________________
१८१४
योगिसङ्कल्पानुसारीणि भूतानि •
द्वात्रिंशिका -२६/१५
वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः । तदुक्तं- “ स्थूल - स्वरूप सूक्ष्माऽन्वयाऽर्थवत्त्व संयमाद् भूतजयः " ( यो. सू. ३-४४) इति ।
अस्माद् भूतजयाद् अणिमादिकं भवति । (१) अणिमा, (२) गरिमा, (३) लघिमा, (४) महिमा, (५) प्राकाम्यम्, (६) 'ईशित्वम्, (७) वशित्वम्, (८) यत्रकामावसायित्वं चेत्यणिमादिकम् । तत्राऽणिमा परमाणुरूपताऽपत्ति: । गरिमा वज्रवद् गुरुत्वप्राप्तिः ।
स्वकार्यं कारणत्वेनान्वेतीत्यन्वयो गुणत्रयम् । भोगाऽपवर्गज्ञानसामर्थ्यं गुणनिष्ठमर्थवत्त्वम् । तेषु पञ्चरूपेषु स्थूलादिक्रमेण संयमाद् भूतानि योगिसङ्कल्पाऽनुसारीणि भवन्ति धेनवो वत्सानुसारिण्य इव ← (यो. सुधा. ३/४४) इत्येवं वर्तते ।
=
भूतजयाद् निरुक्तरूपाद् अणिमादिकं भवति । तालुमूलोर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तद् योगिभिर्थ्येयम् । तस्मादणिमादिसिद्धिर्भवति ← ( अद्व. पृ. २) इति तु अद्वयतारकोपनिषत्कारः । द्रव्यादिसाध्यत्वमणिमादेरित्यपरे । तदुक्तं रामगीतायां द्रव्यादिसाध्या अष्टौ यदणिमाद्याश्च सिद्धयः ← ( रा.गी. १६ / ४ ) इति । प्रकृते मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् । क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् ।। अल्पबुद्धिरिमं योगं सेवते साधकाऽधमः । । ← (यो.त.२१-२२) इति योगतत्त्वोपनिषद्वचनमपि यथातात्पर्यमनुयोज्यम् । प्रकृतसिद्धिव्याख्यानायाह- तत्र अष्ट सिद्धिषु मध्ये अणिमा सिद्धिः महतोऽपि सतः परमाणुरूपताऽऽपत्तिः । स्वेच्छया यदणुपरिमाणशरीरो भवति, तदणिमा । सङ्कल्पमात्रेण तत्क्षणादेवाऽवयवाऽपचयेन सौक्ष्म्यं देहस्य भवति, भूतप्रकृतिवशित्वादिति (यो.वा.३/४५) योगवार्तिके विज्ञानभिक्षुः । तदुक्तं देवलस्मृतौ अपि (दे. स्मृ. २४१५) इति, अणुभावात् सूक्ष्माण्यप्याविशति ← (दे. स्मृ. २४१६) इति च । अणिमा = अणुभावः, यतः शिलामपि प्रविशति ← (सां.का. २३ वृ.) इति साङ्ख्यतत्त्वकौमुद्यां वाचस्पतिमिश्रः । गरिमा सिद्धिस्तु वज्रवद् गुरुत्वप्राप्तिः । 'मेरुवद् गुरुत्वं = गरिमा' (म.प्र.३/४५) इति मणिप्रभाकृत् । → परमाणुसमाऽङ्गस्य समुद्धरणकर्मणि । गौरवे मेरुतुल्यत्वं गरिमाणं विदुर्बुधाः ।। ← ( मा. १०/१२) इति मानसोल्लासकारः ।
अणुशरीरत्वं = अणिमा
=
लघिमा तूलपिण्डवत् लघुत्वप्राप्तिः । 'महानपि लघुर्भूत्वेषीकातूल इवाऽऽकाशे विहरति ' (त.वै.३/४५) इति वाचस्पतिमिश्रः तत्त्ववैशारद्याम् । साङ्ख्यतत्त्वकौमुद्यां तु वाचस्पतिमिश्रेणैव → लघिमा लघुभावः, यतः सूर्यमरीचीनालम्ब्य सूर्यलोकं याति ← (सां. का. २३ वृ.) इत्युक्तम् । → વાછરડાને અનુસરે તેમ, પાંચેય ભૂતની પ્રકૃતિ યોગીના સંકલ્પને અનુસરે છે. તેથી જ યોગસૂત્ર ગ્રન્થમાં કહેલ છે કે → ‘સ્થૂલ, સ્વરૂપ, સૂક્ષ્મ, અન્વય અને અર્થવત્ત્વ- આ પાંચેય અવસ્થાવાળા પૃથ્વી આદિ પંચ ભૂતને વિશે ધારણા-ધ્યાન-સમાધિને કેન્દ્રિત કરવાથી પંચ ભૂત ઉપર વિજય પ્રાપ્ત થાય છે.' ←
♦ અણિમાદિ લબ્ધિઓનો
પ્રાદુર્ભાવ
अस्माद्. । २॥ पंयत्भूतविश्यना अरसे अशिया वगेरे सब्धिजो अगटे छे. आ आठ सब्धिसोना नाम खा भुज छे. - (१) अशिमा, (२) गरिमा, (3) सधिमा, (४) महिमा, (4) आसभ्य, (६) ईशित्व, (७) वशित्व, (८) यत्रामावसायित्व तेमां अशिमा सब्धि भेटले योगीनुं शरीर परमाशु જેવું સૂક્ષ્મ બની જાય. રિમા એટલે વજ્રની જેમ યોગી શરીર ભારેખમ થઈ જાય.
=
•
=
१. मुद्रितप्रतौ 'ईशत्वं' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org