SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्राकृतभावविरक्तानामासन्नमुक्तिः १५९३ “असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवाऽतीताऽर्थयायिनाम् ।। प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवाऽतीताऽर्थयायिनः । । ” ← (यो.दृ.१२६-१२७) । भे गुणस्थानपरिणतितारतम्येऽपि तेषां योगिनां एकोऽध्वा = एक एव मार्गः । जलधौ समुद्रे तीरमार्गवत् दूराऽऽसन्नादिभेदेऽपि तत्त्वतस्तदैक्यात् । प्राप्यस्य मोक्षस्य सदायथोक्तं योगदृष्टिसमुच्चये 'असंमोहे'ति, 'प्राकृतेष्विति' च तद्वृत्तिस्त्वेवम् → असंमोहसमुत्थानि पुनर्यथोदितासंमोहनिबन्धनानि तु एकान्तपरिशुद्धितः कारणात् परिपाकवशेन किमित्याह निर्वाणफलदानि आशु = शीघ्रं तान्येव कर्माणि, केषामित्याह भवाऽतीतार्थयायिनाम् = सम्यक्परतत्त्ववेदिनामित्यर्थः ( यो. दृ.स. १२६ वृ.) एतेषामेव लक्षणमाह प्राकृतेष्विह भावेषु = शब्दादिषु बुद्धिपर्यवसानेषु येषां चेतो निरुत्सुकं = निःसङ्गतासमावेशात्, भवभोगविरक्तास्ते एवम्भूता जीवा मुक्तकल्पा, भवाऽतीताऽर्थयायिनः उच्यन्ते, भवचित्ताऽसंस्पर्शादिति ← ( यो दृ. स. १२७ वृ.) । नवरं प्राकृतभावाः शब्दादिपञ्चतन्मात्राऽन्तःकरण-कर्णादिज्ञानेन्द्रियपञ्चक-करादिकर्मेन्द्रियपञ्चक-पृथिव्यादिपञ्चमहाभूताऽहङ्कार-बुद्धिलक्षणाः त्रयोविंशतिरवसेया अत्र पातञ्जलप्रक्रियाऽनुसारेण । जैनदर्शनाऽनुसारेणौदयिकादयः प्राकृतभावा विज्ञेयाः, कर्मप्रकृतिजन्यत्वात् । योगसारप्राभृतेऽपि = सन्त्यसम्मोहहेतूनि कर्माण्यत्यन्तशुद्धितः । निर्वाणशर्मदायीनि भवाऽतीताऽध्वगामिनाम् ।। भावेषु कर्मजातेषु मनो येषां निरुद्यमम् । भवभोगविरक्तास्ते भवाऽतीताऽध्वगामिनः ।। ← (यो.सा.प्रा. ८/८६-८७ ) इत्युक्तम् । अत एव आत्मानुशासने शमं हि फलमामनन्ति मुनयः तपः शास्त्रयोः ← ( आ. अनु. १९०) इत्युक्तम् । मज्झिमनिकाये → ‘असम्मोहधम्मो सत्तो लोके उप्पन्नो बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान 'न्ति । ( म.नि. १ । १ । ५० ) ← इत्युक्तं तदप्यऽत्राऽनुसन्धेयम् । भवातीताऽर्थयायिनां देवादिभक्तेरचित्रत्वोपपादनाय प्रक्रमते - गुणस्थानपरिणतितारतम्येऽपि = तत्तद्गुणस्थानकप्रतिबद्धाऽध्यवसायवैचित्र्येऽपि योगिनां भवातीताऽर्थयायिनां तत्त्वत एक एव मार्गः समतालक्षण:, प्राप्यस्य = मार्गप्रवर्तनलभ्यस्य मोक्षस्य एकत्वात् तन्मार्गस्याऽपि तथात्वात् = एकत्वादित्यत्राऽपि पुनः अन्वयः । एतेन → यथा स्वर्गप्राप्तौ नानाभूताः प्रकाराः सन्ति, न तथा मुक्तौ ← (य. वे. उव्व. ४०/२) इति यजुर्वेदोव्वर भाष्यवचनमपि व्याख्यातम् । तदुक्तं अध्यात्मसारे उपायः समतैवैका मुक्तेरन्यः યોગીઓને જલ્દી મોક્ષફળને દેનારાં થાય છે. જેમનું ચિત્ત પ્રાકૃત કર્મજન્ય ભાવોમાં ઉત્સુકતાથી રહિત છે અને જેઓ સંસારના ભોગથી વિરક્ત છે તે યોગીઓ સંસારાતીત મોક્ષને અનુસરનારા જાણવા.’ ભેદમાં પણ અભેદ અનુભવસિદ્ધ * भेदेऽपि । गुएास्थाननी परिशति तरतमभाववाणी होवाथी योगीखोमां ते अपेक्षाने भेट होवा छतां પણ યોગીઓનો માર્ગ એક જ છે. જેમ સમુદ્રના કાંઠે જનારા માણસોમાં કોઈક કાંઠાની નજીક હોય, કોઈ દૂર હોય - આવો અવસ્થાભેદ હોવા છતાં પણ તમામ માર્ગ સમુદ્ર તરફ જ જાય છે. લક્ષ્ય એક હોવાની Jain Education International For Private & Personal Use Only www.jainelibrary.org = = • = = =
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy