________________
१६०२
• बौद्धदर्शने सर्वथाक्षणभङ्गाऽनङ्गीकारः
• द्वात्रिंशिका -२३/२७ आत्मशुद्धिकरी भाव्या सर्वत्र ब्रह्मभावना । ब्रह्मभावनया नश्येत् काममोहस्य वासना || सर्वत्र सत्तया भाव्या शुद्धाद्वैतस्य भावना । तया जागर्ति सद्देवो देहस्थो भगवान् हरिः ।। सर्वत्र भावना भाव्या ह्येकाऽऽत्मनश्च सत्तया । अभेदब्रह्म जागर्ति राग-द्वेषौ विना हृदि ।
← (अध्या.गी.३४९,३५०, ३५२ ) इत्यवधेयम् । एतेन 'अहं ब्रह्मास्मि' मन्त्रोऽयं भेदबुद्धिं विनाशयेत् ← (ते. बिं. ३ / ६३ ) इति तेजोबिन्दूपनिषद्वचनमपि व्याख्यातम् ।
ननु भवद्भिरनेकान्तवादिभिरेवाऽविरोधः स्वयमुन्नीयते, न तु परतीर्थिकैरेवमविरोधः क्वचिदप्युपादर्शीति चेत् ? न; परैरपि मध्यस्थबुद्ध्या कण्ठतोऽनेकत्राऽविरोधस्योपपादितत्वात् । तदुक्तं शम्भुगीतायां → यथा शक्तिमतः शक्तिस्तत्रैवाऽव्यक्ततां गता । कदाचिद् व्यक्तिमापन्ना तत्पृथक्त्वेन भासते ।। तथैवोपासनाशास्त्रविधानेन स्वधाभुजः !। सृष्टेर्दशायां द्वैतत्वं मुक्तावद्वैतता मता || एतद्विज्ञानतो नूनमद्वैत- द्वैतयोर्द्वयोः । कश्चिद् विरोधो नैवाऽस्त्युपासना सिध्यति त्वम् ।। तत्त्वजिज्ञासवः कल्याः ! एवमेव समन्वयः । साङ्ख्यादिदर्शनैः सार्धं वेदान्तस्य भवेद् ध्रुवम् ।। अतोऽयुक्ताऽस्ति शास्त्रेषु विरोधस्यैव कल्पना । तस्माद् भवद्भिः शास्त्रेषु विरोधो नैव दृश्यताम् ।। ← (शं.गी. ६/८३-८७) इति । साङ्ख्यप्रवचनभाष्यादावप्यनेकधा नानाश्रुत्यविरोध उपदर्शित इति न विस्मर्तव्यम् । इति अद्वैतादिनयदेशनासम्यक्त्वमीमांसा ।
अथ बुद्धदेशनासमीचीनत्वविचारः प्रारभ्यते । तथाहि स्वयमेव बुद्धेन पूर्वभवे ब्रह्मलोकगा मिथिलानरेशः मघदेवाख्यः स्वपर्यायो दर्शितः । तदुक्तं मज्झिमनिकाये अहं तेन समयेन राजा मघदेवो अहोसिं ← (म.नि. भाग-२ / राजवर्ग-३/३१६ ) इति । ततश्च परमार्थेन क्षणिकवादिना बुद्धेन नित्याऽनित्यवस्तु स्वीकृतमेव, अन्यथोपदर्शितपरलोकगमनाऽनुपपत्तेः, इत एकनवतौ कल्पे शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ! 11 ← ( शास्त्रवार्तासमुच्चय ४ / १२४ ) इति पूर्वोक्त (पृ. ६१०) सुगतवचनाऽन्यथानुपपत्तेश्च । तदुक्तं मज्झिमनिकाये इतो खो सो वच्छ ! एकनवुत्तो कप्पो यमहं अनुस्सरामि ← (म.नि. २/३/१८६ पृ. १५९) इत्यादि । अन्यत्राऽपि सुगतेन → कप्पठाइ पुहवी भिक्खवो ! ← ( ) इत्युक्तम् । सुगतेनानेककल्पगोचरस्वजातिस्मरणोपलब्धिरपि कण्ठत एवोक्ताऽनेकशः । तदुक्तं मज्झिमनिकाये भयभेरवसूत्रे अनेकविहितं पुब्बे निवासं अनुस्मरामि । सेय्यथीदं एकं पि जाति' द्वे पि जातियो तिस्सो पि जातियो चतस्सो पि जातियो पञ्च पि जातियो दस पि जातियो वीसं पि जातियो तिसं पि जातियो चत्तालीसम्पि जातियो पञ्ञसम्पि जातियो जातिसतम्पि जाति सहस्सम्पि जाति सतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे ← ( म.नि. १/१/५२ ) इति ।
किञ्च सुगतेन अंगुत्तरनिकाये बालवर्गे 'मिच्छादिट्ठिकस्स, भिक्खवे, द्विन्नं गतीनं अञ्ञ्जतरा गति पाटिकखा-निरयो वा तिरच्छानयोनि वा 'ति । 'सम्मादिट्ठिकस्स, भिक्खवे, द्विन्नं गतीनं अञ्ञतरा गति पाटिकखा-देवा वा मणुस्सा वा' ति ← ( अंगुत्तरनि.भा.१ / स्कंध -१/१-२-२८,२९) इति यदुक्तं ततोऽप्यात्मनो नित्यता तस्य सम्मतैवेति प्रतीयते । सूत्रपिटकान्तर्गते दीघनिकाये महावर्गे दशमसूत्रे पृथिव्याद्यतिरिक्त-जीव-स्वर्ग-नरकादिसाधनादपि बौद्धदर्शने आत्मनो नित्यताऽपि सम्मतैवेति प्रतीयते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International