________________
• क्लिष्टकर्माऽभावे विघ्नाभावः •
१५८९ आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ।।२४।।
आदर इति । आदरो = यत्नाऽतिशय इष्टाऽऽप्तौ । करणे प्रीतिः = अभिष्वगात्मिका। अविघ्नः = करण एवाऽदृष्टसामर्थ्यादपायाऽभावः। सम्पदागमः, तत एव शुभभावपुण्यसिद्धेः । जिज्ञासा' इष्टादिगोचरा । तज्जसेवा च इष्टादिज्ञसेवा ।
चारित्र-दर्शन-ज्ञानतत्स्वीकारो यथाक्रमम् । तत्रोदाहरणं ज्ञेयं बुद्ध्यादीनां प्रसिद्धये ।।
→ (यो.सा.प्रा.८/८१-८३) इति योगसारप्राभृतकारिका अनुसन्धेया मनीषिभिः । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां → जायते भावसाहाय्याद् भूतिदाः ! अन्तरं बहु । सर्वधर्मस्वरूपेषु सत्यं सत्यं ब्रवीमि वः ।।(शं.गी.८३) इति । एतावता दानद्वात्रिंशिकायां (भाग-१ पृ.६२) 'फलभेदौपयिको ज्ञानपूर्वकत्वेन क्रियाभेद' इति यदुक्तं ग्रन्थकृता तदत्र सोदाहरणं व्याख्यातं द्रष्टव्यम् ।।२३/२३ ।।
सदनुष्ठानलक्षणमाह- 'आदर' इति । इयं कारिका ललितविस्तरायां परोक्तत्वेनोद्धृतेत्यवधेयम् (अरिहंत चेइयाणं.. पृ.८१) । श्रीहरिभद्रसूरिभिरेव ब्रह्मसिद्धान्तसमुच्चये (ब्र.सि.३६८) अपीयं कारिकोट्टङ्कितेत्यवधेयं नानाग्रन्थाऽवधारणकुशलैः । यत्नाऽतिशयः = उपादेयबुद्धिगर्भप्रयत्नविशेष इष्टाऽऽप्तौ = स्वाभिमतार्थ-क्रिया-ज्ञान-तदुपकरणाऽन्यतरप्रतियोगिकप्राप्तिविषयको ह्यत्र आदर उच्यते । करणे = निरुक्ताऽऽदरजन्यचेष्टायां अभिष्वङ्गाऽऽत्मिका प्रीतिः ज्ञेया । अविघ्न इति करणे = दर्शितप्रवृत्तौ एव अदृष्टसामर्थ्याद् = योगगोचराऽऽदर-प्रीत्यादिसम्पादितपुण्यविपाकोदयप्रभावाद् अपायाऽभावः = कण्टक-ज्वर-मोहसमाऽखिलाऽन्तरायविरहः । ‘अविघ्न इति सदनुष्ठाननिहतक्लिष्टकर्मतया सर्वत्र कृत्ये विघ्ना-ऽभावः' (ल. वि.प.पृ.८५) इति ललितविस्तरापञ्जिकाकृतः ।
तत एव = दर्शिताऽऽदरोपहितप्रीतिगर्भनिरपाययोगप्रवृत्तित एव शुभभावपुण्यसिद्धेः सम्पदागमः = रत्न-सुवर्ण-धनादिलक्षणाया बाह्यसम्पदो विवक्षितयोगसाधकोपकरण-कल्याणमित्र-सद्गुरु-प्रशस्तक्षेत्रशुभमुहूर्त्त-स्वास्थ्य-पावनशकुन-स्वकीयोत्साहादिलक्षणायाश्चाऽभ्यन्तरसम्पदः प्राप्तिः। इष्टादिगोचरा = स्वाभिमतध्यानादि-तत्साधनादिविषयिणी जिज्ञासा निर्व्याजा तत्त्वाऽद्वेषोपहिता। तज्ज्ञसेवा = इष्टादिज्ञसेवा
વિશેષાર્થ - બુદ્ધિ, જ્ઞાન અને અસંમોહ આ ત્રણ બોધ છઠ્ઠી બત્રીસીમાં જણાવી ગયા તે વિષયપ્રતિભાસ જ્ઞાન, આત્મપરિણતિવાળું જ્ઞાન અને તત્ત્વસંવેદન જ્ઞાન - આ ત્રણ જ્ઞાનસમાન ક્રમશઃ બને છે. આ વાત પણ વાચકવર્ગે ધ્યાનમાં લેવી. પ્રથમ બત્રીસીના ૩૧ મા શ્લોકમાં “ભાવ બદલવાથી ક્રિયા બદલી જાય છે આ વાત કરી હતી તે પણ અહીં ધ્યાનમાં લેવી.(૨૩/૨૩)
હ સદનુષ્ઠાનનું લક્ષણ છે ગાથાર્થ :- આદર, કરવામાં પ્રીતિ, વિપ્નનો અભાવ, સંપત્તિનું આગમન, જિજ્ઞાસા, તેના જાણકારની सेवा में सहनुपाननु सक्षए। छ. (२३/२४)
ટીકાર્થ:- ઈષ્ટ એવા અનુષ્ઠાનની પ્રાપ્તિમાં વિશેષ પ્રકારનો પ્રયત્ન એટલે આદર. તથા અનુષ્ઠાનને કરવામાં અત્યંત રાગાત્મક પરિણતિ એટલે પ્રીતિ. પ્રસ્તુત આરાધનાની પ્રવૃત્તિમાં કોઈ વિઘ્ન ન આવે. કારણ કે પ્રીતિપૂર્વક કરાયેલ અનુષ્ઠાનથી ઊભું થયેલ પુણ્ય વિઘ્નને દૂર કરે તેવું સામર્થ્ય ધરાવે છે.
१. हस्तादर्श .ज्ञासा चेष्टा' इति पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org