SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ • अमूलमन्त्रतन्त्रकार्मणोपदर्शनम् • १७८१ ।। अथ योगमाहात्म्यद्वात्रिंशिका ॥२६॥ क्लेशहानोपायं विविच्य तथाभूतस्य योगस्य प्रेक्षावत्प्रवृत्त्यौपयिकं माहात्म्यमुपदर्शयन्नाहशास्त्रस्योपनिषद्योगो योगो मोक्षस्य वर्तनी । अपायशमनो योगो योगः कल्याणकारणम् ॥१॥ संसारवृद्धिर्धनिनां पुत्रदारादिना यथा। शास्त्रेणाऽपि तथा योगं विना हन्त विपश्चिताम् ।।२।। नयलता योगैश्वर्यञ्च कैवल्यं प्राप्यते यत्प्रसादतः । तमासनोपकारिश्रीमहावीरप्रभुं भजे ।।१।। पञ्चविंशतितमद्वात्रिंशिकायां स्व-परतन्त्रविभागेन क्लेशहानोपायं विविच्य = समालोचनपूर्वं निरूप्य साम्प्रतं षड्विंशतितमद्वात्रिंशिकायां तथाभूतस्य क्लेशहानोपायात्मकस्य योगस्य प्रेक्षावत्प्रवृत्त्यौपयिकं फललिप्सुप्राज्ञकर्तृकप्रवृत्तिहेतुभावमापन्नं माहात्म्यं = अद्भुतं सामर्थ्य उपदर्शयन् ग्रन्थकृद् आह- 'शास्त्रस्येति । शास्त्रस्य = शासन-त्राणशक्तिसमन्वितस्य उपनिषद् = परमरहस्यं योगः निरुक्तलक्षणः । योगो मोक्षस्य परमपुरुषार्थस्य वर्तनी = मुख्यः पन्थाः । अपायशमनः = जन्म-जरा-मरणादि-काम-क्रोधाद्यपायोच्छेदको योगः । तदुक्तं योगबिन्दौ → तथा च जन्मबीजाग्निर्जरसोऽपि जरा परा । दुःखानां राजयक्ष्माऽयं मृत्योर्मृत्युरुदाहृतः ।। कुण्ठीभवन्ति तीक्ष्णानि मन्मथाऽस्त्राणि सर्वथा । योगवर्माऽऽवृते चित्ते तपश्छिद्रकराण्यपि ।। - (यो.बि.३८-३९) इति । → योगेनाऽवाप्यते ज्ञानं, योगो धर्मस्य लक्षणम् । योगमूला गुणास्सर्वे तस्माद् युक्तस्सदा भवेत् ।। - (बौ.ध.४/१/१/२६) इति बौधायनधर्मसूत्रमप्यत्र स्मर्तव्यम् । 'युक्तः = योगवान्' इत्यर्थः । योगशास्त्रे कलिकालसर्वज्ञेनाऽपि → योगः सर्वविपद्वल्लीविताने परशुः शितः । अमूलमन्त्रतन्त्रञ्च कार्मणं निर्वृतिश्रियः ।। भूयांसोऽपि हिं पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद् घनघना घनाघनघटा इव ।। 6 (यो.शा.१/५-७) इत्युक्तम् । परेषामपि सम्मतमिदम् । तदुक्तं योगशिखोपनिषदि अपि → योगात् परतरं पुण्यं योगात् परतरं शिवम् । योगात् परतरं सूक्ष्मं योगात् परतरं न हि ।। 6 (यो.शि.१/६७) इति ।।२६/१।।। शास्त्रस्याऽपि योगमृते शस्त्रत्वं स्यादित्याह- 'संसारे'ति। धनिनां मूढचेतसां यथा पुत्र-दारादिना भवभ्रमणवर्धनकारणभावाऽऽपन्नत्वात् संसारवृद्धिः तथा = तेनैव प्रकारेण विपश्चितां = पण्डितानां योगं अध्यात्मादिप्रकारं विना शास्त्रेणाऽपि संसारवृद्धिः स्यात् । विशुद्धयोगपरिणतिरेव शास्त्रप्रकृतिः, मद હ યોગમાયાખ્યદ્વાચિંશિક પ્રાશ હ. ૨૫ મી બત્રીસીમાં ક્લેશ હાનિના ઉપાયભૂત યોગનું વિવેચન કરીને ક્લેશનાશક યોગને વિશે બુદ્ધિશાળી લોકો પ્રવૃત્તિ કરે તે માટે યોગનું માહાભ્ય દર્શાવતા ગ્રંથકારશ્રી કહે છે કે – ગાથાર્થ :- શાસ્ત્રનું રહસ્ય યોગ છે. મોક્ષની કેડી/માર્ગ યોગ છે. વિનોને શાંત કરનાર યોગ छे. त्यानुं ॥२९॥ योग छे. (२६/१) ગાથાર્થ - જેમ પુત્ર, પત્ની વગેરે દ્વારા ધનવાન માણસને સંસારની વૃદ્ધિ થાય છે. તેમ ખેદની વાત છે કે યોગ વિના પંડિતોને શાસ્ત્રથી પણ સંસારની વૃદ્ધિ થાય છે. (૨૬)૨) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy