________________
• निर्वाणाऽसम्मोहे विवादविरहः .
१५९७ तस्मादचित्रभक्त्याऽऽप्याः सर्वज्ञा न भिदामिताः । चित्रा गीर्भववैद्यानां तेषां शिष्याऽऽनुगुण्यतः।।२७।।
तस्मादिति । तस्मात् = 'सर्वेषां योगिनामेकमार्गगामित्वात् अचित्रभक्त्या = एकरूपया भक्त्या आप्याः = प्राप्याः सर्वज्ञाः न भिदामिता = न भेदं प्राप्ताः । तदुक्तं- “सर्वज्ञपूर्वकं
विमुक्तो निर्वृतः सिद्धः परब्रह्माऽभवः शिवः । अन्वर्थः शब्दभेदेऽपि भेदस्तस्य न विद्यते ।। तल्लक्षणाऽविसंवादान्निराबाधमकल्मषम् । कार्यकारणताऽतीतं जन्म-मृत्युवियोगतः ।। ज्ञाते निर्वाणतत्त्वेऽस्मिन् असंमोहेन तत्त्वतः । मुमुक्षूणां न तद्युक्तौ विवाद उपपद्यते ।। - (यो.सा.प्रा.८/८-१२) इति योगसारप्राभृतकारिका अनुसन्धेयाः ।
तदुक्तं ग्रन्थकृताऽपि वैराग्यकल्पलतायां → तत् सत्त्वं मलिनीभूतं, हेतुः संसार-दुःखयोः । तदेव निर्मलं वीर्यं, कारणं सुख-मोक्षयोः ।। ध्यान-व्रत-तपोमुख्यास्तल्लाभाऽर्थमिमेऽखिलाः । गीयन्ते हेतवश्चित्रास्तत् तत्त्वं पारमेश्वरम् ।। ज्ञानं तद्गोचरं श्रेष्ठ, श्रद्धानं च तदाश्रयम् । क्रिया च वृद्धिकृत् तस्य, मोक्षमार्गः स कीर्तितः ।। एतच्च तत्त्वं यैर्जातं, ध्रुवं तेषां भ्रमः कुतः ?। केवलं वारयन्तीमे, तत्त्वभ्रष्टं कृपापराः ।। तदेको मोक्षमार्गस्ते, तात्त्विकः कीर्तितो मया । पूर्णानन्दमयो ज्ञेयो, मोक्षेऽप्येकोऽनया दिशा ।। संसिद्धिनिर्वृतिः शान्तिः, शिवमक्षरमव्ययम् । अमृतं ब्रह्म निर्वाणं, ध्वनयस्तस्य वाचकाः ।। सर्वकर्मक्षयादेष, सर्वतन्त्रे व्यवस्थितः । ज्ञान-दर्शन-सद्वीर्य-सुखसाम्राज्यलक्षणः ।।
6 (वै.क.९/१०७१-१०७७) इत्यवधेयम् ।।२३/२६।। .
प्रकृतमेवोपसंहरति- 'तस्मादिति । सर्वेषां भवातीतार्थयायिनां योगिनां एकमार्गगामित्वात् = तत्त्वतोऽभिन्नपथप्रस्थितत्वात् एकरूपया परमसमभावलक्षणया भक्त्या प्राप्याः = ग्राह्याः सन्तः सर्वज्ञाः न भेदं = नैव वैलक्षण्यं प्राप्ताः । तदुक्तं योगदृष्टिसमुच्चये 'सर्वज्ञेति । तद्वृत्तिस्त्वेवम् → सर्वज्ञपूर्वकञ्च एतद् = अधिकृततत्त्वं निर्वाणाऽऽख्यं नियमादेव यत् स्थितम्, असर्वज्ञस्य निर्वाणाऽनुपपत्तेः । आसन्नः अयं निर्वाणस्य सर्वज्ञलक्षणः ऋजुः = अवक्रो मार्गः = पन्थाः । तद्भेदः = सर्वज्ञभेदः પરંતુ “અમુક જ દર્શનથી કે અમુક જ આરાધનાથી મોક્ષ થાય, બીજા દર્શનથી કે બીજી આરાધનાથી કદાપિ મોક્ષ ન જ થાય” આવો વિવાદ કરે તે પરમાર્થથી બુદ્ધિમાન જ ન કહી શકાય.(૨૩/ર૬)
છે સર્વજ્ઞદેશનામાં ભેદભાવની વિચારણા હ. ગાથાર્થ - તેથી એકસરખી ભક્તિથી મેળવી શકાય તેવા સર્વજ્ઞો પરમાર્થથી ભેદને પામતા નથી. ભાવવૈદ્ય એવા સર્વજ્ઞોની વાણીમાં વૈવિધ્ય તો શિષ્યની ભૂમિકાને લીધે હોય છે. (૨૩/૨૭)
ટીકાર્ચ - સર્વ દર્શનમાં રહેલા તમામ યોગીઓ એક જ મોક્ષમાર્ગને અનુસરનારા હોવાથી એક સરખી ભક્તિથી પ્રાપ્ત થઈ શકે તેવા સર્વજ્ઞો ભેદને પામતા નથી = ભિન્ન થતા નથી. તેથી જ યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે નિર્વાણ તત્ત્વ નિયમો સર્વજ્ઞપૂર્વક જ હોય છે. એ ચોક્કસ વાત છે. તેથી સર્વશપણું નિર્વાણનો નજીકનો સીધો માર્ગ છે. તેથી મતભેદસ્વરૂપ સર્વજ્ઞભેદ કઈ રીતે થાય ? १. मुद्रितप्रतौ 'सर्व' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org