________________
१५९६
परब्रह्मादिव्युत्पत्तिः
द्वात्रिंशिका - २३/२६
निर्वाणतत्त्वेऽस्मिन् एवम्भूते असंमोहेन बोधेन तत्त्वतः = परमार्थतः किमित्याह प्रेक्षावतां = बुद्धिमतां न तद्भक्तौ = न निर्वाणतत्त्वसेवायां, किमित्याह विवाद उपपद्यते, तत्तत्त्वज्ञानभेदाऽभावात् (तत्तत्त्वज्ञानाभेदात्) अन्यथा प्रेक्षावत्त्वविरोधादिति ← ( यो दृ.स. १३२ वृ.) । यत्र नाऽग्निर्दहति, यत्र न मृत्युः प्रविशति, यत्र न दुःखानि प्रविशन्ति सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं यत्र गत्वा न निवर्तन्ते योगिनः ← (नृसिं. पू. ८/३, बृ. जा. ८/६) इति नृसिंहपूर्वताप - नीयोपनिषद्बृहज्जाबालोपनिषदोर्वचनं सदाशिवं व्याचष्टे ।
•
→ अथ कस्मादुच्यते परं ब्रह्म यस्मात् परमपरं परायणं च बृहद् बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म ← (अथ.३३/३) इति अथर्वशिरउपनिषद्वचनं तु परं ब्रह्म व्याचष्टे तदिहाऽनुसन्धेयम् । नारायणपूर्वतापिनीयोपनिषदि अपि नारायणः परं ब्रह्म, ज्ञानं नारायणः परः ← (ना.पू.ता.४/ १ ) इत्युक्तम् । एतेन परं ब्रह्मैव विष्णुः ← (गो.चं. १ । ९) इति गोपीचन्दनोपनिषद्वचनं परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः ← ( नारा. उत्त. ८) इति नारायणोत्तरतापिनीयोपनिषद्वचनं च व्याख्यातम् । वैखानसे तु तर्ककाण्डे ब्रह्मचिन्ताऽध्याये जाति - क्रियादिरहितं सरूपं गुणसङ्गतम् । सूक्ष्मात्सूक्ष्ममवाप्नोति परं ब्रह्मेदमव्ययम् ।। ← (वै./त.कां./ब्र.चि.) इत्येवं तन्निरूपणमुपलभ्यत इत्यवधेयम् । स्कन्दोपनिषदि तु संविन्मात्रं परं ब्रह्म ← (स्कं . १ ) इत्युक्तम् । त्रिपाद्विभूतिमहानारायणोपनिषदि च निरतिशयाऽद्वैतपरमानन्दलक्षणं परब्रह्म भवति ← (त्रि.वि.म.८/ १०) इत्येवमुक्तं तत् परसङ्ग्रहनयाऽपेक्षयाऽवगन्तव्यम् । प्रकृते गुरुरेव परं ब्रह्म ← ( अद्व. १४) इति अद्वयतारकोपनिषद्वचनं राम एव परं ब्रह्म ← ( रा. रह. १/६ ) इति रामरहस्योपनिषद्वचनं, → रामपदेनाऽसौ परं ब्रह्माऽभिधीयते ← (रा.पू. ता. १/६ ) इति रामपूर्वतापिन्युपनिषद्वचनं शिवं सन्मात्रं परं ब्रह्म ← ( शां. ३/१) इति शाण्डिल्योपनिषद्वचनं प्रणवहंसः परं ब्रह्म ← ( प.ब्र. ३) इति परब्रह्मोपनिषद्वचनं, → परं ब्रह्म कृष्ण इत्यभिधीयते ← ( गो . पू. १/१ ) इति गोपालपूर्वतापिन्युपनिषद्वचनं, → बिन्दु-नादकला-ज्योती- रवीन्दु- ध्रुवतारकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ।। ← (यो . शि. ६/ ६६) इति योगशिखोपनिषद्वचनं यस्माच्च बृहति बृंहयति च सर्वं तस्मादुच्यते परं ब्रह्म ← (शां.३/ २) इति च शाण्डिल्योपनिषद्वचनं यथातन्त्रमनुयोज्यम् । प्रकृते च एक एव सदा तेषां पन्थाः सम्यक्त्वचारिणाम् । व्यक्तीनामिव सामान्यं दशाभेदेऽपि जायते ।। निर्वाणसंज्ञितं तत्त्वं संसाराऽतीतलक्षणम् । एकमेवाऽवबोद्धव्यं शब्दभेदेऽपि तत्त्वतः ।।
વિશેષાર્થ :- નિરાબાધ = આધિદૈવિક, આધિભૌતિક અને આધ્યાત્મિક દુઃખસંતાપથી રહિત. આમય એટલે રોગ. અનામય = દ્રવ્ય રોગ અને ભાવરોગથી શૂન્ય. નિષ્ક્રિય = ક્રિયાનું કોઈ કારણ કે પ્રયોજન ન હોવાથી તમામ ક્રિયાઓથી મોક્ષ રહિત છે. તમામ દર્શનકારો મોક્ષનું આવું સ્વરૂપ તો માને જ છે. આ અપેક્ષાએ દરેક દર્શનમાં માન્ય એવો મોક્ષ એક જ છે. આમાં કોઈ વિવાદ નથી. જો સાધ્યલક્ષ્ય-પ્રાપ્ય તત્ત્વ એક જ હોય તો તેની પ્રાપ્તિ કરાવી આપે તેવા ઉપાયમાં વિવાદ કરવો તે નકામો છે. મહત્ત્વ સાધ્યનું છે, સાધનનું નહિ. સાધ્યને સિદ્ધ કરવાના સાધનો અનેક હોય તો શું થયું ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org