SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १५८८ • रत्नोपलम्भोदाहरणविमर्शः • द्वात्रिंशिका-२३/२३ स्वस्वपूर्वाणां कर्मणां भेदसाधकः "तभेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनां" (यो.दृ.स.१२०) इति वचनात्। रत्नोपलम्भ-तज्ज्ञान-तदवाप्तीनां निदर्शनात् (रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात् । यथा ह्युपलम्भादिभेदाद्रत्नग्रहणभेदस्तथा प्रकृतेऽपि बुद्ध्यादिभेदादनुष्ठानभेद इति ।।२३।। बुद्धिः = अन्तकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम् । ज्ञानं = आत्मादिपदार्थानामवबोधः । असम्मोहः = प्रत्युपपन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः - (भ.गी.शां.१०/४) इति भगवद्गीताशाकरभाष्यम् । भारतभारदीपे अद्वैतवादिनो नीलकण्ठस्य ब्रह्मानन्दगिर्याख्याने च केवलाद्वैतवादिनो वेंकटनाथस्याप्येवंप्रायः अभिप्रायः। → बुद्धिः = मनसो निरूपणसामर्थ्यम् । ज्ञानं = चिदचिद्वस्तुविशेषविषयो निश्चयः । असम्मोहः = पूर्वगृहीताद् रजतादेः विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः - (भ.गी.रा.१०/४) इति भगवद्गीतारामानुजभाष्यम् । → कार्याऽकार्यविनिश्चयः = बुद्धिः । ज्ञानं = प्रतीतिः - (भ. गी.मा.१०/४) इति भगवद्गीतामाध्वभाष्यम् । → बुद्धिः = सूक्ष्मावबोधसामर्थ्यम् । ज्ञानं = पदार्थाऽवबोधः । असम्मोहः = उपस्थितप्रतिपत्तिसामर्थ्यम् - (भ.गी.पै.१०/४) इति भगवद्गीतापैशाचभाष्ये केवलाद्वैतवादी हनुमान् । → बुद्धिः तत्त्वतोऽध्यवसायरूपा, ज्ञानं उपदेशजन्यम् + (भ.गी.त.दी.१०/४) इति भगवद्गीतातत्त्वदीपिकायां शुद्धाद्वैतवादी वल्लभाचार्यः । → बुद्धिः = धर्मज्ञानकौशलम् । ज्ञानं स्वरूपात्मकम् । असम्मोहो मायाविलासेषु - (भ.गी.अ.त.१०/४) इति भगवद्गीतामृततरङ्गिण्यां शुद्धाद्वैतवादी पुरुषोत्तमः । प्रकृते यथोपयोगं यथानयं व्याख्यानं ग्राह्यं विवेकिभिः । नयान्तराभिप्रायेण बुद्धिज्ञानाऽसंमोहानां क्रमशः श्रुत-चिन्ता-भावनाज्ञानात्मकता यद्वा श्रवण-मनन-निदिध्यासनात्मकता यद्वा विषयप्रतिभासात्मपरिणतिमत्तत्त्वसंवेदनज्ञानात्मकता यथातन्त्रमवसेया बहुश्रुतैः । एवं त्रिविधो बोधः स्वस्वपूर्वाणां = स्वजन्यानां कर्मणां = शास्त्रोक्ताद्यनुष्ठानानां भेदसाधकः = भेदप्रयोजकः । प्रकृते योगदृष्टिसमुच्चयसंवादमाह- 'तभेदादिति। → त दाद् = बुद्ध्यादिभेदात् सर्वकर्माणि इष्टादीनि भिद्यन्ते सर्वदेहिनां, तद्धेतुभेदात् फलभेद इति कृत्वा - (यो.दृ. स.१२० वृत्तिः) इति तद्वृत्तिः ।। ___'रत्नोपलम्भे'त्यादि । 'इदं तेजस्वी'ति सामान्येनेन्द्रियाऽर्थाऽऽश्रया रत्नविषयिणी रत्नस्वरूप-मूल्यप्रभावादिगोचरमीमांसाशून्या बुद्धिः, रत्नशास्त्राद्यभ्यासपूर्वकं ‘इदमिन्द्रनीलरत्नं लक्षमूल्यं भङ्ग-छिद्रादिदोषाऽपेतं तथाविधकान्त्यादिगुणोपेतमिति तु रत्नज्ञानं, तत्पूर्विका च रत्नाऽवाप्तिरसंमोह इति उच्यते । यथा हि उपलम्भादिभेदात् = उपलम्भ-ज्ञान-प्राप्तिभेदात् रत्नग्रहणभेदः = रत्नग्रहणात्मकक्रियाप्रतियोगिकभेदः सिध्यति तथा प्रकृतेऽपि बुद्ध्यादिभेदाद् = बुद्धि-ज्ञानाऽसम्मोहलक्षणकारणभेदाद् अनुष्ठानभेदः फलभेदप्रसाधकः सिध्यति इति । तदुक्तं योगदृष्टिसमुच्चये → रत्नोपलम्भ-तज्ज्ञान-तत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्ध्यादिसिद्धये ।। - (यो.दृ.स.१२२) इति । प्रकृते च → बुद्धिर्ज्ञानमसंमोहः त्रिविधः प्रक्रमः स्मृतः । सर्वकर्माणि भिद्यन्ते तद्भेदाच्च शरीरिणाम् ।। बुद्धिमक्षाश्रयां तत्र ज्ञानमागमपूर्वकम् । तदेव सदनुष्ठानमसंमोहं विदो विदुः ।। દર્શન, રત્નનો નિશ્ચય અને રત્નની પ્રાપ્તિના ઉદાહરણથી બોધ ત્રણ પ્રકારે માન્ય છે. જેમ દર્શન, નિશ્ચય વગેરેમાં ભેદ પડવાથી રત્નને ગ્રહણ કરવાની ક્રિયા પરમાર્થથી બદલાઈ જાય છે તેમ પ્રસ્તુતમાં પણ બુદ્ધિ વગેરે બોધના ભેદથી અનુષ્ઠાનમાં ભેદ પડી જાય છે – આમ સમજવું. (૨૩/૨૩) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy