________________
• प्रान्तभूमिप्रज्ञापरामर्शः •
=
सा च सप्तधा = सप्तप्रकारैः प्रान्तभूप्रज्ञा सकलसालम्बनसमाधिपर्यन्तभूमिधीर्भवति कार्यचित्तविमुक्तिभिः चतुस्त्रिप्रकाराभिः । तत्र ( १ ) ( न मे ज्ञातव्यं किञ्चिदस्ति, (२) क्षीणा मे क्लेशाः, न मे क्षेतव्यं किञ्चिदस्ति, (३) अधिगतं मया ज्ञानं, (४) प्राप्ता विवेकख्याति'रिति कार्यविषयनिर्मलज्ञानरूपाश्चतस्रः कार्यविमुक्तयः ।
=
कारणम् । कीदृशी ? अविप्लवा । न विद्यते विप्लवः विच्छेदः अन्तरा व्युत्थानरूपो यस्याः सा अविप्लवा । इदमत्र तात्पर्यम् - प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्व-कर्तृत्वाऽभिमानायाः रजस्तमोमलाऽनभिभूतायाः बुद्धेः अन्तर्मुखाया या चिच्छायासङ्क्रान्तिः सा विवेकख्यातिरुच्यते । तस्याः च सन्ततत्वेन प्रवृत्तायां सत्यां दृश्यस्याऽधिकारनिवृत्तेर्भवत्येव कैवल्यम् ← (रा.मा.२/२६) इति । अत्र योगसूत्रभाष्ये व्यासस्तु सत्त्वपुरुषाऽन्यताप्रत्ययो विवेकख्यातिः । सा त्वनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये प-रस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति । सा विवेकख्यातिरविप्लवा हानस्योपायः । ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाऽप्रसव इत्येष मोक्षस्य मार्गो हानस्य उपायः ← (यो.सू.भा.२/२६ ) इत्याह । मणिप्रभायां रामानन्दस्तु दृग्दृश्ययोर्भेदः विवेकः तस्य ज्ञानं ख्यातिः । विप्लवः मिथ्याज्ञानम् । आदौ खलु आगमात् सामान्यतः विवेकख्यातिरुदेति साऽनाद्यविद्यां न हन्ति, परोक्षत्वात् । यदा सा मननेन स्थापिता सती सर्वतो विरक्तेन पुरुषाऽभिमुखेन चित्तेन निरन्तरमभ्यस्यते तदा ध्यानप्रकर्षपर्यन्तजा चित्प्रतिबिम्बवती साक्षात्काररूपा सवासनमिथ्याज्ञानं निहन्ति अविप्लवा सती परवैराग्यपूर्वकनिरोधेन संस्कारशेषस्य कृतकृत्यस्य प्रारब्धाऽवसाने आत्यन्तिकनिवृत्तिद्वारा भाविदुःखहानस्य मोक्षस्योपायः ← (म. प्र.२/२६) इत्याचष्टे ।
उत्पन्नविवेकख्यातेः पुरुषस्य यादृशी प्रज्ञा भवति तां कथयन् विवेकख्यातेरेव स्वरूपमाह- 'से 'ति । कार्येति । कार्यविमुक्तिः चतुर्धा, चित्तविमुक्तिः तु त्रिधा इत्येवं सप्तप्रकारा सत्त्व- पुरुषाऽन्यताख्यातिर्भवतीति भावः । तत्र कार्यविमुक्तिरिति प्रयत्नव्याप्येन कार्यान्तरेण विमुक्तिः प्रज्ञायाः इत्यर्थः, प्रयत्ननिष्पाद्याऽनुनिष्पादनीया चित्तविमुक्तिरप्रयत्नसाध्येति (यो.सू.२/२७ त.वै.) तत्त्ववैशारद्यां वाचस्पतिमिश्रमतम् । આ વિવેખ્યાતિના સાત પ્રકાર છે
=
=
=
Jain Education International
१७२७
=
सा च । खाविवेऽध्याति तमाम सालंजन समाधिनी छेल्सी भूमि उत्पन्न थनारी बुद्धि स्व३५ છે. તેના સાત પ્રકાર છે. ચાર પ્રકારની કાર્યવિમુક્તિ અને ત્રણ પ્રકારની ચિત્તવિમુક્તિ એમ ભેગી કરીને કુલ સાત પ્રકારે વિવેકખ્યાતિ બને છે. તેમાં ચાર પ્રકારની કાર્યવિમુક્તિ વિવેકખ્યાતિ આ મુજબ સમજવી. (૧) ‘મારે જાણવા યોગ્ય કશું બાકી રહ્યું નથી. (૨) મારા ક્લેશો ક્ષીણ થઈ ગયા છે. મારે ક્ષીણ કરવા યોગ્ય કશું બાકી નથી રહ્યું. (૩) મારા વડે જ્ઞાન મેળવાયું છે. (૪) વિવેકખ્યાતિ પ્રાપ્ત થઈ ગઈ છે.’ - આ પ્રમાણે કાર્યવિષયક નિર્મલ જ્ઞાનસ્વરૂપ ચાર પ્રકારની કાર્યવિમુક્તિ સમજવી.
१. मुद्रितप्रतौ “...गतं ( ता ) मया हानप्राप्तविवेक...” इत्यशुद्धः पाठः । २. हस्तादर्शेऽपि 'हानप्राप्ता...' इत्यशुद्धः पाठः । राजमार्तण्डानुसारेणास्माभिरत्राऽपेक्षितः पाठो योजितः । ३. हस्तादर्शेन्तरे 'हानध्वमाविवे...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org