SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ • विषयवती ज्योतिष्मती च प्रवृत्तिः • १७९३ बलेषु च = हस्त्यादिसम्बन्धिषु संयमात् हस्त्यादीनां बलान्याविर्भवन्ति सर्वसामर्थ्ययुक्तत्वात्, नियतबलसंयमेन नियतबलप्रादुर्भावात् । एवं विषयवत्या ज्योतिष्मत्याश्च प्रवृत्तेः सात्त्विकप्रकाशप्रसरस्य विषयेषु संन्यासात् सूक्ष्म-व्यवहित-विप्रकृष्टाऽर्थज्ञानमपि द्रष्टव्यम्, सान्तःकरणेन्द्रियाणां प्रशक्तिकमयं प्रतिपद्यते - (रा.मा.३/२३) इत्येवं वर्तते । शाण्डिल्योपनिषदि तु → सञ्चितकर्मणि चित्तसंयमात् पूर्वजातिज्ञानम् - (शां.१/६९) इत्युक्तमित्यवधेयम् । ___ योगसूत्रभाष्ये व्यासस्तु → मैत्री-करुणा-मुदितेति तिस्रो भावनाः । तत्र सुखितेषु मैत्री भावयित्वा मैत्रीबलं लभते । दुःखितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्यः स संयमः, ततो बलानि अवन्ध्यवीर्याणि जायन्ते । पापशीलेषु उपेक्षा, न तु भावना । ततः च तस्यां नास्ति समाधिः इत्यतो न बलमुपेक्षातः तत्र संयमाऽभावाद् - (यो.सू.भा.३/२३) इत्याह । भावागणेश-नागोजीभट्ट-रामानन्दादीनामप्ययमेवाऽभिप्रायः । सिद्धयन्तरमाह- बलेषु इति । योगसूत्रसंवादमाह- 'बलेषु' इति । अत्र राजमार्तण्डव्याख्या → हस्त्यादिसम्बन्धिषु बलेषु कृतसंयमस्य तबलानि हस्त्यादिबलानि आविर्भवन्ति । तदयमर्थः- यस्मिन् हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावेनाऽयं संयमं करोति तत्तत्सामर्थ्ययुक्तं सत्त्वमस्य प्रादुर्भवति - (रा.मा.३/२४) इत्येवं वर्तते । एतेन → बले चित्तसंयमाद् हनुमदादिबलम् - (शां.१/६९) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् ।। सिद्ध्यन्तरमाह- एवमिति । अयमत्राऽऽशयः सम्प्रज्ञातसमाधेः पूर्वाङ्गं द्विविधं विषयवती प्रवृत्तिः ज्योतिष्मती च । तत्र विषया गन्ध-रस-रूप-स्पर्श-शब्दाः ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिः मनसः स्थैर्यं करोति । तथाहि - नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते । तादृश्येव जिह्वाऽग्रे रससंवित् । ताल्वग्रे रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित् । तदेवं तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन् द्रव्यविषये जायमाना संवित् चित्तस्यैकाग्रताया हेतुर्भवति । 'अस्ति योगस्य फलमिति योगिनः समाश्वासोत्पादनात् । तदुक्तं योगसूत्रे → “विषयवती वा प्रवृत्तिरुत्पन्ना स्थितिनिबन्धिनी' - (यो.सू.१/३५) इति। ज्योतिष्मती प्रवृत्तिः नाम बुद्धिपुरुषान्यतरसाक्षात्काररूपा मनसः प्रवृत्तिः । तदुक्तं योगसूत्रे → विशोका वा ज्योतिष्मती - (यो.सू.१/३६) इति । 'ज्योतिःशब्देनात्र सात्त्विकः प्रकाश उच्यते । स प्रशस्तो भूयानतिशयवांश्च विद्यते यस्यां सा ज्योतिष्मती प्रवृत्तिः । તે રીતે હાથી વગેરેના બળને વિશે સંયમ કરવાથી હાથી વગેરેની તાકાત યોગીમાં ઉત્પન્ન થાય છે. કારણ કે તે સર્વ સામર્થ્યથી યુક્ત હોય છે. નિયત બળના સંયમથી નિયત બળ ઉત્પન્ન થાય છે. અર્થાત હાથીના બળનું સંયમ કરવાથી હાથી જેવી તાકાત યોગીમાં પ્રગટે છે. સિંહના સામર્થ્યને વિશે સંયમ કરવાથી સિંહ જેવું સામર્થ્ય મળે છે. ઇત્યાદિરૂપે સમજવું. એ જ રીતે વિષયવતી પ્રવૃત્તિ અને જ્યોતિષ્મતી પ્રવૃત્તિના કારણે સાત્ત્વિક પ્રકાશના ફ્લાવાનો વિષયોમાં સંન્યાસ (ત્રત્યાગ) કરવાથી સૂક્ષ્મ, વ્યવહિત અને દૂરવર્તી પદાર્થોનું જ્ઞાન થાય છે. આ પણ જાતે સમજી લેવું. કારણ કે તેનાથી અંત:કરણસહિત ઈન્દ્રિયોમાં પ્રકૃષ્ટ શક્તિ આવે છે. १. मुद्रितप्रतौ 'विषय वत्या' इत्येवमस्थानच्छिन्नः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy