SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १५८० • सर्वज्ञवचनरुच्या कर्मतानवम् • द्वात्रिंशिका-२३/१८ एकः प्रभुः = उपास्यः । तदुक्तं → “यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूराऽऽसन्नादिभेदेऽपि तद्धृत्याः सर्व एव ते ।। सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाऽऽचारस्थिता अपि ।। तदुक्तं सिद्धसेनदिवाकरसूरिभिः परमात्मद्वात्रिंशिकायां → विधि-ब्रह्म-लोकेश-शम्भु-स्वयम्भू-चतुर्वक्त्रमुख्याभिधानां विधानम् । ध्रुवोऽथ य ऊचे जगत्सर्गहेतुः स एकः परात्मा गति, जिनेन्द्रः ।। (प.द्वा.७) इति । मुनिसुन्दरसूरिभिरपि गुर्वावल्यां → त्वं शङ्करः सर्वजनेष्टकर्ता, ब्रह्मा त्वमेवाऽखिलब्रह्मनिष्ठः – (गुर्वा.२४७) इत्युक्तम् । श्रीहेमचन्द्रसूरिभिरपि अयोगव्यवच्छेदद्वात्रिंशिकायां → यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया। वीतदोषकलुषः स चेद् भवानेक एव भगवन्नमोऽस्तु ते ।। - (अयो.द्वा. ३१) इत्युक्तमिति पूर्वोक्तं(पृ.२१५) इहानुसन्धेयम् । अर्हन्नामसहस्रसमुच्चयेऽपि → महाजिनो महाबुद्धो महाब्रह्मा महाशिवः। महाविष्णुर्महाजिष्णुर्महानाथो महेश्वरः ।। - (अर्हना. ६/२) इत्येवं पर्यायशब्दसङ्ग्रहो दर्शित इत्येक एव स इति स्थितम् । इत्थं च नानाऽऽस्तिकदर्शनस्थितानां यथाऽवबोधं यथाशक्ति च सर्वज्ञोक्तवाक्याऽनुसरणे सहजमलक्षयचारित्राऽपवर्गाद्युपलब्धिरप्यनाविलैवोपपद्यते । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां वैराग्यरतौ च → आस्तिकेषु च तीर्थेषु, कर्मरोगस्य तानवम् । यद् दृश्यते यश्च सर्वमोक्षो वा श्रूयते क्वचित् ।। सोऽपि स्वशास्त्रबद्धानां सर्वज्ञवचसां गुणः । अपुनर्बन्धकस्य स्यात्, तद्रुच्या कर्मतानवम् ।। अनुष्ठानं हि तस्योक्तं, चित्रं दर्शनभेदतः । त्यक्तविप्रतिपन्नाशं, पर्यवस्यत् फलोदये ।। तस्य सर्वेकवाक्यत्वादहिंसाद्येव सम्मतम् । तत्त्वं निरञ्जनो देवो, गुरुर्ग्रन्थविवर्जितः ।। इत्थं सदोघसंज्ञानात्, सत्यार्थपदरोचके । सूक्ष्मबोधं विनाऽपि स्यात्, कर्मरोगस्य तानवम् ।। अतिशुद्धिवशाद् भावसम्यक्त्वादिक्रमेण तु । जायेत सर्वमोक्षोऽपि, जिनवाक्याऽनुसारिणाम् ।। 6 (वै.क.९/९८८-९९३, वै.रति.८/९८६-९१) इति । पूर्वमुक्तोऽपि(भा.४ पृ.११२८)कारिकाप्रबन्धोऽयं मन्दधीकृते पुनरुक्त इत्यवधेयम् । प्रकृते → येनांशेन जयेन्मोहं भवेज्जैनस्तदंशतः - (म.गी. १५/ ११२) इति महावीरगीतावचनमप्यनुस्मर्तव्यम् । प्रकृते कारिकात्रितयेन योगदृष्टिसमुच्चयसंवादमाह- 'यथेति, ‘सर्वज्ञेति, 'नेति च । तद्व्याख्या चैवम् → यथैवैकस्य नृपतेः कस्यचिद्विवक्षितस्य, बहवोऽपि समाश्रिताः पुमांसो, दूराऽऽसनादिभेदेऽपि सति तथा नियोगादिभेदेन कृते, तभृत्या = विवक्षितनृपतिभृत्याः, सर्व एव ते समाश्रिता इति (यो.दृ.स. १०७वृ.) दार्टान्तिकयोजनामाह सर्वज्ञतत्त्वाऽभेदेन = यथोदितनीत्या हेतुभूतेन- तथा नृपतिसमाश्रितबहुपुरुषवत् सर्वज्ञवादिनः सर्वे जिनादिमतभेदावलम्बिनः तत्तत्त्वगाः = सर्वज्ञतत्त्वगाः ज्ञेया भिन्नाचारस्थिता अपि तथाऽधिकारभेदेनेति (यो.दृ.स.१०८ वृ.) । उपसंहरन्नाह न भेद एव तत्त्वेन = परमार्थेन યોગીઓ અરિહંત, બુદ્ધ, કપિલ વગેરે નામ આદિના ભેદથી એક જ પરમાત્માની ઉપાસના કરે છે. તેથી જ યોગદષ્ટિસમુચ્ચય ગ્રંથમાં કહેલ છે કે “જેમ અનેક પુરુષો એક રાજાની નોકરી કરવા દ્વારા એક રાજાનો આશ્રય કરે તેમાં અમુક સેવકો રાજાની સેવા દૂર રહીને કરતા હોય, કોઈ નજીક રહીને સેવા કરતા હોય. આવો ભેદભાવ હોવા છતાં પણ તે બધા જ એક જ રાજાના સેવક ગણાય તેમ બધા જ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy