________________
• सुगतदर्शने भवान्तर- कर्मादिस्वीकारः •
( दी. नि. म.व. पायासि सुत्त - पृ. २३८- २६१ ) ।
या च मज्झिमनिकाये महाहस्तिपदोपमसूत्रे महासमुद्राऽनित्यतोपदर्शनावसरे → बाहिराय आपोधातुया ताव महल्लिकाय अनिच्चता पञ्ञायिस्सति खयधम्मता पञ्ञायिस्सति, वयधम्मता पञ्ञायिस्सति, विपरिणामधम्मता पञ्ञायिस्सति ← (म.नि. १/३/८/३०२, पृ. २४६ ) इत्येवमनित्यता- क्षय - व्यय विपरिणामधर्माणां पर्यायता दर्शिता ततोऽपि न निरन्वयनाशः सुगतस्याऽभिप्रेत इति सिध्यति, यतो मूलस्वरूपेणाऽवस्थितस्य पूर्वावस्थापरित्यागेनोत्तरधर्माऽङ्गीकारो हि विपरिणाम उच्यते । मज्झिमनिकाये महागोशृङ्गसूत्रे (म.नि.१/४/२/३४५ पृ.२८३) आनन्द- शारिपुत्रानुरुद्ध-महामौद्गल्यायन-रेवत-महाकाश्यपादिपर्यनुयोगनामनेकान्तवादरीत्या सुगतेन समाधान-करणादपि तस्याऽनेकान्तवादप्रतिक्षेपित्वं न सम्भवति परमार्थतः । मज्झिमनिकाये शुभसूत्रे तु स्वयमेव सुगतेन विभज्जवादो खो अहमेत्थ, माणवः ! नाहमेत्थ एकंसवादो ← ( म.नि. २/५/९/४६३) इत्येवमात्मनोऽनेकान्तवादित्वमङ्गीकृतमेव कण्ठतः । अनेकान्तवादाङ्गीकारं विना तु चतुर्विधप्रश्नव्याकरणनिरूपणे विभज्जब्याकरणीयो पञ्हो ← ( दी. नि. ३/१०/३१२ ) इति दीघनिकायवचनं नोपपद्येत कथमपि ।
१६०३
यदपि दीघनिकाये पाथिकवर्गे प्रासादिकसूत्रे सुगतेन ये ते समणब्राह्मणा एवंवादिनो एवंदिट्टिनो'सरसतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति । त्याहं उपसङ्कमित्व एवं वदामि- 'अत्थि नु खो इदं, आवुसो ! वुच्चति- 'सस्सतो अत्ता च लोको चा' ति । यञ्च खो ते एवमाहंसु'इदमेव सच्चं मोघमञ्ञ'न्ति । तं तेसं नानुजानामि । तं किस्स हेतु ? अञ्ञथासञ्ञिनोपि हेत्थ, चुन्द ! सन्तेके सत्ता ← ( दी. नि. ३/६/१९२, पृ.१०३ ) इत्युक्तं ततोऽपि तस्याऽनेकान्तवादाऽभ्युपगन्तृत्वमपरिहार्यमेव । इत्थं आत्मनोऽनित्यत्वप्रतिपादनेऽपि कथञ्चिन्नित्यत्वाभ्युपगमादेव सयंकतानि पुञ्ञानि तं मित्तं सम्परायिकं ← (सं. नि. १/१ / जरावग्ग - मित्तसुत्त ५३, पृ. ४२ ) इति संयुत्तनिकायवचनमपि सङ्गच्छते सुगतस्य । ‘सम्परायिकं पारलौकिकम्' । आत्मनः परलोकयायित्वविरहे स्वकृतपुण्यानां पारलौकिकमित्रत्वं कथं सङ्गच्छेत ?
किञ्च मज्झिमनिकाये अपि कुक्कुरव्रतिकसूत्रे (भा. २/१/७/८१) कृष्ण-कर्मणा नरकगतिः, शुक्लकर्मणा च देवगतिः बुद्धेनोपदर्शिता । स्वयमेव बुद्धेन अङ्गुत्तरनिकाये अकिरियं खो अट्टं, ब्राह्मण ! वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स, अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि ! किरियञ्च खो अहं, ब्राह्मण ! वदामि कायसुचरितस्स वचीसुचरितस्स मनोसुचरितस्स, अनेकविहितानं कुसलानं धम्मानं किरियं वदामि ! एवं खो अहं, ब्राह्मण ! किरियवादी च अकिरियवादि चाति ! ← (अंगुत्तरनिकाय - स्कंध - १, भाग - १, समचित्तवर्ग-१ / २ / ३६ ) इति यदुक्तं ततोऽप्यन्वयव्यतिरेकशालिवस्तुवेदिता तस्याऽनाविलैवेति ध्येयम् ।
=
Jain Education International
नन्वेवमन्वय-व्यतिरेकशालिवस्तुवेदित्वेऽपि कथमेकतरनयाऽवलम्बनेन द्रव्यमृषाभाषित्वमिति चेत् ? न, यतः तत्तद्विनेयहितप्रयोजनमेवाऽत्र नियामकम् । अत एव तदाप्तताऽनाविला । यथा हि सुवैद्यः कटुकमप्यौषधं कटुकौषधपानभीतस्य परस्य प्रवृत्तयेऽकटुकमपि वदन् नाऽनाप्तः स्यात् तथा कपिलादिरनित्यत्वोपेतमपि वस्तु विनेयमतिपरिष्काराय नित्यं वदन् बुद्धश्चाऽक्षणिकस्वभावं ज्ञप्तिमात्राऽस्वभावं शून्यमात्राऽस्वभावमपि वस्तु तथाविधशिष्यहिताऽनुरोधेन क्षणिकस्वभावं ज्ञानमात्रस्वभावं शून्यमात्रं च वदन्नपि
For Private & Personal Use Only
www.jainelibrary.org