________________
• चित्तपृथक्करणार्थं योगिसमाधिव्यापारः •
१७५७ सर्वज्ञत्वस्वभावपरित्यागस्य स्ववासनामात्रविजृम्भितत्वादित्याचार्याणामाशयात् ।।२६।। 'कूटस्थनित्यता पुरुषस्य' (यो. सू.भा.४/३३) इति योगसूत्रभाष्यकृत्सिद्धान्ताय च जलाञ्जलिः दत्तः स्यात् पातञ्जलैः । प्रकृत्यादिगतसंयोगहानादिप्रतियोगिकपारमार्थिकसम्बन्धस्याऽऽत्मन्यापातेन कूटस्थनित्यत्वपरित्यागाऽऽपत्तेरेव । ततश्च →
स एष यहि प्रकृतेर्गुणेष्वभिविषज्जते । अहङ्क्रियाविमूढात्मा ‘कर्ताऽस्मी'त्यभिमन्यते ।।
तेन संसारपदवीमवशोऽभ्येत्य निर्वृतः । प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु ।। - (क.दे.सं. ३।२-३) इति कपिल-देवहूतिसंवादवचने विप्लवेते एव । किञ्च मुक्तिदशायां निरावरणचैतन्ये सिद्धे सार्वइयमपि तदा तत्रैव स्यात् । परं पातञ्जलैः तन्नाऽङ्गीक्रियते ।।
इत्थञ्च पुरुष सर्वज्ञत्वस्वभावपरित्यागस्य सविषयकत्वस्वभावशालिचैतन्यपरित्यागप्रसक्तस्य केवलं स्ववासनामात्रविजृम्भितत्वात् 'मुक्तौ चितिशक्तिः निर्विषयैवेति संस्कारमात्रविलसितत्वात् सर्वज्ञत्वस्वभावत्यागे च मुक्तौ पुरुषस्य स्वरूपहानिप्रसक्तिः, प्रकाशादिस्वभावत्यागेऽग्नेः स्वरूपहानिवत् इति आचार्याणां श्रीहरिभद्रनामधेयानां योगबिन्दौ आशयात् = तात्पर्यात् पातञ्जलेषु तदुपालम्भः शोभत एव ।
तदुक्तं श्रीहरिभद्रसूरिभिरेव योगबिन्दौ → अग्नेरुष्णत्वकल्पं तज्ज्ञानमस्य व्यवस्थितम् । प्रतिबन्धकसामर्थ्यान्न स्वकार्ये प्रवर्तते ।। ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धके । दाह्येऽग्निर्दाहको न स्यात् कथमप्रतिबन्धकः ।। न देशविप्रकर्षोऽस्य युज्यते प्रतिबन्धकः। तथाऽनुभवसिद्धत्वादग्नेरिव सुनीतितः ।।
सर्वत्र सर्वसामान्यज्ञानाज्ज्ञेयत्वसिद्धितः । तस्याऽखिलविशेषेषु तदेतन्न्यायसङ्गतम् ।। सामान्यवद् विशेषाणां स्वभावो ज्ञेयभावतः । ज्ञायते स च साक्षात्त्वाद् विना विज्ञायते कथम् ।। अतोऽयं ज्ञस्वभावत्वात् सर्वज्ञः स्यान्नियोगतः । नाऽन्यथा ज्ञत्वमस्येति सूक्ष्मबुद्ध्या निरूप्यताम् ।।
(यो.बि.४३१-४३३,४३५-४३७) इति ।। वस्तुतः सर्वज्ञस्य चित्तदर्शनार्थं समाधिव्यापाराऽपेक्षा नैव सम्भवति, अन्यथा सर्वज्ञत्वस्वभावपरित्यागादचेतनादविशेषाऽऽपत्तेः । अथ निस्तरङ्गमहोदधिकल्पो ह्यात्मा, तत्तरंगकल्पाश्च महदादिपवनयोगतो वृत्तय इति तन्निराकरणेनैवाऽऽत्मनः स्वरूपप्रतिष्ठेति चेत् ? न, आत्मनः प्राक् तदतत्स्वभावत्वयोरनुष्ठानवैयर्थ्यात्, विषयग्रहणपरिणामरूपाऽऽकारसम्पृक्तज्ञानस्य मुक्तावप्यनपायाच्च । तस्माद् न चित्तदर्शनार्थं योगिनां समाधौ व्यापारः, किन्तु चित्तपृथक्करणार्थमेव । तत्र च क्रियाया इव ज्ञानस्याऽपि हेतुत्वमव्याहतमेव । केवलाऽऽभोगपूर्वक एव हि योगनिरोधव्यापारः (शा.वा.स.९/४ स्या.क.) इति व्यक्तं स्याद्वादकल्पलतायाम् ॥२५/२६।। જ સિદ્ધ થઈ ગયું છે.
તથા પાતંજલ વિદ્વાનો પુરુષને ચૈતન્યસ્વરૂપ માનવા છતાં તેમાં સર્વજ્ઞત્વસ્વભાવ નથી માનતા તે પણ માત્ર તેમની માન્યતાનો વિલાસ છે. - આવું જણાવવાનો શ્રીહરિભદ્રસૂરિજી મહારાજાનો આશય યોગબિંદુ ગ્રંથમાં ગર્ભિત રીતે રહેલ છે. કારણ કે જ્યાં નિરાવરણ ચૈતન્ય હોય ત્યાં જ સર્વજ્ઞત્વ હોઈ શકે, અન્યત્ર નહિ. આ રીતે પાતંજલમતની સમીક્ષા ગ્રંથકારશ્રીએ પૂર્ણ કરેલ છે. (૨૫/૨૬).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org