरूपमाह → 'यत्त्वि 'त्यादि । यत्तु यत्पुनः अभ्यासाऽतिशयात् भूयः भूयः तदासेवनेन संस्कारविशेषात्, सात्मीभूतमिव चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतमिव चेष्ट्यते क्रियते सद्भिः सत्पुरुषैः जिनकल्पिकादिभिः तत् છોડીને જે થાય તે પ્રીતિઅનુષ્ઠાન જાણવું. (૧૦/૩) ક્રિયાથી પ્રીતિઅનુષ્ઠાન જેવું પણ ગૌરવિતપણાના સંબંધ વિશેષથી બુદ્ધિમાનનું જે વિશિષ્ટ વિશુદ્ધ પ્રવૃત્તિવાળું સદનુષ્ઠાન હોય તેને ભક્તિઅનુષ્ઠાન જાણવું. (૧૦/૪) પત્ની અત્યંત વહાલી જ છે. હિતકારી હોવાથી માતા, પત્નીની જેમ, અત્યંત વહાલી જ છે. તે બન્ને સંબંધી કાર્ય સમાન હોવા છતાં પણ (ભેદ રહેલો છે.) આ પ્રીતિ-ભક્તિવિષયક ઉદાહરણ છે. (૧૦/૫) સર્વત્ર ઔચિત્યયોગથી જે વચનાત્મક પ્રવૃત્તિ થાય તે વચનાનુષ્ઠાન જાણવું. આ વચનાનુષ્ઠાન નિયમા સાધુને હોય છે. (૧૦/૬) વળી, જે અતિશય અભ્યાસથી આત્મસાત્ થયેલ હોય તેમ સત્પુરુષો વડે કરાય તે અસંગ અનુષ્ઠાન જાણવું. આ આગમ સંસ્કારથી ઉત્પન્ન થાય છે. (૧૦/૭) પ્રથમ ચક્રભ્રમણ १. हस्तादर्शे 'सद्' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ 'सर्वत्रोचि ...' इत्यशुद्धः पाठः ।
=
त्रवतः
=
=
Jain Education International
For Private & Personal Use Only
=
=
=
=
=
=
=
=
=
=
=
=
=
=
www.jainelibrary.org