________________
• नानाविधाऽद्वैतदेशनाप्रयोजनाऽऽविष्करणम् •
१६०१ खल्विदं वाव सर्वम् - (मैत्रा.४/६) इति मैत्रायण्युपनिषद्वचनं, → सर्वं खल्विदं ब्रह्म 6 (त्रि.वि: महा.१/४,निरा.४) इति त्रिपाद्विभूतिमहानारायणोपनिषद्-निरालम्बोपनिषदोर्वचनं, → ब्रह्ममात्रमिदं सर्वं 6 (ते.बि.३/३२) इति तेजोबिन्दूपनिषद्वचनं, → सर्वं ह्येतद् ब्रह्म आत्मा - (राधो.२/४) इति च राधोपनिषद्वचनं व्याख्यातम्, तदुक्तं श्रीसिद्धसेनदिवाकरसूरिभिरपि शक्रस्तवे → जिनो दाता जिनो भोक्ता जिनः सर्वमिदं जगत् + (श.स्त.३) इति । → आत्माऽऽत्मनाऽऽत्मनिमग्नः सर्वत्र ब्रह्म पश्यति - (म.गी.२/१५) इति महावीरगीतावचनमप्यत्र साक्षि । एतेन → अद्वैतपुरुषस्य पूर्ण ब्रह्म प्रतिभासितम् - (अद्वै.४) इति अद्वैतोपनिषद्वचनमपि व्याख्यातम् ।
मण्डलब्राह्मणोपनिषदि तु → तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एव ब्रह्मनिष्ठो भवति जीवः - (मं.ब्रा.१/४) इत्येवं स्पष्टमेवाऽद्वैतदेशनातात्पर्यमाविष्कृतम् । पैङ्गलोपनिषदि अपि → मनसो ह्युन्मनीभावे द्वैतं नैवोपलभ्यते - (पै.४/२०) इत्येवं स्पष्टमेवोन्मनीदशाऽपेक्षया द्वैतज्ञानाऽभाव एवाऽद्वैतदेशनाप्रयोजनमुक्तम् । महोपनिषदि अपि → दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् - (महो.२/३८) इत्येवं यदुक्तं तदप्यद्वैतदेशनाप्रयोजनतयाऽवसेयम् । ततोऽपि सविकल्पमनोनाश एवाऽद्वैतदेशनाप्रयोजनमित्यवसीयते। तदुक्तं महोपनिषदि एव → द्रष्टा दृश्यवशाद् बद्धो दृश्याऽभावे विमुच्यते । 'जगत् त्वमहमि'त्यादि सर्गात्मा दृश्यमुच्यते ।। मनसैवेन्द्रियजालश्रीर्जगति प्रवितन्यते । यावदेतत्सम्भवति तावन्मोक्षो न विद्यते ।। ( (महो.४/४८-४९) इति ।
किञ्च, → नाऽद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् । अद्वैतं भावयेद् भक्त्या गुरोर्देवस्य चाऽऽत्मनः ।। 6 (यो.शि.५/५९) इति योगशिखोपनिषद्वचनमपि विवेकदृष्टिमेव व्यनक्त्यद्वैतदेशनाकृतः। → सर्वमात्मेदमत्राऽहं किं वाञ्छामि त्यजामि किम् ?। इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थितिम् ।। - (अन्न.२ ३) इति अन्नपूर्णोपनिषद्वचनमपि प्रकारान्तरेणाऽद्वैतदेशनाबीजमेवाऽभिव्यनक्ति । तेजोबिन्दूपनिषदि → भावितं तीव्रवेगेन यद् वस्तु निश्चयात्मकम् । दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् । । विद्वान् नित्यं सुखे तिष्ठेद् धिया चिद्रसपूर्णया । - (ते.बि.१/५०-५१) इत्येवमद्वैतदेशनाप्रयोजनमुक्तं तदपीहाऽनुयोज्यं यथातन्त्रम् ।
→ 'देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते - (ते.बि.५/९४) इति तेजोबिन्दूपनिषदुक्तद्वैतनिराकरणमेवाऽद्वैतदेशनाप्रयोजनमित्यपि सम्यगाभाति । एतेन → विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् । आत्मानमपि दृष्ट्वाऽहमनात्मानं त्यजाम्यहम् ।। - (आ.प्र.१७) इति आत्मप्रबोधोपनिषदुक्तमद्वैतदेशनाप्रयोजनमपि व्याख्यातम् । → अद्वैतपुरुषस्य न द्वितीयो भेदोऽस्ति - (अद्वै.१) इत्येवं अद्वैतोपनिषद्वचनमप्यद्वैतदेशनातात्पर्यमुद्घाटयति । अनेन → एगे आया - (स्था.१/१/२) इति पूर्वोक्तं (पृ.२४९, १४७९, १५७४) स्थानाङ्गसूत्रमपि व्याख्यातम् ।
किञ्च स्वर्गादिप्रापकदान-स्वाध्यायादिविधायकविधिवाक्यवैयर्थ्यापातेन 'पुरुष एवेदं सर्वं' (ऋग्वेद१०/९०/२) 'ब्रह्मैव सर्वमिदं' (मुण्डकोपनिषद्-२/२/११) इत्यादीनि पुरुषस्तुतिपराणि जात्यादिमदत्यागहेतोरद्वैतभावनाप्रतिपादकानि च वर्तन्ते (वि.आ. भा.१६४३ वृत्ति) इति विशेषावश्यकभाष्यवृत्तौ श्रीहेमचन्द्रसूरयः प्राहुः । जात्यादिमदत्यागेनाऽऽत्मशुद्धिकारकत्वादद्वैतन्योऽपि भावस्याद्वादपरिकरतयाऽवश्यमादरणीयः स्वभूमिकौचित्येन मुमुक्षुभिः । इदमेवाऽभिप्रेत्योक्तं श्रीबुद्धिसागरसूरिभिः अपि अध्यात्मगीतायां →
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org