________________
• संस्कारदुःखरूपतोपवर्णनम् •
१७४३ संस्कारात् च अभिमताऽनभिमतविषयसन्निधाने सुख-दुःखसंविदोरुपजायमानयोः स्वक्षेत्रे तथाविधसंस्कारतथाविधाऽनुभवपरम्परया संस्काराऽनुच्छेदलक्षणात् । ऽन्यस्याधिकसुखं दृष्ट्वा तापजं दुःखम् । तस्य द्वेषाऽनुविद्धत्वाद् द्वेषजः कर्माऽऽशयः। तथा सुखसाधनप्रार्थनया कञ्चिदनुगृह्णाति कञ्चित् पीडयति । तत्र पराऽनुग्रह-पीडाभ्यां धर्माऽधर्मोपचयो भवतीत्येषा तापदुःखता - (ना.भ.२/१५) इति नागोजीभट्टः ।। ___'सुखभोगकाले रागादिनिमित्तेन रजोगुणविकाररूपा सन्तापात्मिका प्रतिकूला वृत्तिर्जायते । सा च 'अहं पापी, धिङ् मां दुरात्मानमि'त्येवं चित्तं सन्तापयति, तदिदं तापदुःखम्' (यो.सुधा.२/१५) इति तु योगसुधाकरे सदाशिवेन्द्रोक्तिः । तदुक्तं भावागणेशेनाऽपि → तापदुःखञ्च सुखकालेऽप्यनुतापादिभिः दुःखान्तरम् - (भा.ग.२/१५ पृष्ठ-७६) इति । 'सुखभोगकाले विषयनाशभीत्या दुःखं वर्तते । नाशके द्वेषाच्च तापोऽस्तीति तापदुःखता भोगस्येति (म.प्र.२/१५) मणिप्रभाकृत् ।
तथा संस्काराच्चेति । अभिमतविषयसन्निधाने सुखसंविद् अनभिमतविषयसन्निधाने च दुःखसंविद् उपजायते । सुखाऽनुभवो हि स्वक्षेत्रे = स्वचित्ते तत्संस्कारमाधत्ते, स च सुखस्मरणं, तच्च रागं, स च तत्साधनेषु मनोवचःकायचेष्टां, सा च सुखाऽनुभवं, स च तृष्णाऽभिवृद्धिं, सा च अदृष्टं, ततो विपाकाऽनुभवः, ततो वासनेत्येवमनादितेति । एवं दुःखाऽनुभवेऽपि योज्यम् । ततश्च योगिनः सम्यग्दर्शनशरणागतिः । तदुक्तं योगसूत्रभाष्ये → का पुनः संस्कारदुःखता ? सुखाऽनुभवात् सुखसंस्काराऽऽशयो दुःखाऽनुभवादपि दुःखसंस्काराऽऽशय इति । एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माऽऽशयप्रच्यव इति । एवमिदमनादि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूलाऽऽत्मकत्वादुद्वेजयति । कस्मात् ? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शन दुःखयति नाऽन्येषु गात्राऽवयवेषु । एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरं तु स्वकर्मोपहतं दुःखं उपात्तं उपात्तं त्यजन्तं, त्यक्तं त्यक्तं उपाददानं अनादिवासनादिचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिव अविद्यया हातव्य एवाऽहङ्कार-ममकाराऽनुपातिनं जातं जातं बाह्याऽऽध्यात्मिकोभयनिमित्ताः त्रिपर्वाणः तापा अनुप्लवन्ते । तदेवमनादिना दुःखस्रोतसा व्यूह्यमानमात्मानं भूतग्रामञ्च द्रष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यते - (यो.सू.भा.२/१५) इति ।
भावागणेशस्तु → संस्कारदुःखं तु सुख-दुःखसंस्कारतत्साधनेषु प्रवृत्ति-निवृत्त्याधुत्थं दुःखं 6 (भा.ग.२/१५ वृ.) इत्याह । 'यदि भोगनाशे संस्कारो न स्यात्, तदा न दुःखसन्ततिः । भवत्येव तु संस्कार इति संस्कारदुःखता' (म.प्र.२/१५) इति मणिप्रभाकृत् । 'सुखनाशे तत्संस्कारः सुखं स्मारयित्वा स्मारयित्वा हृदयं दहति, तदिदं संस्कारदुःखम्' (यो.सुधा.२/१५) इति योगसुधाकरे सदाशिवेन्द्रः । प्रकृते → परिणामाच्च तापाच्च संस्काराच्च समुद्भवैः। दुःखैः सुदुःसहै: क्लेशमाप्नुवन्ति निरन्तरम् ।। 6 દુઃખાનુભવ ઉત્પન્ન કરશે. તે અનુભવો પાછા સુખ-દુઃખગોચર સંસ્કાર આશયને ઉત્પન્ન થશે. આ પરંપરા ચાલ્યા જ કરશે. આ પદ્ધતિથી જીવન જીવવામાં તે-તે સંસ્કારોનો ઉચ્છેદ નહિ થાય. તે-તે સંસ્કારના આધારે પ્રવૃત્તિ ચાલુ રહેતાં સંસાર પણ ચાલુ જ રહેશે. ભવભ્રમણનો આમાં કોઈ અંત ન આવે. આમ ભોગસુખપ્રવૃત્તિ વગેરેથી સંસ્કારનો ઉચ્છેદ ન થવાથી કર્મવિપાક દુઃખરૂપ જ છે – એવું સિદ્ધ થાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org