________________
• अणिमादिसिद्धौ नानामतप्रतिपादनम् •
१८१५
लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । महिमा महत्त्वप्राप्तिः अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता । प्राकाम्यमिच्छाऽनभिघातः । शरीराऽन्तःकरणयोः ईशित्वम् ।
महामेरुसमाऽङ्गस्य समुद्धरणकर्मणि । अत्यल्पत्वमतुल्यत्वं लघिमेति प्रकीर्त्यते ।। ← (मा.१०/११ ) इति मानसोल्लासे तल्लक्षणम् । शरीराऽऽशुगामित्वं लघिमा । तेनाऽतिदूरस्थानपि क्षणेनाऽऽसादयति ← (दे.स्मृ. २४१९-२० ) इति तु देवलस्मृतौ ।
=
'महिमा योजनादिव्याप्तित्वमि'ति (भा.ग., ना.भ. ३/४५ वृ.) भावागणेश- नागोजीभट्टौ । ब्रह्माण्डादिशिवान्तायाः षट्त्रिंशत् तत्त्वसंहृतेः । भवाश्च व्याप्यवृत्तित्वमैश्वर्यं महिमाऽऽह्वयम् ।। ← ( मान. १०/१० ) इति मानसोल्लासकृत् ।
'विभुत्वं = महिमा' (यो.सुधा.३/४५) इति योगसुधाकर - मणिप्रभाकृतौ । 'महिमा = महान् भवती 'ति (यो.सू.भा.३/४५) योगसूत्रभाष्यकृत् । 'महिमा महत्त्वं' (चं.३/४५) इति चन्द्रिकाकृत् । 'महिमा अल्पोऽपि ग्राम-नगर-गगनपरिमाणो भवति' (त. वे. ३/४५) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । राजमार्तण्डवृत्तिकृन्मते- महिमा = महत्त्वप्राप्तिः, ततश्च भूमिस्थस्यैव अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता, अवयवोपचयेनाऽङ्गुलिदैर्घ्यादिति योगवार्तिके विज्ञानभिक्षुः । वाचस्पतिमिश्रेण तु साङ्ख्यतत्त्वकौमुद्यां महतो भावः, यतो महान् भवति । प्राप्तिः यतोऽङ्गुल्यग्रेण स्पृशति चन्द्रमसम्← (सां.का.२३ वृ.) इत्येवं महिमा - प्राप्त्योः भेदो दर्शित इत्यवधेयम् । शरीरमहत्त्वं महिमा । महत्त्वात् सर्वशरीराण्यावृणोति ← (दे.स्मृ. २४१७-१८ ) इति तु देवलस्मृतौ ।
→ महिमा
=
'इमाः चतस्रः आद्याः सिद्धयः स्थूलसंयमजयाद् भवन्ती 'ति (त. वै.३ / ४५ ) वाचस्पतिमिश्रः । स्वरूपसंयमविजयात् सिद्धिमावेदयति- प्राकाम्यं = इच्छाऽनभिघातः । सत्यामिच्छायां नास्य रूपं भूतस्य रूपैः मूर्त्यादिभिः विहन्यते, भूतस्वरूपाणां जितत्वात् । ततश्च जलमिव भूमिमुद्भिद्योत्तिष्ठति, जलवद् भूमौ प्रविशति चेत्येवमादिः प्राकाम्यमिति (यो.वा.३/४५) योगवार्तिककृन्मतम् । 'प्राकाम्यं श्रुत-दृष्टेष्विच्छानभिघातः यथा भूमौ जलेष्विव निमज्जतीत्यादी ति ( ना.भ. ३ / ४५ वृ.) नागोजीभट्टः । → आकाशगमनादीनामन्यासां सिद्धिसम्पदाम् । स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते ।। ( मान. १०/१४) स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् । प्राकाश्यमिदमैश्वर्यमिति केचित् प्रचक्षते ।। ← (मान. १०/१५) इति तु मानसोल्लासकारः । यथेष्टचारित्वं = प्राकाम्यम् । प्राकाम्येन सर्वभोगवरानाप्नोति ← (दे.स्मृ.२४२३-२४ ) इति तु देवलस्मृतौ ।
अन्वयविषयसंयमविजयात् सिद्धिमाह - ' शरीराऽन्तःकरणयोः ईश्वरत्वं = ईशित्वम् । 'ईशित्वं सर्वेषां भूतभौतिकानां शरीरवत् सङ्कल्पमात्रेण प्रेरणम्' (भा.ग.३ / ४५ वृ.) इति तु भावागणेश - नागोजीभट्टौ । 'भूतस्रष्टृत्वं ईशित्वमिति (यो.सुधा.३/४५) योगसुधाकर - मणिप्रभाकृतौ । योगसूत्रभाष्ये व्यासस्तु → ईशितृत्वं तेषां प्रभवाऽऽप्ययव्यूहानामीष्टे ← (यो.भा.३/४५) इत्याह । तदुक्तं वाचस्पतिमिश्रेणाऽपि साङ्ख्यतत्त्वकौमुद्यां ईशित्वं यतो भूत - भौतिकानां प्रभव-स्थितिमीष्टे ← (सां.का. રૂનો ઢગલો જેમ હળવો હોય તેમ યોગીનો દેહ હળવોફૂલ થઈ જાય તે લધિમા લબ્ધિ. યોગીશરીરમાં મહત્ત્વ-મોટાપણું આવે તે મહિમા લબ્ધિ કહેવાય. આ લબ્ધિના કારણે યોગીનું શરીર એટલું બધુ વિશાળ-ઊંચું બને કે જમીન ઉપર ઊભા રહેલા યોગી આંગળીના ટેરવાથી ચંદ્ર વગેરેનો સ્પર્શ કરવાનું સામર્થ્ય ધરાવે છે. પ્રાકામ્ય એટલે ઈચ્છાનો વિદ્યાત ન થવો. શરીર અને અંતઃકરણમાં ઈશિત્વ એટલે નિયંત્રણ કરવાનું અમોઘ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
=
=
=
=
=