________________
• अप्राकृतज्ञानस्याऽविषयकत्वाऽसम्भवः •
१७५३ दिदृक्षाऽभावेऽपि दर्शनाऽनिवृत्तेः, प्राकृताऽप्राकृतज्ञानयोः सविषयकत्वाऽविषयकत्वस्वभावभेदकल्पनस्य चाऽन्याय्यत्वात् । ग्रहणे निरावरणत्वस्य केवलज्ञानेऽनुपपत्तेः । तदुक्तं योगबिन्दौ साक्षेप-परिहारं → निमित्ताऽभावतो नो चेत् ? निमित्तमखिलं जगत् । नान्तःकरणमिति चेत् ? क्षीणदोषस्य तेन किम्?।। निरावरणमेतद् यद् विश्वमाश्रित्य विक्रियाम् । न याति यदि तत्त्वेन न निरावरणं भवेत् ।।
- (यो.बि.४५३/४५४) इति ।
एतेन मुक्ताऽवस्थायां निवृत्तकौतुकत्वेन बाह्यानर्थान् द्रष्टुमिच्छैव न भवतीति न तदाऽर्थदर्शनमिति निरस्तम्, दिदृक्षाऽभावेऽपि = बाह्याऽर्थदर्शनगोचरेच्छाविरहेऽपि मुक्तौ दर्शनाऽनिवृत्तेः = चैतन्याऽपराभिधानदर्शनाऽभावविरहात्, अन्यथा पुरुषस्य चिद्रूपतोच्छेदाऽऽपत्तेः । तदुक्तं योगबिन्दौ → दिदृक्षा विनिवृत्ताऽपि नेच्छामात्रनिवर्तनात् । पुरुषस्याऽपि युक्तेयं स च चिद्रूप एव वः ।। - (यो.बि.४५५) इति ।
एतेन → सङ्कल्पसङ्क्षयवशाद् गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभाति शरदि यत् खमागतायां चिन्मात्रमेकमजमनाद्यनन्तमन्तः ।। - (महो.५/५३) इति महोपनिषद्वचनमपि व्याख्यातम्, मोहादिलक्षणमलविगमाऽपेक्षयैव कैवल्याख्ये ज्ञाने एकत्वाऽभिप्रायेऽपि विषयराहित्यलक्षणैकत्वाऽसम्भवात् । तथा च स्मर्यते → न चिदप्रतिबिम्बाऽस्ति दृश्याभावादृते किल । क्वचिन्नाऽप्रतिबिम्बेन किलाऽऽदर्शोऽवतिष्ठते ।। - ( ) इति । 'न कदाचिदनीदृशं जगत्' ( ) इति वचनात् जगतः स्थैर्य सिद्धे ध्रुवं ज्ञानस्य मुक्तावपि सर्वार्थपरिच्छेदकत्वमित्याकूतम् ।।
ननु → ज्ञानं नैवाऽऽत्मनो धर्मो न गुणो वा कथञ्चन - (सौ.पु.११/२५) इति सौरपुराणवचनान्मुक्तौ ज्ञानमेव नाऽस्तीति मुक्तौ तस्य सविषयकत्वोपवर्णनं कुड्यं विना चित्रकर्मतुल्यमिति चेत् ? नैवम्, विकल्पात्मकमानसज्ञानाऽपेक्षया मुक्तौ तन्निषेधेऽपि प्रकृत्यजन्यस्य ज्ञानस्य प्रत्याख्यातुमशक्यत्वात्, तदुक्तं गरुडपुराणे → ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः - (ग.पु.१/२२९/६) इति । मुक्तौ ज्ञानाऽनभ्युपगमे पुरुषस्य जडत्वाऽऽपातात् । इदमेवाऽभिप्रेत्य श्रीहरिभद्रसूरिभिः योगबिन्दौ → चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृताऽपेक्षया भवेत् ।। - (यो.बि.४५६) इति पूर्वमुक्तमेव (पृ.८२३) । न च तथापि प्राकृतज्ञानस्यैवाऽस्तु सविषयकत्वम्, अप्राकृतस्य त्वविषयकत्वमेव न्याय्यमिति वाच्यम्, प्राकृताऽप्राकृतज्ञानयोः = प्रकृतिजन्य-तदजन्ययोः ज्ञानयोः यथाक्रमं सविषयकत्वाऽविषयकत्वस्वभावभेदकल्पनस्य गौरवादिदोषेण अन्याय्यत्वात्, अन्यथा चिद्रूपस्याऽऽत्मनः संसार-मुक्त्यवस्थयोर्भेदेन ઈચ્છા ન હોવા છતાં પણ દર્શનસામગ્રી હાજર હોય તો દર્શન રવાના થતું નથી. માટે અંતઃકરણ ન હોવા છતાં નિરાવરણ જ્ઞાનરૂપ વિષયપરિચ્છેદસામગ્રી હાજર હોવાથી સવિષયક જ્ઞાન રવાના થતું નથી. પ્રાકૃત = પ્રકૃતિજન્ય જ્ઞાન વિષયક હોય અને અપ્રાકૃત = પ્રકૃતિએજન્ય = નિરાવરણ જ્ઞાન નિર્વિષયક હોય” - આ પ્રમાણે જ્ઞાનમાં સવિષયકત્વ અને નિર્વિષયકત્વ એમ બે સ્વભાવની કલ્પના કરવામાં કોઈ યુક્તિ ન હોવાથી જ્ઞાનસ્વભાવમાં વૈવિધ્ય કલ્પના અસંગત જ છે. આત્મચેતન્યમાં (પાતંજલમાન્ય) અવિષયકતા સ્વભાવની જેમ (જૈનમાન્ય) સવિષયત્વસ્વભાવની કલ્પના કરવામાં કોઈ બાધક નથી કે જેના લીધે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org