________________
१७८४
• परिणामत्रैविध्योपदर्शनम् • द्वात्रिंशिका-२६/५ ___ततः परिणामेषु धर्मलक्षणाऽवस्थारूपेषु संयमाऽञ्चितस्य सर्वार्थग्रहणसामर्थ्यप्रतिबन्धकविक्षेपपरिहारात् अतीताऽनागतज्ञानं = अतिक्रान्ताऽनुत्पन्नाऽर्थपरिच्छेदनं योगिनो भवति । तदुक्तं"परिणामत्रयसंयमादतीताऽनागतज्ञानमिति” (यो.सू.३-१६)। (यो.सू.३/५ वा.) योगवार्तिके विज्ञानभिक्षुः ।
इदानीमुक्तस्य संयमस्य विषयप्रदर्शनद्वारेण सिद्धीः प्रतिपादयितुमाह- ततः = उत्तरभूमिषु हेयादिगोचरप्रज्ञाऽऽलोकविनियोगात् धर्म-लक्षणाऽवस्थारूपेषु त्रिविधेषु परिणामेषु पूर्वं (द्वा.द्वा.२४/२४ पृ.१६७७) व्याख्यातेषु संयमाऽञ्चितस्य = धारणा-ध्यान-समाधिप्रकर्षान्वितस्य सर्वार्थग्रहणसामर्थ्यप्रतिबन्धकविक्षेपपरिहारात् = सकलविषयप्रद्योतनप्रवणचित्तशक्तिप्रतिबन्धकानां विक्षेपाणां विगमात् अतिक्रान्ताऽनुत्पन्नाऽर्थपरिच्छेदनं तिरोभूताऽप्रादुर्भूतविषयकप्रमा योगिनो भवति । तदुक्तं योगसूत्रे ‘परिणामेति । अत्र राजमार्तण्डव्याख्या → धर्म-लक्षणाऽवस्थाभेदेन यत्परिणामत्रयमुक्तं तत्र संयमात् = तस्मिन् विषये पूर्वोक्तसंयमस्य करणाद् अतीतानागतज्ञानं योगिनः समाधेराविर्भवति । इदमत्र तात्पर्यम्- ‘अस्मिन् धर्मिणि अयं धर्मः इदं लक्षणं इयमवस्था चाऽनागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वं व्यापार विधायाऽतीतमध्वानं प्रविशती'त्येवं परिहृतविक्षेप(षय)तया यदा संयमं करोति तदा यत् किञ्चिदनुत्पन्नमतिक्रान्तं वा तत्सर्वं योगी जानाति, यतः चित्तस्य शुद्धसत्त्वप्रकाशरूपत्वात् सर्वार्थग्रहणसामर्थ्य अविद्यादिभिः विक्षेपैः अपाक्रियते । यदा तु तैः तैः उपायैः विक्षेपाः परिह्रियन्ते तदा निवृत्तमलस्येवाऽऽदर्शस्य सर्वार्थग्रहणसामर्थ्यमेकाग्रताबलादाविर्भवति 6 (यो.सू.३/१६ रा.मा.) इत्येवं वर्तते । ___'संयमेन परिणामत्रयं साक्षाक्रियमाणमतीताऽनागतज्ञानं तेषु सम्पादयतीति (यो.सू.भा.३/१६ योगभाष्यकृन्मतम् । अत्र वाचस्पतिमिश्रः → परिणामत्रयसाक्षात्करणमेव तदन्तर्भूताऽतीताऽनागतसाक्षात्करणात्मकमिति न विषयभेदः संयम-साक्षात्कारयोः + (त.वै.३/१६) इत्येवं तत्त्ववैशारद्यां व्याचष्टे ।
→ 'अस्य धर्मिणोऽयं धर्मपरिणामः तस्य चाऽयं लक्षणपरिणामो लक्षणस्य चाऽयं नव-पुराणाद्यवस्थापरिणाम' इत्येवमनुक्षणं यत्र कुत्रचिदर्थे संयमात् साक्षात्कारे सति तदितरार्थानामपि धर्मादिपरिणामेष्वतीतानागतज्ञानं सङ्कल्पमात्रेण प्रणिधानलेशादेव भवति - (भा.ग.३/१६) इति तु भावागणेशः ।
शाण्डिल्योपनिषदि तु → धर्माऽधर्मसंयमादतीताऽनागतज्ञानम् -- (शां.१/६९) इत्युक्तमिति यथातन्त्रमनुयोज्यं तत्तद्दर्शनविशारदैः । ____ 'श्रोत्रेन्द्रियग्राह्य-नियतक्रमवर्णात्मेति । श्रोत्रं ध्वनिपरिणाममात्रविषयम्, शब्दश्च तद्ग्राह्यः, ‘अष्टौ स्था
પાતંજલ યોગદર્શનમાં પરિણામના ત્રણ પ્રકાર માન્ય છે. (૧) ધર્મ સ્વરૂપ પરિણામ. (૨) લક્ષણ स्व३५ परिणाम अने (3) अवस्था३५ परिणाम. मा रोय परिणामने विशे संयमयी = १।२९।ધ્યાન-સમાધિસ્થાપિત કરવાથી સંયમવાળા યોગીને ભૂતકાળના વિષય અને ભવિષ્યના વિષયનો નિશ્ચય થાય છે. કારણ કે પરિણામ સંયમથી સર્વ પદાર્થોને ગ્રહણ કરવાના સામર્થ્યમાં પ્રતિબંધક એવા વિક્ષેપો દૂર થાય છે. તેથી તો યોગસૂત્રમાં કહેલ છે કે કે “ત્રણ પ્રકારના પરિણામો ઉપર સંયમ કરવાથી અતીતકાલીન અને અનાગતકાલીન અર્થનો નિશ્ચય થાય છે. -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org