________________
• सर्वथाक्षणिकत्वे तर्काद्यसम्भवः
न च तद्धेतुकः = आत्मदर्शनहेतुकः स्नेहः किं तु कर्मोदयोद्भवो अतो नाऽयमात्मदर्शनाऽपराध इति भावः ।। १० ।।
=
=
१७१९
मोहनीयकर्मोदयनिमित्तकः ।
=
यस्याऽङ्गीकाराद्विहित-निषिद्धकर्म-तत्फलयोरैकाधिकरण्यनियमस्योपपत्तिः सुकरैव । आदिपदेन स्मरण तर्कव्याप्तिग्रह-देशनियमादिग्रहः । तथाहि संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदि' त्याकारं स्मरणम् ← (प्र.न.त.३/३) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रसूत्रितं, 'संस्कारोद्बोधनिबन्धनं 'तदि 'त्याकारं स्मरणं ' स देवदत्तो यथा ← (प्र.न. त . र. ३/३ ) इति प्रमाणनयतत्त्वरहस्यदर्शितं स्मरणं पूर्वाऽपरकालव्यापिनमात्मानं विना नैव सङ्गच्छेत, क्षणिकैकान्ताऽऽत्मपक्षेऽनुभवितुः निरन्वयनष्टत्वेन संस्काराश्रस्यैव विरहात् । तथा → उपलम्भानुपलभसम्भवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनं 'इदमस्मिन् सत्येव भवती' त्याद्याकारं संवेदनमूहाऽपरनामा तर्कः ← (प्र.न.त. ३ / ७ ) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रदर्शितलक्षणस्य तर्कस्य व्याप्तिः = व्यापकस्य व्याप्ते सति भाव एव, व्याप्यस्य वा तत्रैव भावः ← (प्र.मी. २/ ६) इति प्रमाणमीमांसासूत्रदर्शितायाश्च व्याप्तेर्ग्रह एकान्तक्षणिकपक्षे नैव सम्भवति, तयोः ग्रहस्य नानाक्षणाऽवगाहित्वात् । देशनियमो हि कार्यकाले फलपरिणामिसत्तां विना दुर्घटः, सर्वेषां घटकुर्वद्रूपक्षणानामेकत्राऽसत्त्वात्, मृत्पिण्डक्षणदेशेऽपि पूर्वत्र घटक्षणाऽनुत्पत्तेश्च इति निर्लोठितं = निराकृतं अन्यत्र स्याद्वादकल्पलतादौ (शा. वा. ३ / ५७) । ततश्च सुष्ठुक्तं न्यायखण्डखाद्ये ग्रन्थकृतैव यदा तु प्रथमत एव व्याप्त्यग्रहात् सत्त्व-क्षणिकत्वयोर्व्याप्त्यसिद्धेर्हेतोर्व्याप्यसिद्धिज्ञानेन क्षणभङ्गसाधकप्रमाणस्यैव भङ्ग उपतिष्ठते तदा स स्थिराऽऽत्मबाधन-नैरात्म्यसाधनयोरेकत्राऽप्यपर्याप्तत्वाद् भूमिपतितोभयपाणिस्तुष्णींभावेन निग्रहस्थानप्राप्तत्वात् पराजयहेतोर्विपुलं शोकमेतु ← ( न्या. खं खा. गा. ४ पृ. १३) इत्यादि । यच्च प्राक् ‘जन्मयोनिर्यतस्तृष्णा ध्रुवा सा चाऽऽत्मदर्शने' ( द्वा.द्वा. २५/४ ) इत्याद्युक्तं तन्निराकरणाय यतते- न च आत्मदर्शनहेतुकः नित्याऽऽत्मनिरीक्षणनिमित्तको वा स्नेहः आत्मगोचररागादिलक्षणः, किन्तु मोहनीयकर्मोदयनिमित्तकः चारित्रमोहनीयकर्मोदयहेतुकः । अतो न अयं आत्मविषयकस्नेहोत्पाद आत्मदर्शनाऽऽपराधः आत्मनिरीक्षणदोष इति भावः । एतेन यः पश्यत्यात्मानं तत्राऽस्याऽहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ।। गुणदर्शी परितृष्यन् ममेति साधनान्युपादत्ते । तेनाऽऽत्माऽभिनिवेशो यावत् तावत् स संसारे ।। आत्मनि सति परसंज्ञा, स्व-परविभागात् परिग्रह-द्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ।। ← (प्र.वा. १/२१९ २० २१ ) इति प्रमाणवार्तिककारिका निरस्ताः, दर्शितरीत्या निर्विषयत्वेनोक्तिमात्रत्वात् । कथं च बुद्ध - धर्म - सङ्घलक्षणे परमनिर्वृत्तिहेतौ सति वचनमार्गकुशलस्य तदपायभीरोः अपास्ताऽऽशङ्कमिदं वक्तुमुचितं यदुत 'नास्ति आत्मा' इति, तदाशातनापत्तेः, असदभिधानादित्यधिकं अनेकान्तजयपताकायाम् (अ.ज. प. भाग - २ / पृ.२०८) । इत्थञ्चाऽऽत्मस्नेहनिवारणोपायाऽन्वेषणायाऽऽत्मापलापो हि काकिण्यन्वेषणाय निष्कसहस्रव्ययन्यायम
=
વળી રાગ કાંઈ આત્મદર્શનના કારણે નથી થતો, પરંતુ મોહનીયકર્મના વિપાકોદયના કારણે થાય છે. માટે રાગ થવો એ કાંઈ આત્મદર્શનનો અપરાધ નથી. એવો અહીં આશય છે.(૨૫/૧૦)
વિશેષાર્થ :- જે મેં પૂર્વે અનુભવ કર્યો હતો તે જ હું અત્યારે સ્મરણ કરી રહ્યો છું' - આમ પૂર્વોત્તરકાલવ્યાપી આત્માનું અવગાહન કરનારી પ્રતીતિ પ્રત્યભિજ્ઞાપ્રમાણ કહેવાય છે. જો અનુભવ કરનાર
આત્મા ક્ષણિક જ હોય તો ઉત્તરકાલે સ્મરણ થઈ ન શકે. તેથી ઉપરોક્ત પ્રત્યભિજ્ઞા પણ સંગત થઈ ન શકે. કારણ કે પ્રત્યભિજ્ઞા પ્રમાણ તો અનુભવ કરનાર અને સ્મરણ કરનાર આત્મામાં અભેદની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org