SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ • अर्थभेदाऽकरणेऽपि तथादर्शनसामर्थ्यम् • १८१७ कायसम्पच्च उत्तमरूपादिलक्षणा “रूप-लावण्य-बल-वज्रसंहननत्वानि कायसम्पत्" (यो.सू. ३-४६) इत्युक्तेः । तद्धर्माऽनभिघातश्च तस्य कायस्य धर्माः = रूपादयस्तेषामभिघातो = नाशस्तदभावश्च दृष्टेष्वेव सङ्कल्पादिति । तथा च ऋग्वेदोक्तिः ‘धाता यथापूर्वमकल्पयत्' (ऋ.वे.१०/१९०/३) इति । स्वनियमपालनार्थमन्तर्यामिणा तथैव सिद्धः प्रेर्यते इति द्रष्टव्यम् । ततश्च न खल्वेते यत्रकामावसायिनः तत्रभवतः परमेश्वरस्याऽऽज्ञामतिक्रमितुमुत्सहन्ते । शक्तयस्तु पदार्थानां जाति-देश-कालावस्थाभेदेनाऽनियतस्वभावा इति युज्यते तासु तदिच्छानुविधानमिति (यो.वा.३/४५) योगसूत्रभाष्यवार्तिक-तत्त्ववैशारदीकृन्मतम् । 'सत्यसङ्कल्पोऽपि चन्द्रमसमादित्यं न करोति, ईश्वरेच्छाऽनुविधानात् ईश्वरसङ्कल्पविरुद्धसङ्कल्पाऽकरणात् । तथा सति तत्पद्वेषेण सिद्धितः च्यवेरन्' (ना.भ.३/४५ वृ.) इति नागोजीभट्टः । वयन्तु ब्रूमः - चन्द्रमसमादित्यत्वेनाऽमकुर्वन्नपि लोकानां तथा दर्शयितुं तु शक्नोत्येव प्रयोजनविशेषेण । इत्थमेव श्रीहेमचन्द्रसूरिवराणाममावास्यायां रात्रौ राकानिशाकरोपदर्शनमुपपद्यत इति ध्येयम् । → यत्रकामावसायित्वं त्रिविधम् । छायावेशः, अवध्यानावेशः, अङ्गप्रवेश इति। यत् परस्य छायाप्रवेशमात्रेण चित्तं वशीकरोति, स छायावेशः । यद् दूरस्थानामप्यनुध्यानेन चित्ताधिष्ठानं, सोऽवध्यानावेशः । यत् सजीवस्योभिस्ते(त्क्रान्त)जीवस्य वा शरीरानुप्रवेशनं सोऽङ्गप्रवेशः । यत्र कामावसायित्वेन मूर्त्तद्रव्यं चाधितिष्ठतीति ऐश्वर्यावस्थानम् । तच्च प्रकृतिपुरुषोत्तरहेतोर्धर्मतेजोज्ञानविशेषात् । सातिशयेन सम्भूतं चैश्वर्याद् भवतीति - (द.स्मृ.२४२९/...२४३६) इति तु देवलस्मृतौ । कायसम्पत्सिद्धौ योगसूत्रसंवादमाह- 'रूपे'ति । 'चक्षुःप्रियं रूपम्, सर्वाङ्गसौन्दर्यं = लावण्यम्, वीर्यं = बलम, वज्रस्येव संहननं = अवयवव्यहो यस्य तद्भावः = वज्रसंहननत्वम् । तच्च हनुमति प्रसिद्धमिति (यो.सुधा.३/४६) योगसुधाकरे सदाशिवेन्द्रः । 'वज्रस्येव संहननं = प्रहारो यस्येति, वज्रवद् निबिडः = दृढः सङ्घातो यस्येति वा वज्रसंहननः' (यो.वा.३/४६) इति योगवार्तिके विज्ञानभिक्षुः । अणिमादिसिद्धिप्रभृतौ योगसूत्रसंवादमाह- 'तत' इति । अत्र राजमार्तण्डवृत्तिरेवम् → अणिमा = परमाणुरूपताऽऽपत्तिः। महिमा = महत्त्वम् । लघिमा = तूलपिण्डवल्लघुत्वप्राप्तिः । गरिमा = गुरुत्वम् । प्राप्तिः = अमुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः । प्राकाम्यं = इच्छानभिघातः । शरीरान्तःकरणेश्वरत्वं = ईशित्वम् । सर्वत्रैव प्रभविष्णुता = वशित्वम्, सर्वाण्येव भूतानि अनुगामित्वात् तदुक्तं नाऽतिक्रामन्ति । यत्रकामावसायः = यस्मिन् विषये अस्य कामः = इच्छा भवति यस्मिन् विषये योगिनो व्यवसायो भवति तं विषयं स्वीकारद्वारेणाऽभिलाषसमाप्तिपर्यन्तं नयतीत्यर्थः । त एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद् योगिनः प्रादुर्भवन्ति । यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति । एवं सर्वत्र योज्यम् । त एतेऽणिमादयोऽष्टौ गुणा महासिद्धय उच्यन्ते । कायसम्पत् वक्ष्यमाणा तां प्राप्नोति । तद्धर्मानभिघातश्च तस्य कायस्य ये धर्मा रूपादयः तेषां अभिघातः = नाशो न कुतश्चिद् भवति । नाऽस्य रूपमग्निर्दहति, न वायुः शोषयति इत्यादि योज्यम् ( (रा.मा.३/४५) इति । 'अणिमादिप्रादुर्भाव' इत्यनेनैव तद्धर्माऽनभिघातसिद्धौ पुनरुपादानं कायसिद्धिवदेतत् सूत्रोपनिबद्ध___ काय.। पांय (भूत ७५२ विय भेगवाथी उत्तम ३५ वगैरे स्व३५ हेडसंपत्ति ५९ प्रगटे छे. કેમ કે યોગસૂત્રમાં કહેલ છે કે “રૂપ, લાવણ્ય, બલ, વજ જેવું સંઘયણ દેહસંપત્તિ કહેવાય છે.' તથા પૃથ્વી વગેરે પાંચેય ભૂત ઉપર વિજય મેળવવાના લીધે કાયાના રૂપાદિ ગુણધર્મોનો નાશ થતો નથી. તે યોગીના રૂપને અગ્નિ બાળી શકતો નથી. પાણી તેને ભીંજવી ન શકે. વાયુ તેના શરીરના વૈભવનું For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy