SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ • उपप्लववशात् स्नेहोत्पादविचारः • १७२१ ध्रुवेक्षणेऽपीति । ध्रुवेक्षणेऽपि = ध्रुवात्मदर्शनेऽपि न प्रेम समुत्पत्तुमुत्सहते, निवृत्तं उपरतं 'अनुपप्लवात् संक्लेशक्षयात् विसभागपरिक्षयाऽभिधानात् ज्ञाने ग्राह्याssकार इव भवन्मते । उपप्लववशाद्धि तत्र तदवभासस्तदभावे तु तन्निवृत्तिरिति । तथा च सिद्धान्तो वः“ग्राह्यं न तस्य ग्रहणं न तेन, ज्ञानान्तरग्राह्यतयाऽपि शून्यम् 1 तथापि च ज्ञानमयः प्रकाशः, प्रत्यक्षरूपस्य तथाविरासीत् ।। " ( ) इति । नाधिकरणाऽनागतकालीनस्य सुखस्य या प्राप्तिः दुःखस्य च परिहृतिः तयोः चिन्ताया अवश्यक्लृप्तत्वाद् ध्रुवाऽऽत्मदर्शनस्य वैराग्यप्रतिबन्धकत्वमेव इति चेत् ? अत्र समाधानाय ग्रन्थकृद् - 'ध्रुवे । ध्रुवाऽऽत्मदर्शनेऽपि = नित्याऽऽत्माऽवलोकनेऽपि न = नैव प्रेम आत्माभिष्वङ्गलक्षणं समुत्पत्तुं उत्सहते, यतः तद् विसभागपरिक्षयाऽभिधानात् सङ्क्लेशक्षयात् हेतोः उपरतं = उच्छिन्नसन्तानं वर्तते । उदाहरति भवन्मते = ज्ञानाऽद्वैतवादियोगाचारमते ज्ञाने मुक्तिकालीने ग्राह्याऽऽकारः = नीलपीतादिविषयाऽऽकार इव । उपप्लववशात् = तृष्णादिविसभागपारवश्यात् हेतोः हि तत्र = ज्ञाने संसारदशायां तदवभासः ग्राह्याऽऽकारप्रकाशः तदभावे रागादिविभागपरिक्षये तु ज्ञाने मुक्त्यवस्थायां तन्निवृत्तिः ग्राह्याऽऽकारोपरतिः । तदुक्तं मज्झिमनिकाये अलगर्दोपमसूत्रे एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिं निब्बिन्दति, वेदनाय निब्बिन्दति, सञ्जय निब्बिन्दति, सखारेसु निब्बिन्दति, विञ्ञणस्मिं निब्बिन्दति, निब्बिदा विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति जाणं होति । ' खीणा जाति, सितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया' ति पजानाति ← (म.नि. १ । ३ ।२।२४५ पृ. १९३) इति । विञ्ञणस्मिं उपप्लुतविज्ञाने, शिष्टं स्पष्टम् । इयञ्चाऽवस्था पातञ्जलदर्शनेऽनुपदमेव ( द्वा. द्वा.२५/१२ पृ.१७२८) वक्ष्यमाणकार्यविमुक्तिप्रज्ञास्थानीयेत्यप्यवधेयम् । = = = = = = प्रकृतमुच्यते तथा च वः शून्यवादिनां सौगतानां सिद्धान्तः विषयमूलराद्धान्तः ' ग्राह्यं भावाऽऽपन्नं न तस्य स्वतः प्रकाशस्य सकलक्लेशक्षयात् । अत एव तेन = स्वतः प्रकाशेन कस्यचिदपि ग्रहणं प्रकाशनमपि न सम्पद्यते, स्वयञ्च ज्ञानान्तरग्राह्यतयाऽपि च = स्वेतरप्रकाशप्रकाश्यतयाऽपि हि शून्यं रहितं तथापि च सर्वथा शून्यता नाऽस्ति यतस्तदा प्रत्यक्षरूपस्य = अपरोक्ष = = १. मुद्रितप्रतौ ' उपप्ल...' इत्यशुद्धः पाठः । ... चिह्नद्वमध्यवर्ती पाठो हस्तादर्शे नास्ति । Jain Education International For Private & Personal Use Only = ટીકાર્થ :- આત્માને ધ્રુવ = કાલાન્તરસ્થાયી માનવામાં આવે અને ધ્રુવરૂપે આત્માનું દર્શન-જ્ઞાન કરવામાં આવે તો પણ રાગ ઉત્પન્ન થવા માટે તૈયાર થતો નથી. કારણ કે અનુપપ્લવના લીધે રાગ અટકી ગયેલ છે. ઉપપ્લવ એટલે સંક્લેશ. રાગાદિ સંક્લેશ જ્ઞાનને વિકૃત કરે છે. માટે રાગાદિમય વિકૃત જ્ઞાનસંતતિ બૌદ્ધમતમાં વિસભાગસંતતિ તરીકે ઓળખાય છે. રાગાદિ ક્લેશનો ક્ષય બૌદ્ધમતમાં વિસભાગપરિક્ષય તરીકે ઓળખાય છે. અનુપપ્લવસ્વરૂપ વિસભાગપરિક્ષયના કારણે રાગ રવાના થયેલ હોવાથી આત્માને નિત્યરૂપે જોવા છતાં પણ રાગ ઉત્પન્ન થવા માટે તૈયાર થતો નથી - એવું ગ્રંથકારશ્રી બૌદ્ધને કહે છે. આનું ઉદાહરણ પણ ગ્રંથકારશ્રી બૌદ્ધદર્શનની પ્રસિદ્ધિ મુજબ બતાવે છે કે અનુપપ્લવના કારણે નિવૃત્ત થયેલો ગ્રાહ્યાકાર જેમ જ્ઞાનમાં ઉત્પન્ન થવા માટે તૈયાર થતો નથી તેમ ઉપરોક્ત વાત સમજવી. રાગાદિ સંકલેશના કારણે જ જ્ઞાનમાં ગ્રાહ્યાકાર = નીલ-પીતાદિ વિષયાકાર ભાસે છે. રાગાદિ www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy