SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ १५९८ • द्रव्यप्रधान-कपिलदेशनाबीजद्योतनम् • द्वात्रिंशिका-२३/२७ चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ।।” (यो.दृ.स.१३३) इति। कथं तर्हि देशनाभेदः ? इत्यत आह- तेषां सर्वज्ञानां भववैद्यानां = संसाररोगभिषग्वराणां चित्रा = नानाप्रकारा गीः शिष्याऽऽनुगुण्यतो = विनेयाऽभिप्रायाऽनुरोधात् । यथा वैद्या बालादीन् प्रति नैकमौषधमुपदिशन्ति, किं तु यथायोग्यं विचित्रं, तथा कपिलादीनामपि कालान्तराऽपायभीरून् शिष्यानधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना देशना । मतभेदलक्षणः तत् = तस्मात् कथं भवेत् ? नैव भवति + (यो.दृ.स.वृ.१३३) इति । एतदुपजीव्य योगसारप्राभृतेऽपि → सर्वज्ञेन यतो दृष्टो मार्गो मुक्तिप्रवेशकः । प्राञ्जलोऽयं ततो भेदः कदाचिन्नाऽत्र विद्यते ।। 6 (यो.सा.प्रा.८/९३) इत्युक्तम् । यथा वैद्या इति । तदुक्तं षोडशके → हितमपि वायोरौषधमहितं तत् श्लेष्मणो यथाऽत्यन्तम्। सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति।। - (षो.१/१५)। स्याद्वादघटकीभूतद्रव्यार्थिक-पर्यायार्थिकनयाऽनुसारित्वं यथाक्रमं कपिल-सुगतयोः → जं कापिलं दरिसणं एवं दवट्ठियस्स वत्तव्यं । सुद्धोअणतणअस्स उ परिसुद्धो पज्जवविअप्पो ।। - (सं.त. ३/४८) इत्येवं सम्मतितकें प्रदर्शितम् । एतदेवोपदर्शयति- कपिलादीनामपि द्रव्यार्थिकनयाऽवलम्बिनां कालान्तराऽपायभीरून् = कालान्तरभाविमरण-व्यसन-सङ्कटादिलक्षणाऽनर्थभीतान् ब्राह्मणादीन् शिष्यान् अधिकृत्य = आश्रित्य उपसर्जनीकृतपर्याया = गौणीकृतक्षणिकपरिणामा द्रव्यप्रधाना = ध्रुवद्रव्यप्राधान्यका देशना पुरुषप्रकृतिगोचरा युज्यते एव । अद्भुतशीलाऽऽचरणशालिनः ते नाऽनृतं ब्रूयुरिति तेषामप्ययमेवाऽभिप्राय इति भावः । तदुक्तं शास्त्रवार्तासमुच्चये → एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ।। (शा.वा.स.३/४४) इति । → प्रकृतिः प्रकृतेः की स्वात्मा कर्ता निजाऽऽत्मनः । इत्येवं साक्षिबुद्ध्या यो वेत्ति तस्य न बन्धता ।। (अध्या.गी.४४२) इति अध्यात्मगीतावचनमप्यत्राऽऽगमानुसारेणाऽनुसन्धेयम् । ___ एवमेव शत्रु-पुत्रादिगोचरद्वेष-रागग्रस्तान् विनेयानाश्रित्य → पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् - (ऋ.वे.१०/९०/२) इति ऋग्वेदवचनं, → 'सर्वं चिन्मात्रमेव' - (तेजो. उप.२/३९) इति तेजोबिन्दूपनिषद्वचनं, → भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म - (श्वे.१/१२) श्वेताश्वतरोपनिषद्वचनं, 'आत्मैवेदं सर्वं' (छान्दो.७/१५/२) इति पूर्वोक्त(पृ.१०६१) छान्दोग्योपनिषद्वचनं 'ब्रह्मैवेदं सर्वं' (मुण्ड. २/२/११) इति मुण्डकोपनिषद्वचनं च परमसमभावसिद्ध्यर्थमुपयुज्यते न “સર્વજ્ઞમાં મતભેદ ન હોય તો તેઓની ધર્મદશનામાં ભેદભાવ શા માટે દેખાય છે? આ શંકાના નિરાકરણ માટે ગ્રંથકારશ્રી કહે છે કે – સંસારસ્વરૂપ રોગનો નાશ કરવા માટે શ્રેષ્ઠ ભાવવૈદ્ય એવા સર્વજ્ઞ ભગવંતોની વાણી શિષ્યોની માનસ ભૂમિકાને અનુસરવાના લીધે અનેક પ્રકારની દેખાય છે. જેમ વૈદ્ય-ડોક્ટર-હકીમ વગેરે બાલ, વૃદ્ધ વગેરે વિવિધ દર્દીઓને એક સરખી દવા નથી આપતા પણ તેઓની પ્રકૃતિને માફક આવે તે રીતે વિભિન્ન પ્રકારની દવા આપે છે તેમ કપિલ વગેરે મહર્ષિઓએ પણ કાલાંતરે આવનાર મોત વગેરે અનર્થોથી ડરનારા બ્રાહ્મણ આદિ શિષ્યોને ઉદેશીને પર્યાયને ગૌણ કરીને અને દ્રવ્યને મુખ્ય કરીને ધર્મદેશના આપી. १. मुद्रितप्रतौ ‘इति' पदं नास्ति । २. हस्तादर्श 'वेद्या' इति पाठः । ३. मुद्रितप्रतौ 'नैक मोष...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy