________________
१७३० • चतुर्विधाः क्लेशाः •
द्वात्रिंशिका-२५/१४ बलान्नश्यत्यविद्याऽस्या उत्तरेषामियं पुनः । प्रसुप्त-तनु-विच्छिन्नोदाराणां क्षेत्रमिष्यते ॥१३॥
बलादिति । अस्याः = विवेकख्यातेः बलादविद्या नश्यति । इयम् = अविद्या पुनरुत्तरेषाम् = अस्मितादीनां क्लेशानां प्रसुप्त-तनु-विच्छिन्नोदाराणां क्षेत्रमिष्यते । तदुक्तं- "अविद्या क्षेत्रमुत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणामिति" (योगसूत्र २-४) ।।१३।। स्वकार्यं नाऽऽरभन्ते ये चित्तभूमौ स्थिता अपि । विना प्रबोधकबलं ते प्रसप्ताः शिशोरिव ।।१४।।
स्वकार्यमिति। ये = क्लेशाः चित्तभूमौ स्थिता अपि स्वकार्यं नाऽऽरभन्ते विना (प्रबोधकबलं =)
विवेकख्यातेः क्लेशहानोपायत्वमेवोपोबलयति- 'बलादिति'। विवेकख्यातेः = प्रसङ्ख्यानस्य बलाद् अविद्या = विपर्ययो नश्यति समूलम् । अविद्या पुनः अस्मितादीनां वक्ष्यमाणानां (द्वा.द्वा.२५/१८, पृ.१७३५) क्लेशानां चित्तदोषाणां प्रसुप्त-तनु-विच्छिन्नोदाराणां वक्ष्यमाणस्वरूपाणां क्षेत्रं = प्रसवभूमिः इष्यते पातञ्जलैः। यत्राऽविद्या विपर्ययज्ञानरूपा शिथिलीभवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते । विपर्ययज्ञानसद्भावे च तेषामुद्भवदर्शनात् स्थितमेव मूलत्वमविद्यायाः (रा.मा.२/४) इति राजमार्तण्डे भोजः।
यद्यप्यविद्यापञ्चकस्याऽन्तःकरणमेव प्रसवभूमिः तथाप्यविनाभावरूपेणोपादानसाधर्म्यणाऽत्र निमित्तकारणस्याऽपि प्रसवभूमित्वं गौणम्, यदेव हि वस्तु 'अहं ममे'त्यविद्याविषयो भवति तत्रैव रागादिकं भवतीति (भा.ग.२/४ वृ.) भावागणेशः । तदुक्तं योगसूत्रे पतञ्जलिना- ‘अविद्येति । अत्र चन्द्रिकाव्याख्या → अविद्या = अनात्मन्यात्माऽभिमानः सा क्षेत्रं = प्रसवभूमिः उत्तरेषां अस्मितादीनां प्रत्येकं सुप्तादिभेदेन चतुर्विधानाम् । तत्र ये क्लेशाः चित्तभूमौ स्थिताः प्रबोधकाऽभावे स्वकार्यं नाऽऽरभन्ते ते प्रसुप्ताः (१)। तनवः = सूक्ष्माः (२) । विच्छिन्नाः = परस्परमितरोत्कर्षे उच्छिन्नाः (३) । ये स्वं स्वं कार्यमभिनिवर्त्तयन्ति ते उदाराः (४) तेषाम् + (चं.२/४) इत्येवं वर्तते ।।२५/१३।।
प्रसुप्तस्वरूपं ग्रन्थकृदेवाऽधुनोपदर्शयति- 'स्वे'ति । ये क्लेशाः चित्तभूमौ स्थिताः प्रबोधकाऽभावे स्वकार्यं नारभन्ते ते प्रसुप्ता इत्युच्यन्ते यथा बालाऽवस्थायाम् । बालस्य हि वासनारूपेण स्थिता अपि
છે અવિધા અન્ય ક્લેશની જન્મભૂમિ - પાતંજલ હ ગાથાર્થ - વિવેકખ્યાતિના બળથી અવિદ્યા નાશ પામે છે. આ અવિદ્યા તો પ્રસુત, તન, વિચ્છિન્ન અને ઉદાર એવા અન્ય અસ્મિતા વગેરે ક્લેશોની જન્મભૂમિ તરીકે માન્ય છે. (૨પ/૧૩)
ટીકાર્ય :- વિવેકખ્યાતિના બળથી અવિદ્યા નાશ પામે છે. આ અવિદ્યા તો પ્રસુત, તન, વિચ્છિન્ન અને ઉદાર અવસ્થાવાળા અસ્મિતા, રાગ વગેરે ચારેય ક્લેશોની જન્મભૂમિ રૂપે માન્ય છે. તેથી તો પાતંજલ યુનિએ યોગસૂત્ર ગ્રંથમાં કહેલ છે કે – “પ્રસુપ્ત, તન, વિચ્છિન્ન અને ઉદાર એવા અન્ય संशोनी ४न्मभूमि अविधा छ.' 6 (२५/१3)
विशेषार्थ :- प्रसुत वगैरेनी व्याध्या ग्रंथ१२श्री. मागणवे . (२५/१२)
ગાથાર્થ :- (૧) જે ક્લેશ ચિત્તભૂમિમાં વિદ્યમાન હોવા છતાં પ્રબોધકનું બળ ન હોવાના કારણે પોતાના કાર્યને શરૂ નથી કરતા તે લેશો બાળકની જેમ પ્રસુપ્ત અવસ્થાવાળા કહેવાય છે. (૨૫/૧૪)
ટીકાર્થ:- જે ક્લેશો ચિત્તભૂમિમાં હાજર હોવા છતાં પણ ઉદ્ઘોધકના અત્યંત બળ વિના પોતાનું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org