________________
सर्वयोगिषु सर्वज्ञसेवकत्वाऽभेदः
अवान्तरभेदस्तु सामान्याऽविरोधीत्याहदूराऽऽसन्नादिभेदस्तु' 'तद्भृत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाऽऽचारेष्वपि प्रभुः । । १८ ।।
दूरेति । दूराssसन्नादिभेदस्तु तद्भृत्यत्वं सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाऽविशेषवत् प्रकृतोपपत्तेः । भिन्नाऽऽचारेष्वपि = तथाऽधिकारभेदेन नानाविधाऽनुष्ठानेष्वपि योगिषु नामादीनां = अर्हदादिसंज्ञादीनां भेदेन ( = नामादिभेदेन) कदाग्रहग्रस्ताऽन्तःकरणानामपि दुष्करतपश्चर्यादिकारिणां न परमार्थतो मुख्यसर्वज्ञप्रतिपत्तिः सम्भवतीत्यपि द्योतितम् । तदुक्तं योगसारे
ममैव देवो देवः स्यात् तव नैवेति केवलम् । मत्सरस्फुर्जितमेतदज्ञानानां विजृम्भितम् ।। मदीयं दर्शनं मुख्यं पाखण्डान्यपराणि तु । मदीय आगमः सारः परकीयास्त्वसारकाः ।। तात्त्विका वयमेवाऽन्ये भ्रान्ताः सर्वेऽप्यतात्त्विकाः । इति मत्सरिणो दूरोत्सारितास्तत्त्वसारतः ।।
← (यो.सा. २/३७,९-१० ) इति ।।२३ / १७ ।।
ननु विभिन्नदर्शनस्थितानां नानाविधदेवाऽभ्युपगन्तॄणां मिथोविलक्षणाऽनुष्ठाननिरतानां सर्वेषां मुमुक्षूणामपुनर्बन्धकाद्यवस्थाशालिनां कथं तुल्यता भाव्यमाना समीचीना स्यादिति चेत् ? मैवम्, यतः अवान्तरभेदस्तु मिथो विभिन्नदर्शनस्थितत्व-विविधदेवाऽभ्युपगन्तृत्व-विचित्राऽनुष्ठाननिरतत्वादिलक्षणाऽवान्तरविशेषस्तु तेषु योगिषु सामान्याऽविरोधी = मुख्यसर्वज्ञभक्तत्वलक्षणाऽनुगतधर्माऽप्रतिक्षेपी इति आशयवान् ग्रन्थकार आह- ‘दूरे’ति । एकभृत्यत्वाऽविशेषवत् = अभिन्ननृपनिष्ठस्वामित्वनिरूपितसेवकत्वाऽभेदवत् । तथाऽधिकारभेदेन स्वद्रव्य-क्षेत्र-काल-क्षयोपशमप्रभृतिसापेक्षयोगभूमिकाविभेदवशेन नानाविधानुष्ठानेष्वपि हठयोग-समाधियोग- मन्त्रयोग-ध्यानयोग-लययोग-राजयोग-ज्ञानयोग-भक्तियोग- तपोयोग-नादयोगाऽऽनन्दयोगाद्यनुसारिविविधाऽऽचारवत्स्वपि योगिषु अर्हदादिसंज्ञादीनां = अर्हद् - विधि-ब्रह्म-लोकेशादिसंज्ञा-संस्थानादीनां विशेषेण एक एव सर्वज्ञताऽऽ लिङ्गितः प्रभुः उपास्यः = परमोपास्यतयाऽभिमतः ।
=
1
=
=
•
=
भेदेन
सर्वज्ञना लडत छे. खावुं बुद्धिशाणी मानवुं भेजे. (२३/१७)
સર્વજ્ઞવાદીઓમાં રહેલ અવાંતર ભેદ તો તે સર્વમાં સર્વજ્ઞભક્તત્વ સ્વરૂપ અનુગત ગુણધર્મનો વિરોધી નથી' - એવું જણાવવા માટે ગ્રંથકારશ્રી કહે છે કે
ગાથાર્થ :- સર્વજ્ઞથી દૂરપણું, નજીકપણું વગેરે અવાન્તર ભેદ અલગ-અલગ ધર્મમાં રહેલા મુમુક્ષુઓમાં રહેલા હોવા છતાં સર્વજ્ઞસેવકત્વ નામના ગુણધર્મને ખતમ કરતો નથી. કારણ કે વિભિન્ન આચારવાળા યોગીઓએ પણ નામાદિ ભેદથી એક જ પ્રભુને સ્વીકાર્યા છે. (૨૩/૧૮)
ટીકાર્થ :- આત્મભૂમિકાને સાપેક્ષ જુદા-જુદા પ્રકારની યોગ્યતાને લીધે (તથાધિકારભેદેન) અલગ-અલગ અનુષ્ઠાનને કરનારા યોગીઓમાં સર્વજ્ઞથી દૂરવર્તીત્વ, સમીપવર્તીત્વ વગેરે રૂપે તફાવત હોવા છતાં તે તફાવત તેમનામાં સર્વજ્ઞનું ઉપાસકપણું દૂર ન કરે. જેમ એક જ રાજાની અનેક પ્રકારની સેવા કરનારા સેવકોમાં એક રાજાનું સેવપકર્ણ સમાન છે તેમ ઉપરોક્ત વાત સંગત થઈ શકે છે. અલગ-અલગ દર્શનમાં રહેલા १. हस्तादर्शे - मुद्रितप्रतिषु च '...भेदोऽपि ' इति पाठः । परं व्याख्यानुसारेणात्र 'भेदस्तु' इति पाठः समीचीनः । २. हस्तादर्शे ' तद्भत्यं' इत्यशुद्धः पाठः ।
Jain Education International
१५७९
For Private & Personal Use Only
www.jainelibrary.org