________________
१५९९
• पर्यायप्रधान - बुद्धदेशनाप्रयोजनाऽऽविष्कारः सुगतादीनां तु भोगाऽऽस्थावतोऽधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना देशनेति । न तु त्वेकान्ताऽद्वैतसाधनार्थम् । तदुक्तं शास्त्रवार्तासमुच्चये
=
अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ।। अन्यथा तत्त्वतोऽद्वैते हन्त ! संसार - मोक्षयोः । सर्वाऽनुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यते ।। ← (शा. वा. ८/८, १०) इति । 'अन्ये जैना:' । युक्तञ्चैवैतत् । तदुक्तं अध्यात्मगीतायामपि → तात्त्विकज्ञानरूपा न शुद्धाद्वैतादिभावना । सा च चित्तविशुद्ध्यर्थं भावना त्वौपचारिकी ।। ← (अध्या.गी.३५६) इति । एतेन → 'अहं ब्रह्मास्मीत्येवाऽपरोक्षज्ञानयोगतः । सर्वकर्माऽऽवलीबन्धनिवृत्तिर्जायते ध्रुवम् ।। ← (शं.गी. ६/४१ ) इति शम्भुगीतावचनमपि व्याख्यातम् ।
=
न चैवं ‘सर्वं क्षणिकमि’ति बुद्धदेशना कथं सङ्गच्छते ? इति शङ्कनीयम्, यतः सुगतादीनां तु भोगाऽऽस्थावतः = राज्य-सम्पत्ति-कामनीयकन्यादिभोगोपभोगाभिष्वङ्गवतः क्षत्रियादीन् शिष्यान् अधिकृत्य रागनिबन्धनविषयगतनित्यत्ववासनापरित्यागाय उपसर्जनीकृतद्रव्या गौणीकृतध्रुवद्रव्या पर्यायप्रधाना = क्षणभङ्गुरपरिणाममुख्या देशना युज्यत एव । तदुक्तं शास्त्रवार्तासमुच्चये अन्ये त्वभिदधत्येवमेतदाऽऽस्थानिवृत्तये । क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ।। ← (शा. वा. स. ६ / ५१ ) इति । 'अन्ये = मध्यस्थाः, जैना' इति यावत् । एवं ज्ञाननयाऽवधारणयोग्यान् शिष्यानधिकृत्य धनधान्यादिबाह्यार्थपरिष्वङ्गपरित्यागाय उपसर्जनीकृतबाह्याऽर्था ज्ञानप्रधाना देशनाऽपि युज्यत एव । तदुक्तं शास्त्रवार्तासमुच्चये विज्ञानमात्रमप्येवं बाह्यसङ्गनिवृत्तये । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनाऽर्हतः ।। `← (शा.वा.स. ६ / ५२ ) इति । एवमेव शून्यताविषयविभागाऽवधारणप्रवणविनेयहिताऽनुरोधात् शून्यवाददेशनाऽपि बुद्धस्य सङ्गच्छत एव । तदुक्तं शास्त्रवार्तासमुच्चये एवञ्च शून्यवादोऽपि तद्विनेयाऽऽनुगुण्यतः । अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना ।। ← (शा. वा. स. ६ / ६३) इति । भोगाऽऽसक्त्युच्छेदप्रयोजनाऽभिप्रायात् शून्यवाददेशना, न तु तत्त्वाऽभिधित्सयेति भावः ।
सुगतेन यथावसरं नौकातुल्याः प्रतीत्यसमुत्पादवाद-क्षणिकतावाद-विज्ञानवाद-शून्यवादादयः तत्तद्दोषग्रस्तविनेयेभ्यो भवोदधिनिस्तरणाय गदिताः, न तु ' इत्थमेव तत्त्वमिति तत्त्वाऽभिनिवेशग्रहणाय । इदमेवाभिप्रेत्य मज्झिमनिकाये महातृष्णासङ्क्षयसूत्रे स्वयमेव सुगतेन अपि नु मे तुम्हे, भिक्खवे ! कुल्लूपमं धम्मं देसितं आजानेय्याथ नित्थरणत्थाय, नो गहणत्थाया ति ← (म.नि.१/४/८/४०१/पृष्ठ३३१) इत्युक्तम् । 'कुल्लूपमं = नौकोपमम्' । शिष्टं तु भावितार्थमेव । सर्वथानिरन्वयक्षणिकत्वस्य सुगताभिप्रेतत्वे तु → जातिपच्चया जरा-मरणं सोक- परिदेव - दुक्ख दोमनस्सुपायासा सम्भवन्ति ← (म.नि. महातृष्णासङ्क्षयसूत्र १/४/८/४०२ / पृष्ठ - ३३२) इत्येवं मज्झिमनिकायगता सदुक्तिः न कथमप्युपपद्येत । न हि निरन्वयं चिरविनष्टस्य जन्मनः आद्यक्षणसम्बन्धविशेषाद्यात्मकस्याऽतिव्यवहितजरामरण-शोकादिकारणत्वसम्भव इति भावनीयं सूक्ष्मेक्षिका ।
•
તથા બુદ્ધ વગેરે મહર્ષિઓએ તો રાજ્ય-સંપત્તિ-ભોગસુખમાં આસ્થા રાખનારા ક્ષત્રિય વગેરે શિષ્યોને ઉદ્દેશીને દ્રવ્યને ગૌણ કરી પર્યાયને મુખ્ય બનાવનારી ધર્મદેશના આપી. પરંતુ આનો અર્થ એ નથી કે કપિલ અને બુદ્ધ વગેરે મહર્ષિઓ અન્વય-વ્યતિરેકવાળી = દ્રવ્ય-પર્યાયવાળી = સદસસ્વરૂપ વસ્તુના જાણકાર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org