________________
१६००
• सुगत-कपिलादीनां अन्वय-व्यतिरेकज्ञानम् • द्वात्रिंशिका-२३/२७ तेऽन्वयव्यतिरेकवद्'वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः ।
ग्रन्थकृत् प्रकृते हेतुमाह- यतो न तु ते अन्वय-व्यतिरेकवद्वस्तुवेदिनः = सदसद्वस्तुज्ञातारो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः = सर्ववेदित्वप्रसिद्ध्यसमतेः । सर्वज्ञत्वात्ते व्यक्ताऽव्यक्त-भिन्नाऽभिन्न-सदसद्वाच्याऽवाच्य-नित्याऽनित्य-द्रव्यपर्यायात्मकवस्तुवेत्तार एवेत्याशयः। तथाहि- कपिल-पतञ्जल्योः मिथोविरुद्धसत्त्वरजस्तमोगुणात्मिकायाः प्रकृतेः परिणामिनित्यत्वप्रतिपादनमन्वय-व्यतिरेकशालिवस्तुवेदितामन्तरेण नोपपद्यते । तदुक्तं व्यासेन योगसूत्रभाष्ये → अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः - (यो.सू.भा.३/१३) इति । उत्पादव्यय-धौव्यात्मकवस्तुनोऽनङ्गीकारे नैव परिणामिनित्यतेयमुपपद्यत इति तयोरन्वय-व्यतिरेकशालिवस्तुवेदित्वं सिध्यति । अन्वय-व्यतिरेकयोरिवोत्सर्गापवादयोरपि ज्ञानं कपिलादिषु आम्नातम् । तदुक्तं महाभारते → उत्सर्गेणाऽपवादेन ऋषिभिः कपिलादिभिः । अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत !।। - (म.भा.शांति ३६०/६) इति भावनीयं यथातन्त्रम् ।
ब्रह्माऽद्वैतवादिनामप्यनाविलमेव नित्याऽनित्य-व्यक्ताऽव्यक्त-मूर्ताऽमूर्त्त-क्षराऽक्षर-मुक्ताऽमुक्त-सर्वाऽसर्वसदसद्वस्तुवेदित्वम्, → त्वमेव सदसदात्मकः, त्वमेव सदसद्विलक्षणः - (त्रि.म.१/१) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनात्, → मुक्ताऽमुक्तस्वरूपात्मा, मुक्ताऽमुक्तविवर्जितः । बन्ध-मोक्षस्वरूपात्मा, बन्धमोक्षविवर्जितः ।। - (ते.बि.४/ ६५) इति तेजोबिन्दूपनिषद्वचनात्, → मूर्तामूर्तं च नारायणः - (त्रि.महा.२/४) इति त्रिपाद्विभृतिमहानारायणोपनिषद्वचनात, → नान्तःप्रज्ञ, न बहिःप्रज्ञ, नोभयतः प्रज्ञं, न प्रज्ञं, नाऽप्रज्ञं प्रज्ञानधनम् - (गणे.उत्त.१) इति गणेशोत्तरतापिन्युपनिषद्वचनात्, → अक्षरमहं क्षरमहं - (त्रिपु.ता.१) इति त्रिपुरातापिन्युपनिषद्वचनात्, → न सर्वं सर्वमेव च - (महो.५/४६) इति महोपनिषद्वचनात्, → नैव चिन्त्यं, न चाऽचिन्त्यं, अचिन्त्यं चिन्त्यमेव च - (ब्र.बि.६) इति ब्रह्मबिन्दूपनिषद्वचनात्, → द्वैताऽद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम्। भावाऽभावविहीनोऽस्मि भासा हीनोऽस्मि भास्यहम् ।। - (मैत्रे.३/४-५) इति मैत्रेय्युपनिषद्वचनात्,→ सोऽहं नित्याऽनित्यो व्यक्ताऽव्यक्तो ब्रह्माऽहम् - (अथ.१) इति अथर्वशिरउपनिषद्वचनात्, → सदसद्वरेण्यम् - (मुण्ड.२/ १) इति मुण्डकोपनिषद्वचनाच्च । ___ एतेन → मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति । मृदि कुम्भो जले वीचिः कनके कटकं यथा।। - इति अष्टावक्रगीतावचनमपि (अ.व.गी.२/१०) व्याख्यातम्, परमात्मनिष्ठत्रिजगत्स्वामित्वाऽभ्युपगमाऽविनाभाविभक्तियोगप्राधान्योपयोगितया सङ्ग्रहनयसीम्नि तत्प्रामाण्योपपत्तेः । इत्थमेव → एकस्य ब्रह्मणः सर्वे विवर्ताः प्रतिभान्त्यमी । अनन्तशक्ते ऽनार्थाः क्रियाभावेन वास्तवाः ।। परसङ्ग्रहवागेषा विषयोऽस्या हि तात्त्विकः । स तात्त्विकः तं यो वेत्ति ज्ञान-वैराग्यसात्त्विकः ।।
6 (अ.गी.१५/२०-२१) इति अर्हद्गीतायां मेघविजयगणिवचनमपि सङ्गच्छते । अद्वैतदेशनाप्रयोजन स्वसंवेद्योपनिषदि → कर्माऽद्वैतं तु न कार्य, भावाऽद्वैतं तु कार्यम् । निश्चयेन सर्वाऽद्वैतं कर्तव्यम् - (स्वसं.३/२) इत्येवमुपदर्शितम् । अनेन → ब्रह्मैवेदं विश्वम् - (अ.मुंड.२/२) इति अथर्ववेदमुण्डकोपनिषद्वचनं, → इदं सर्वं यदयमात्मा - (बृहदा.५/१४) इति बृहदारण्यकोपनिषद्वचनं, → ब्रह्म ન હતા. કારણ કે એવું માનો તો તે સર્વેમાં સર્વશપણું જ સંગત થઈ ન શકે. १. मुद्रतप्रतौ ....रेकवस्तु..' इति त्रुटितः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org