________________
१७२८
कुशलपुरुषावस्थोपवर्णनम् •
द्वात्रिंशिका - २५/१२
( १ ) ' चरितार्था मे बुद्धिः ', गुणाः 'हृताऽधिकारा मोहबीजाऽभावात् कुतोऽमीषां प्ररोह : ?, (२) सात्मीभूतश्च मे समाधिरिति, (३) स्वरूपप्रतिष्ठोऽहमिति गुणविषयज्ञानरूपास्तिस्रः 'चित्तविमुक्तय इति । तदिदमुक्तं- “तस्य सप्तधा प्रान्तभू (मिः ) प्रज्ञेति ” ( योगसूत्र २ - २७ ) ।।१२।।
•
प्रकृते योगसूत्रसंवादमाह- 'तस्ये 'ति । प्रकृते राजमार्तण्डव्याख्यैवम् → तस्य = उत्पन्नविवेकज्ञानस्य ज्ञातव्यविवेकरूपा प्रज्ञा प्रान्तभूमौ सकलसालम्बनसमाधिभूमिपर्यन्ते सप्तप्रकारा भवति । तत्र कार्यविमुक्तिरूपा चतुष्प्रकारा- ( 9 ) 'ज्ञातं मया ज्ञेयं, न ज्ञातव्यं किञ्चिदस्ति', (२) 'क्षीणा मे क्लेशाः, न किञ्चित् क्षेतव्यमस्ति', (३) 'अधिगतं मया ज्ञानं', (४) 'प्राप्ता मया विवेकख्यातिः' इति प्रत्ययान्तरपरिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञा जायते । ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते । चित्तविमुक्तिस्त्रिधा - ( १ ) चरितार्था मे बुद्धि:, गुणाः हृताधिकाराः, मोहाऽभिधानमूलकारणाऽभावात् निष्प्रयोजनत्वाच्चाऽमीषां कुतः प्ररोहो भवेत् ? (२) 'सात्मीभूतश्च मे समाधिः', (३) 'तस्मिन् सति स्वरूपप्रतिष्ठोऽहमिति । ईदृशी त्रिप्रकारा चित्तविमुक्तिः । तदेवमीदृश्यां सप्तविधप्रान्तभूमिप्रज्ञायामुपजातायां पुरुष: कुशल इत्युच्यते ← (रा.मा.२/२७) इति ।
अत्र मणिप्रभावृत्तिस्त्वेवम् प्रकृष्टः अन्तः = अवसानं फलत्वेन यासां ताः प्रान्ताः चरमा इति यावत् । प्रान्ता भूमयोऽवस्थाः यस्याः सा प्रज्ञा प्रान्तभूमिः स्थिरा अविप्लवा आत्मख्यातिः विदुषः प्रत्ययान्तरतिरस्कारेण सप्तप्रकाराः प्रज्ञाऽवस्थाः चरमा भवन्ति । (१) ज्ञातव्यमखिलं ज्ञातं, अतः परं न किञ्चित् ज्ञातव्यमस्तीत्येका । सर्वजिज्ञासानिवर्तकत्वादियं प्रान्ता । न हि इयं अनात्मज्ञस्य सम्भवति । ततः तदालम्बनसमाधिना प्रधानाऽन्तप्रज्ञायां स्थिरायामपि आत्मजिज्ञासायाः सत्त्वेन तत्प्रज्ञाया अचरमत्वात् । एवमग्रिमाऽवस्थानां प्रान्तत्वं मन्तव्यम् । (२) हातव्याः सर्वे बन्धहेतवो हताः, न किञ्चिन्मम हेयमस्तीति द्वितीया । (३) कैवल्यप्राप्त्या प्राप्तव्यमखिलं प्राप्तम्, अतोऽन्यन्न किञ्चिदपि मम प्राप्तव्यमस्तीति तृतीया । (४) विवेकख्यातिसम्पादनेन कर्तव्यमखिलं कृतम्, न किञ्चित्कार्यमस्तीति चतुर्थी । एताः चतस्रः कार्यविमुक्तिसंज्ञाः । चित्तविमुक्तिसंज्ञाः तिस्रः । यथा ( १ ) कृतार्थं मे बुद्धिसत्त्वमित्येका । (२) बुद्ध्या तद्रूपा गुणा अपि गिरिशिखरच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाऽभिमुखाः सङ्घातेनाऽस्तमात्यन्तिकं गच्छन्ति, तेषां नास्ति पुनः प्ररोहः प्रयोजनाभावादिति द्वितीया ।
=
તથા (૧) ‘મારી બુદ્ધિ કૃતાર્થ થઈ છે. રજોગુણ વગેરે ગુણોના અધિકારો હરાઈ ગયા છે, ખેંચાઈ ગયા છે. મોહ નામનું બીજ ન હોવાના કારણે બુદ્ધિ-રજોગુણ-તમોગુણ વગેરે ફરીથી કઈ રીતે અંકુરિત થશે ? અર્થાત્ નિહ જ થાય. (૨) મને સમાધિ આત્મસાત્ થયેલ છે. (૩) હું મારા સ્વરૂપમાં જ પ્રતિષ્ઠિત થયેલો છું.’ - આવા પ્રકારે ગુણવિષયક જ્ઞાનસ્વરૂપ ત્રણ પ્રકારની ચિત્તવિમુક્તિ સમજવી. આમ કુલ સાત પ્રકારે વિવેકખ્યાતિ થાય છે. તેથી તો પતંજલિ મહર્ષિએ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે → ‘જેને વિવેકખ્યાતિ ઉત્પન્ન થયેલ છે તેની પ્રાન્ત ભૂમિકાની પ્રજ્ઞા સાત પ્રકારે હોય છે.' - (૨૫/૧૨)
१. मुद्रितप्रतौ 'बुद्धिगुणा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तादर्शे च 'बुद्धिगुणाः कृताधिकारा' इत्यशुद्धः पाठः । अस्माभिस्तु राजमार्तण्डानुसारेणाऽपेक्षितः पाठो योजितः । ३. हस्तादर्शे 'कार्यवि....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org