SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ • विषयसुखानुभवकालेऽपि दुःखानुभूतिः द्वात्रिंशिका -२५/२२ तापाच्च उपभुज्यमानेषु सुखसाधनेषु सुखानुभवकालेऽपि सदावस्थिततत्प्रतिपन्थिद्वेषलक्षणात् । मेव मतम्, दुःखकारणत्व - दुःखसम्भिन्नत्वाभ्यामित्यर्थः । तथा च सुखरागाऽपेक्षया दुःखद्वेषस्य बलवत्त्वात् सुखापेक्षा दुःखस्य प्राचुर्याच्च सुखमपि दुःखयोगाद् हेयमिति भावः । तत्र परिणामदुःखं यथा सुखभोगकाले सुखे रागः तत्प्रतिघातकें द्वेषः । विना प्राणिवधमुपभोगाऽभावेन हिंसादिकञ्च तन्नान्तरीयकं भवति। ताभ्याञ्चाऽदृष्टादिद्वारोत्तरकाले दुःखमिति । अत एव विषयसुखं = अविद्या विपर्यासलक्षणेति वृद्धाः । न च विषयतृष्णैव दुःखम्, भोगेन तृप्तौ तन्निवृत्तिरेव सुखमिति तस्या रागाऽनुविद्धत्वाऽभावेन न परिणामदुःखरूपतेति वाच्यम्, तृष्णाक्षयस्य सुखत्वेऽपि भोगाऽभ्यासस्य तदनुपायत्वात् । तेन तृष्णावृद्धेरेव दर्शनात् । तस्याश्च दुःखरूपत्वात् ← (ना.भ.२/१५) इत्याचष्टे । ‘सुखे सति आगामिनः तादृशस्य सुखस्य कारणं पुण्यं अननुष्ठाय वृथैव तदपेक्षा तामसी वृत्तिः जायमाना चित्तं दुःखाकरोतीति परिणामदुःखमिति (यो . सुधा . २ / १५ ) तु योगसुधाकरोक्तिः । 'ये 'हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय ! न तेषु रमते बुधः ।। (भ.गी. ५/ २२) विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ।।' (भ.गी. १८/ ३८) इति भगवद्गीताकारिकायुगलमप्यत्राऽनुसन्धेयम् । तदुक्तं विष्णुपुराणेऽपि कलत्र - मित्र-पुत्रार्थगृह-क्षेत्र - धनादिकैः । क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् ।। ← (वि.पु. ६/५/५६ ) इति । तथा उपभुज्यमानेषु कमनीयकलत्रादिलक्षणेषु सुखसाधनेषु सुखाऽनुभवकालेऽपि सदाऽवस्थित - त्प्रतिपन्थिद्वेषलक्षणात् उपभुज्यमानभोगसाधनविक्षेपकारितत्त्वगोचरात् सदैव . चेतसि समवस्थितात् द्वेषमत्सरेर्ष्यादिस्वरूपात् तापाच्च दुःखरूपता कर्मविपाकस्य । योगसूत्रभाष्ये तु अथ का तापदुःखता ? सर्वस्य द्वेषाऽनुविद्धश्चेतनाऽचेतनसाधनाऽधीनः तापाऽनुभवः इति तत्राऽस्ति द्वेषजः कर्माSऽशयः । सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्णाति उपहन्ति चेति पराऽनुग्रह-पीडाभ्यां धर्माऽधर्मावुपचिनोति । स कर्माऽशयो लोभात् मोहाच्च भवतीत्येषा तापदुःखतोच्यते ← (यो.सू. भा. २/१५ ) इत्थं तापरूपतोक्ता व्यासेन । तापदुःखञ्च सुखकाले १७४२ = - • * તાપ અને સંસ્કારથી ર્મફળ દુઃખરૂપ આ तापा.। (२) लोगसुखना साधनभूत पुष्टुण धन, प्रेमाण पत्नी, खाज्ञांडित पुत्र, अनुडून परिवार વગેરે ભોગવવામાં આવે તો તે સમયે સુખનો અનુભવ થવા છતાં તે સમયે પણ ઉપરોક્ત ભોગસાધનના વિરોધી કે ભોગસુખમાં નડતરભૂત થનાર તત્ત્વ પ્રત્યે દ્વેષ-ઘૃણા-ઉકળાટ-તિરસ્કાર-ધિક્કાર તો તેના મનમાં કાયમ હાજર જ રહે છે. આ દ્વેષ એ જ તાપ-સંતાપ છે. તેના કારણે પણ ભોગસુખપ્રવૃત્તિ વગેરે दुःखात्म ४ छे. એવું સિદ્ધ થાય છે. (૩) તમામ કર્મવિપાક દુઃખાત્મક જ હોવાનું ત્રીજું કારણ છે સંસ્કાર. ઈષ્ટ અને અનિષ્ટ વિષયો હાજર થાય ત્યારે ઈષ્ટ વિષયના લીધે સુખનું સંવેદન ઉત્પન્ન થશે અને અનિષ્ટ-પ્રતિકૂળ વિષયના નિમિત્તે જીવને દુઃખની અનુભૂતિ થશે. આ બન્ને પ્રકારની અનુભૂતિ પોતાના આધારભૂત ચિત્તમાં તથાવિધ સુખસંસ્કારાશય અને દુઃખસંસ્કારાશય ઉત્પન્ન કરશે. તથા તેવા સંસ્કારાશય તેવા પ્રકારના સંયોગમાં સુખાનુભવ અને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy