________________
१८१६
• योगिसामर्थ्यदर्शनम्
द्वात्रिंशिका -२६/१५
सर्वत्र प्रभविष्णुता वशित्वम्, यतः सर्वाण्येव भूतानि वचनं नाऽतिक्रामन्ति । यत्रकामाऽवसायित्वं स्वाऽभिलषितस्य समाप्तिपर्यन्तनयनम् ।
=
२३ वृ.) इति । 'तेषां = भूतभौतिकानां विजितमूलप्रकृतिः सन् यः प्रभवः = उत्पादो यश्चाऽऽप्ययः विनाशो यश्च व्यूहः यथावदवस्थापनं तेषामीष्टे' (त. वे. ३/४५) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । तेषां भूतानां तन्मात्रद्वारकोत्पत्ति-विनाशयोः व्यूहाऽऽख्यसंस्थानविशेषे च समर्थो भवति, भूतानां मूलप्रकृतिविजयादिति (यो. वा. ३/४५) योगवार्तिके विज्ञानभिक्षुः । मानसोल्लासे तु स्वेच्छामात्रेण लोकानां सृष्टि-स्थित्यन्तकर्तृता । सूर्यादिना नियोक्तृत्वमीशित्वमभिधीयते ।। ← ( मान. १० / १६ ) इत्येवं तल्लक्षणमुक्तम् । अप्रतिहतैश्वर्यं ईशित्वम् । ईशित्वेन दैवतानप्यतिशेते ← (दे.स्मृ.२४२५
२६) इति तु देवलस्मृतौ ।
=
=
=
=
सूक्ष्मविषयसंयमजयात् सिद्धिमाह - सर्वत्र प्रभविष्णुता वशित्वं यतः यद्वशात् सर्वाण्येव भूतानि वचनं नाऽतिक्रामन्ति । 'वशिता च गुणानां भूत-भौतिकानां वश्यत्वमिति ( भा.ग. ना.भ.३ / ४५वृ.) भावागणेश-नागोजीभट्टौ । 'भूतनियन्तृत्वं = वशित्वमिति (यो. सुधा., म.प्र. ३ / ४५) योगसुधाकर - मणिप्रभाकृतौ । ‘सर्वतः प्रभविष्णुत्वं = वशित्वं सर्वभूतानि तदुक्तं नातिक्रामन्ती ति ( चं. ३ / ४५) चन्द्रिकायां अनन्तदेवः । योगसूत्रभाष्ये तु वशित्वं भूत-भौतिकेषु वशी भवति, अवश्यश्चाऽन्येषाम् ← (यो. भा. ३ / ४५ ) इति व्यास आह । 'भूतानि पृथिव्यादीनि, भौतिकानि गो-घटादीनि तेषु वशी स्वतन्त्रो भवति । तेषां त्ववश्यः, तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात् तत्कार्यवशीकारः । तेन यानि यथाऽवस्थापयति तानि तथावतिष्ठन्ते' (त.वै.३/४५) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । साङ्ख्यतत्त्वकौमुद्यां तु तेनैव वशित्वं यतो भूत-भौतिकं वशीभवति अवश्यम् ← (सां. का. २३ वृ.) इत्येवं सामान्यरूपेणोक्तम् । योगवार्तिककृत्तु → भूतेषु = व्यष्टिषु, भौतिकेषु = तत्कार्येषु समष्टिमहाभूतेषु ब्रह्माण्डादिषु चेति व्याख्येयम् ← (यो. वा. ३ / ४५ ) इत्याह । आत्मवश्यता = वशित्वम् । वशित्वेनाऽपरिमितायुर्वश्यजन्मा च भवति ← (दे.स्मृ.२४२७-२८ ) इति तु देवलस्मृतौ ।
अर्थवत्त्वसंयमस्य सिद्धिमाह - यत्रकामावसायित्वमिति । 'सत्यसङ्कल्पत्वं
=
=
•
=
=
=
= यत्कामः तदवस्यति प्राप्नोति' (भा.ग.३/४५) इति भावागणेशमतम् । यत्रकामावसायित्वमिति तान्त्रिकी परिभाषा, पुराणेष्वप्येवमवगमात्। ततश्च यत्रकामावसायित्वं सत्यसङ्कल्पता, यथा सङ्कल्पः तथा गुणतन्मात्रादीनां भूतप्रकृतीनामवस्थानम् । विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया सङ्कल्पयति तत् तस्मै प्रयोजनाय कल्पते । विजितार्थसम्बन्धो हि योगी यद्यदर्थतया यद् वस्तु सङ्कल्पयति तत्तद्वस्तु तदर्थकमेव भवतीत्यर्थः। विषमप्यमृतकार्ये सङ्कल्प्य भोजयन् जीवलोकं जीवयति = सुखाकरोति । स्यादेतत्- यथा शक्तिविपर्यासं करोति एवं पदार्थविपर्यासमपि कस्मान्न करोति ? तथा च योगी जलमपि तेजः कुर्याद् धर्ममप्यधर्मं कुर्यात्, चन्द्रमसमादित्यं कुर्यात् कुहूँश्च सिनीवालमित्यव्यवस्थैव स्यादिति चेत् ? अत्रोच्यते पूर्व-पूर्वयोगिव्यवहाराऽनुसारेणैव योगी व्यवहरति । न च शक्तोऽपि पदार्थविपर्यासं करोति, अन्यथा तुल्यबलविरोधेन व्यवहाराऽसम्भवात् । तथाहि अन्यस्य यत्रकामावसायिनः पूर्वसिद्धस्य तथाभूतेषु यथाસામર્થ્ય. સર્વત્ર નિયંત્રણ ક૨વાનું સામર્થ્ય એટલે વશિત્વ. તેના લીધે તમામ પૃથ્વી આદિ ભૂત તત્ત્વો યોગીના વચનનું ઉલ્લંઘન નથી કરતા. યત્રકામાવસાયિત્વ એટલે પોતે ઈચ્છેલા કાર્યને યોગી સમાપ્તિ સુધી પહોંચાડે છે. યોગીના ઈચ્છિત કાર્ય આ લબ્ધિના પ્રભાવે અધૂરા નથી રહેતા. આ આઠ લબ્ધિઓ ભૂતવિજય દ્વારા પ્રગટે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-