________________
१७८२ • योगमहिमा .
द्वात्रिंशिका-२६/४ इहाऽपि लब्धयश्चित्राः परत्र च महोदयः । परात्माऽऽयत्तता चैव योगकल्पतरोः फलम् ।।३।। योगसिद्धैः श्रुतेष्वस्य बहुधा दर्शितं फलम् । दर्श्यते लेशतश्चैतद्यदन्यैरपि दर्शितम् ॥४॥ मान-स्पृहा-लोकसंज्ञौघसंज्ञादिपरिणतिस्तु शास्त्रविकृतिरेव । ततश्च विदुषाऽपि विशुद्धयोगाऽभ्यास एव वर्तितव्यमित्युपदेशोऽत्र ध्वन्यते । तदुक्तं योगबिन्दौ → विद्वत्तायाः फलं नाऽन्यत् सद्योगाऽभ्यासतः परम् । तथा च शास्त्रसंसार उक्तो विमलबुद्धिभिः ।। पुत्रदाराऽऽदिसंसारः पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहिताऽऽत्मनाम् ।।
6 (यो.बि.५०८/५०९) इति । तदुक्तं योगसारप्राभृते अमितगतिनाऽपि → संसारः पुत्र-दारादिः पुंसां सम्मूढचेतसाम् । संसारो विदुषां शास्त्रमध्यात्मरहितात्मनाम् ।। - (यो.सा.प्रा.७/४४) इति । अध्यात्मसारेऽपि → धनिनां पुत्र-दारादि यथा संसारवृद्धये । तथा पाण्डित्यदृप्तानां शास्त्रमध्यात्मवर्जितम् ।। - (अ.सा.१/२३) इत्येवं ग्रन्थकृतैवोक्तमिति पूर्वोक्तं(पृ.१५१५) अत्रानुसन्धेयम् । ।२६/२ ।।
इहाऽमुत्र योगस्य फलान्तरमाह- 'इहे'ति । इहाऽपि लोके चित्राः आमर्पोषधिप्रमुखा लब्धयः परत्र च = परलोके च महोदयः सच्चक्रवर्त्यादिपदलाभलक्षणः परात्माऽऽयत्तता = सर्वज्ञाऽऽज्ञाऽधीनता चैव योगकल्पतरोः फलम् । योगफलतया आवश्यकनियुक्तौ → आमोसहि-विप्पोसहि-खेलोसहि-जल्लमोसही चेव । संभिन्नसोय-उज्जुमई सव्वोसही चेव बोधव्वा ।। चारण-आसीविस-केवली य मणणाणिणो य पुव्वधरा। अरहन्त-चक्कवट्टी बलदेवा वासुदेवा य ।।
- (आ.नि.६९/७०) इत्येवमिह-परलौकिक्यो लब्धयो भद्रबाहुस्वामिभिरुक्ता इहापि पूर्वं (पृ.६५४, १२५४) उपदर्शिताः । तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिभिरपि →
कफविपुण्मलामर्शसर्वौषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् ।। चारणाऽऽशीविषाऽवधि-मनःपर्यायसम्पदः । योगकल्पद्रुमस्यैता विकासिकुसुमश्रियः ।। + (यो.शा.१/८-९) इति ।।२६/३ ।।
श्रुतेषु = जिनप्रवचनाऽन्तर्गतशास्त्रेषु योगसिद्धैः पूर्वमहर्षिभिः अस्य योगस्य बहुधा = बहुभिः प्रकारैः फलं दर्शितम् ।
अन्यैरपि = तन्त्रान्तरीयैः पातञ्जलैः अस्य योगस्य यत् फलं दर्शितं एतद् इह योगमाहात्म्यद्वात्रिंशिकायां लेशतो दर्श्यते अस्माभिः ।।२६/४ ।।
ગાથાર્થ - યોગસ્વરૂપ કલ્પવૃક્ષનું આ ફળ છે કે આ લોકમાં પણ વિવિધ લબ્ધિઓ પ્રગટે છે. ५२सोमi महान सम्युय थाय छे. तथा ५२मात्माने साधीन थवाय छे. (२६/3)
ગાથાર્થ :- યોગસિદ્ધ પુરુષોએ શાસ્ત્રોમાં અનેક પ્રકારે યોગનું ફળ દેખાડેલ છે. તેમ છતાં આંશિક રીતે યોગફળ અમારા વડે અહીં દેખાડાય છે કે જે અન્ય = પાતંજલયોગદર્શનકાર વગેરે વડે પણ हेमारायेद छ. (२६/४)
વિશેષાર્થ :- આ ચાર શ્લોક સરળ છે. સુગમ છે. માટે ગ્રંથકારશ્રીએ તેની સંસ્કૃત વ્યાખ્યા કરેલ નથી. અહીં પતંજલિઋષિએ યોગસૂત્ર નામના ગ્રંથમાં વિભૂતિપાદ નામના ત્રીજા પ્રકરણમાં જે ઋદ્ધિ-સિદ્ધિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org