SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १७५८ • तत्त्वज्ञानान्निश्रेयसाधिगमविमर्शः • द्वात्रिंशिका - २५/२७ पुरुषार्थाय दुःखेऽपि प्रवृत्तेर्ज्ञानदीपतः । हानं चरमदुःखस्य क्लेशस्येति तु तार्किकाः ।। २७।। पुरुषार्थायेति । ज्ञानदीपतः तत्त्वज्ञानप्रदीपादज्ञानध्वान्तनाशात् पुरुषार्थाय = पुरुषार्थनिमित्तं दुःखेऽपि प्रवृत्तेः, राजसेवादौ तथादर्शनात् । चरमदुःखस्य क्लेशस्य स्वयमुत्पादितस्य हानमिति तु तार्किकाः नैयायिकाः । अतीतस्य स्वत एवोपरतत्वात्, अनागतस्य हातुमशक्यत्वात्, वर्तमानस्याऽपि विरोधिगुणप्रादुर्भावेनैव' नाशात् । चरमदुःखमुत्पाद्य तन्नाशस्यैव पुरुषार्थ - त्वादिति भावः ।।२७।। = = = = = क्लेशहानोपायगोचरं पातञ्जलमत्तमुक्त्वा निरस्य चाऽधुना नैयायिक-वैशेषिकमतमपाकर्तुमुपन्यस्यति'पुरुषार्थाये 'ति । तत्त्वज्ञानप्रदीपात् प्रमाणादिषोडशतत्त्वगोचरज्ञानस्वरूपप्रदीपमवलम्ब्य अज्ञानध्वान्तनाशात् सिध्यति चरमदुःखध्वंसलक्षणो मोक्षः । तदुक्तं न्यायसूत्रे प्रमाण- प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्ताऽवयव-तर्क- निर्णय-वाद- जल्पवितण्डा - हेत्वाभासच्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाऽधिगमः ← (न्या.सू.१/१/१) इति पूर्वोक्तं (पृ. ७९२ ) इहानुसन्धेयम् । न चाऽनुत्पन्नस्य दुःखस्यो - च्छेत्तुमशक्यत्वात्तन्नाशार्थं तदुत्पादने तु सुखार्थिनः सतः शिर आस्फाल्य शूलोत्पादनतुल्यमेतदिति शङ्कनीयम्, पुरुषार्थनिमित्तं अर्थ-धर्म-काम-मोक्षाऽन्यतरपुरुषार्थकृते दुःखेऽपि = दुःखजननेऽपि विषयतया प्रवृत्तेः सम्भवात्, राजसेवादौ तथादर्शनात् अर्थपुरुषार्थनिमित्तं दुःखाऽनुविद्धत्वेऽपि प्रवृत्तेरुपलम्भात् । अतीतस्य दुःखस्य भुक्तत्वेन स्वत एव उपरतत्वात् विनष्टत्वान्न तन्नाशकृते पुरुषार्थोऽपेक्ष्यते, अन्यथा मृताऽरिमारणप्रसङ्गात् । नाऽपि भविष्यद्दुःखनाशार्थं पुरुषार्थो युज्यते, अनागतस्य दुःखस्य चाऽनुत्पन्नत्वेन हातुं उच्छेत्तुं अशक्यत्वात्, ध्वंसं प्रति प्रतियोगिनोऽपि कारणत्वात्, अन्यथाऽधुना भविष्यच्छङ्खचक्रवत्र्त्यादिघातप्रवृत्त्यापत्तेः । योग्यविभुविशेषगुणस्य स्वोत्तरवर्तिविशेषगुणान्तरनाश्यत्वनियमेन वर्तमानस्याऽपि दुःखस्य विरोधिगुणप्रादुर्भावेनैव अतीतदुःखवद् नाशात् न तन्नाशार्थं पुरुषार्थोऽपेक्ष्यते । अतः चरमदुःखं उत्पाद्य = जनयित्वा तन्नाशस्यैव चरमदुःखध्वंसस्यैव पुरुषार्थत्वात् मोक्षपुरुषार्थत्वसम्भवात् । न च चरमदुःखध्वंसे प्रतियोगिविधया चरमदुःखस्यैवाऽस्तु हेतुत्वं इति * ચરમદુઃખધ્વંસ મોક્ષ નૈયાયિક ત ગાથાર્થ ઃ- તાર્કિકો તો ‘જ્ઞાનદીપકથી પુરુષાર્થ નિમિત્તે દુઃખમાં પણ પ્રવૃત્તિ થવાથી ચરમદુઃખસ્વરૂપ ક્લેશનો ઉચ્છેદ થાય છે.' खेप्रमाणे हे छे. (२५/२७) ટીકાર્થ :- તત્ત્વજ્ઞાનસ્વરૂપ દીવાથી અજ્ઞાનસ્વરૂપ અંધકારનો નાશ થવાથી પુરુષાર્થના નિમિત્તે દુઃખને ઉત્પન્ન કરવામાં પણ પ્રવૃત્તિ થાય છે. કેમ કે રાજાની સેવા વગેરેમાં તેવું દેખાય છે. માટે ચરમદુઃખસ્વરૂપ ક્લેશને જાતે ઉત્પન્ન કરીને તેનો ઉચ્છેદ કરવો તે મોક્ષ છે. - એમ તાર્કિક નૈયાયિકો કહે છે. કહેવાનો મતલબ એ છે કે ભૂતકાળના દુ:ખ તો જાતે જ રવાના થઈ ગયેલ છે. તથા ભવિષ્યના દુ:ખ તો ઉત્પન્ન જ થયેલ ન હોવાથી તેનો નાશ કરવો શક્ય નથી. તથા વર્તમાનકાલીન દુઃખનો તો વિરોધી ગુણ ઉત્પન્ન થવાથી જ નાશ થાય છે. માટે તેનો પણ નાશ કરવામાં મુદ્દલ પુરુષાર્થ નથી. આથી સિદ્ધ થાય છે કે ચરમ દુઃખને ઉત્પન્ન કરીને તેનો નાશ કરવો તે જ મોક્ષપુરુષાર્થ છે.(૨૫/૨૭) १. हस्तादर्शे '...भावो नैव...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ' पुरुषार्थक....' इति अधिकः पाठः । Jain Education International For Private & Personal Use Only = - = = = www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy