________________
• विषयोपभोगात् भोगतृष्णावृद्धिः •
१७४१ परिणामाच्च = यथोत्तरं गर्भाऽभिवृद्धेस्तदप्राप्ति कृतदुःखाऽपरिहारलक्षणाद् दुःखान्तरजननलक्षणाच्च । __साम्प्रतं द्विविधकर्मविपाकस्य दुःखरूपतां साधयितुमुपक्रमते- परिणामाच्चेति । अयमाशयः ‘नानुपहत्य भूतानि भोगः सम्भवति' ( ) इति पूर्वं (द्वा.द्वा. | पृ. ) दर्शितात् वचनात् हिंसादिसम्पादितेषु शारीरादिभोगेषु इन्द्रियाणां तृप्तेः आभिमानिकी उपशान्तिः तत्सुखम् । या लौल्यादनुपशान्तिः तद्दुःखमिति तावत् लोकप्रसिद्धम् । न चेन्द्रियाणां भोगाऽभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्, 'न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाऽभिवर्धते ।।' (मनु.२/९४, वि.पु.४/१०/२३) इति मनुस्मृतेः विष्णुपुराणस्य च वचनात्, → वृद्धास्तृष्णा जलापूर्णैरालवालैः किलेन्द्रियैः । मूर्छामतुच्छां यच्छन्ति विकारविषपादपाः ।। (ज्ञा.सा.७/२) इति ज्ञानसारवचनाच्च भोगाभ्यासाद् यथोत्तरं गर्दाऽभिवृद्धेः = तृष्णाऽभिवृद्धेः इन्द्रियाणाञ्च भोगपाटवसंवृद्धेश्च पुण्याऽल्पत्वादिना भोगाद्यप्राप्तौ सत्यां तदप्राप्तिकृतदुःखाऽपरिहारलक्षणात् तथा सुखभोगकालेऽपि स्वेष्टविषयनाशभीत्या दुःखं वर्तत इति दुःखान्तरजननलक्षणाच्च = भीत्युत्पादनपराच्च यद्वा कामभोगाद्युपभोगकाले लौल्याऽतिरेकेणाऽन्याऽन्याऽभिनवोत्कृष्टभोगसाधनादिगोचरोत्कटतृष्णालक्षणदुःखान्तरोत्पादनलक्षणाच्च परिणामात् कुशलाऽकुशलकर्मविपाकस्य दुःखात्मकता सिध्यति । तस्मादनुपायः सुखस्य भोगाभ्यासः । स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः सुखार्थी विषयाऽनुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखाऽवस्थायामपि योगिनं क्लिश्नाति । यद्यप्ययोगिनोऽपि दुःखमेव सर्वं तथापि स मूढत्वात् सुखभोगादिकं तदनुभवकाले दुःखतया न जानाति । योगी तु सुखाऽनुभवकालेऽपि तस्य दुःखात्मकत्वं पश्यतीति विशेषः । तदुक्तं मणिप्रभायां → विषयसुखभोगात् कामानलो वर्धते । वृद्धौ सत्यां काम्याऽलाभे दुःखमवश्यम्भावि । लाभेऽपि कुतश्चिद् भोगसङ्कोचे दुःखम् । सङ्कोचके द्वेषः । ततः काम-द्वेषाभ्यां पापोपचयाद् दुःखम् । असङ्कोचे व्याधिः पापञ्च ततो दुःखम् । एवं भोगस्य परिणामदुःखता । तथा सुखभोगकाले विषयनाशभीत्या दुःखं वर्तते - (म.प्र.२/१५) ।
नागोजीभट्टोऽपि → गुणानां सत्त्व-रजस्तमसां या वृत्तयः सुख-दुःख-मोहाः तासामेककालाऽनवस्थानरूपविरोधाभावाच्च सर्वं = प्रकृतिः 'तत्कार्यसुखादिकञ्च विवेकिनः सुख-दुःखतत्त्वसाक्षात्कारवतो दुःख
ફ પરિણામથી ભોગાદિ દુખાત્મક હ परि. । (१) परिमन सीधे भवि५। ६:५२१३५छे. १२९८ मतेम भोगसुप वगेरे भोगवामां આવે તેમ-તેમ ઉત્તરોત્તર આસક્તિ વધે જ રાખે છે. તેથી આસક્તિ વધતાં જો ઈષ્ટ ભોગસાધનભૂત પત્નીપૈસો-પ્રસિદ્ધિ-પઢશરીર-પરિવાર ન મળે તો તેની અપ્રાપ્તિથી થનારું દુઃખ રવાના થતું નથી. આ છે ભોગપ્રવૃત્તિ વગેરેનું એક પરિણામ. તથા જો તે ઈષ્ટ ભોગસાધનભૂત પત્ની વગેરે મળે તો એને ભોગવતાં-ભોગવતાં આસક્તિ વધુ પ્રમાણમાં વધી જતાં પરસ્ત્રી-વેશ્યા-કુંવારી કન્યા-કોલગર્લ-ડ્રીમગર્લ-ડાન્સર-ડિસ્કો ડાન્સર-મિસ ઈન્ડિયામિસ વર્લ્ડ વગેરેની તૃષ્ણાનું નવું દુઃખ ઊભું થયે જ રાખે છે. આ છે ભોગસુખપ્રવૃત્તિ વગેરેનું બીજું પરિણામ. આ બન્ને પ્રકારના પરિણામના લીધે જન્મ-જીવન-ભોગસુખપ્રવૃત્તિ દુઃખાત્મક સિદ્ધ થાય છે. १. हस्तादर्शे 'प्राप्तित्तदुः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org